श्रीमद्भागवत तृतीय स्कन्ध अध्याय 6
श्रीमद्भागवत तृतीय स्कन्ध अध्याय 6 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 3.6.1
इति तासां स्वशक्तीनां सतीनाम् असमेत्य सः । प्रसुप्तलोकतन्त्राणां निशाम्य गतिम् ईश्वरः ॥ 1 ॥
श्लोक 3.6.2
कालसञ्ज्ञां तदा देवीं बिभ्रच्छक्तिम् उरुक्रमः । त्रयोविंशति तत्त्वानां गणं युगपद् आविशत् ॥ 2 ॥
श्लोक 3.6.3
सो ऽनुप्रविष्टो भगवांश् चेष्टारूपेण तं गणम् । भिन्नं संयोजयाम् आस सुप्तं कर्म प्रबोधयन् ॥ 3 ॥
श्लोक 3.6.4
प्रबुद्धकर्म दैवेन त्रयोविंशतिको गणः । प्रेरितो ऽजनयत् स्वाभिर् मात्राभिर् अधिपूरुषम् ॥ 4 ॥
श्लोक 3.6.5
परेण विशता स्वस्मिन् मात्रया विश्वसृग्गणः । चुक्षोभान्योन्यम् आसाद्य यस्मिन् लोकाश् चराचराः ॥ 5 ॥
श्लोक 3.6.6
हिरण्मयः स पुरुषः सहस्रपरिवत्सरान् । आण्डकोश उवासाप्सु सर्वसत्त्वोपबृंहितः ॥ 6 ॥
श्लोक 3.6.7
स वै विश्वसृजां गर्भो देवकर्मात्मशक्तिमान् । विबभाजात्मनात्मानम् एकधा दशधा त्रिधा ॥ 7 ॥
श्लोक 3.6.8
एष ह्य् अशेषसत्त्वानाम् आत्मांशः परमात्मनः । आद्यो ऽवतारो यत्रासौ भूतग्रामो विभाव्यते ॥ 8 ॥
श्लोक 3.6.9
साध्यात्मः साधिदैवश् च साधिभूत इति त्रिधा । विराट् प्राणो दशविध एकधा हृदयेन च ॥ 9 ॥
श्लोक 3.6.10
स्मरन् विश्वसृजाम् ईशो विज्ञापितम् अधोक्षजः । विराजम् अतपत् स्वेन तेजसैषां विवृत्तये ॥ 10 ॥
श्लोक 3.6.11
अथ तस्याभितप्तस्य कतिधायतनानि ