श्रीमद्भागवत तृतीय स्कन्ध अध्याय 30
श्रीमद्भागवत तृतीय स्कन्ध अध्याय 30 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 3.30.1
तस्यैतस्य जनो नूनं नायं वेदोरुविक्रमम् । काल्यमानो ऽपि बलिनो वायोर् इव घनावलिः ॥ 1 ॥
श्लोक 3.30.2
यं यम् अर्थम् उपादत्ते दुःखेन सुखहेतवे । तं तं धुनोति भगवान् पुमान् छोचति यत्कृते ॥ 2 ॥
श्लोक 3.30.3
यद् अध्रुवस्य देहस्य सानुबन्धस्य दुर्मतिः । ध्रुवाणि मन्यते मोहाद् गृहक्षेत्रवसूनि च ॥ 3 ॥
श्लोक 3.30.4
जन्तुर् वै भव एतस्मिन् यां यां योनिम् अनुव्रजेत् । तस्यां तस्यां स लभते निर्वृतिं न विरज्यते ॥ 4 ॥
श्लोक 3.30.5
नरकस्थो ऽपि देहं वै न पुमांस् त्यक्तुम् इच्छति । नारक्यां निर्वृतौ सत्यां देवमायाविमोहितः ॥ 5 ॥
श्लोक 3.30.6
आत्मजायासुतागारपशुद्रविणबन्धुषु । निरूढमूलहृदय आत्मानं बहु मन्यते ॥ 6 ॥
श्लोक 3.30.7
सन्दह्यमानसर्वाङ्ग एषाम् उद्वहनाधिना । करोत्य् अविरतं मूढो दुरितानि दुराशयः ॥ 7 ॥
श्लोक 3.30.8
आक्षिप्तात्मेन्द्रियः स्त्रीणाम् असतीनां च मायया । रहो रचितयालापैः शिशूनां कलभाषिणाम् ॥ 8 ॥
श्लोक 3.30.9
गृहेषु कूटधर्मेषु दुःखतन्त्रेष्व् अतन्द्रितः । कुर्वन् दुःखप्रतीकारं सुखवन् मन्यते गृही ॥ 9 ॥
श्लोक 3.30.10
अर्थैर् आपादितैर् गुर्व्या हिंसयेतस्ततश् च तान् । पुष्णाति येषां पोषेण शेषभुग् यात्य् अधः स्वयम् ॥ 10 ॥
श्लोक 3.30.11
वार्तायां लुप्यमानायाम् आरब्धायां पुनः पुनः । लोभाभिभूतो निःसत्त्वः परार्थे कुरुते स्पृहाम् ॥ 11 ॥
श्लोक 3.30.12
कुटुम्बभरणाकल्पो मन्दभाग्यो वृथोद्यमः । श्रिया विहीनः कृपणो ध्यायन् छ्वसिति मूढधीः ॥ 12 ॥
श्लोक 3.30.13
एवं स्वभरणाकल्पं तत्कलत्रादयस् तथा । नाद्रियन्ते यथा पूर्वं कीनाशा इव गोजरम् ॥ 13 ॥
श्लोक 3.30.14
तत्राप्य् अजातनिर्वेदो भ्रियमाणः स्वयम् भृतैः । जरयोपात्तवैरूप्यो मरणाभिमुखो गृहे ॥ 14 ॥
श्लोक 3.30.15
आस्ते ऽवमत्योपन्यस्तं गृहपाल इवाहरन् । आमयाव्य् अप्रदीप्ताग्निर् अल्पाहारो ऽल्पचेष्टितः ॥ 15 ॥
श्लोक 3.30.16
वायुनोत्क्रमतोत्तारः कफसंरुद्धनाडिकः । कासश्वासकृतायासः कण्ठे घुरघुरायते ॥ 16 ॥
श्लोक 3.30.17
शयानः परिशोचद्भिः परिवीतः स्वबन्धुभिः । वाच्यमानो ऽपि न ब्रूते कालपाशवशं गतः ॥ 17 ॥
श्लोक 3.30.18
एवं कुटुम्बभरणे व्यापृतात्माजितेन्द्रियः । म्रियते रुदतां स्वानाम् उरुवेदनयास्तधीः ॥ 18 ॥
श्लोक 3.30.19
यमदूतौ तदा प्राप्तौ भीमौ सरभसेक्षणौ । स दृष्ट्वा त्रस्तहृदयः शकृन्मूत्रं विमुञ्चति ॥ 19 ॥
श्लोक 3.30.20
यातनादेह आवृत्य पाशैर् बद्ध्वा गले बलात् । नयतो दीर्घम् अध्वानं दण्ड्यं राजभटा यथा ॥ 20 ॥
श्लोक 3.30.21
तयोर् निर्भिन्नहृदयस् तर्जनैर् जातवेपथुः । पथि श्वभिर् भक्ष्यमाण आर्तो ऽघं स्वम् अनुस्मरन् ॥ 21 ॥
श्लोक 3.30.22
क्षुत्तृट्परीतो ऽर्कदवानलानिलैः सन्तप्यमानः पथि तप्तवालुके । कृच्छ्रेण पृष्ठे कशया च ताडितश् चलत्य् अशक्तो ऽपि निराश्रमोदके ॥ 22 ॥
श्लोक 3.30.23
तत्र तत्र पतन् छ्रान्तो मूर्च्छितः पुनर् उत्थितः । पथा पापीयसा नीतस् तरसा यमसादनम् ॥ 23 ॥
श्लोक 3.30.24
योजनानां सहस्राणि नवतिं नव चाध्वनः । त्रिभिर् मुहूर्तैर् द्वाभ्यां वा नीतः प्राप्नोति यातनाः ॥ 24 ॥
श्लोक 3.30.25
आदीपनं स्वगात्राणां वेष्टयित्वोल्मुकादिभिः । आत्ममांसादनं क्वापि स्वकृत्तं परतो ऽपि वा ॥ 25 ॥
श्लोक 3.30.26
जीवतश् चान्त्राभ्युद्धारः श्वगृध्रैर् यमसादने । सर्पवृश्चिकदंशाद्यैर् दशद्भिश् चात्मवैशसम् ॥ 26 ॥
श्लोक 3.30.27
कृन्तनं चावयवशो गजादिभ्यो भिदापनम् । पातनं गिरिशृङ्गेभ्यो रोधनं चाम्बुगर्तयोः ॥ 27 ॥
श्लोक 3.30.28
यास् तामिस्रान्धतामिस्रा रौरवाद्याश् च यातनाः । भुङ्क्ते नरो वा नारी वा मिथः सङ्गेन निर्मिताः ॥ 28 ॥
श्लोक 3.30.29
अत्रैव नरकः स्वर्ग इति मातः प्रचक्षते । या यातना वै नारक्यस् ता इहाप्य् उपलक्षिताः ॥ 29 ॥
श्लोक 3.30.30
एवं कुटुम्बं बिभ्राण उदरम् भर एव वा । विसृज्येहोभयं प्रेत्य भुङ्क्ते तत्फलम् ईदृशम् ॥ 30 ॥
श्लोक 3.30.31
एकः प्रपद्यते ध्वान्तं हित्वेदं स्वकलेवरम् । कुशलेतरपाथेयो भूतद्रोहेण यद् भृतम् ॥ 31 ॥
श्लोक 3.30.32
दैवेनासादितं तस्य शमलं निरये पुमान् । भुङ्क्ते कुटुम्बपोषस्य हृतवित्त इवातुरः ॥ 32 ॥
श्लोक 3.30.33
केवलेन ह्य् अधर्मेण कुटुम्बभरणोत्सुकः । याति जीवो ऽन्धतामिस्रं चरमं तमसः पदम् ॥ 33 ॥
श्लोक 3.30.34
अधस्तान् नरलोकस्य यावतीर् यातनादयः । क्रमशः समनुक्रम्य पुनर् अत्राव्रजेच् छुचिः ॥ 34 ॥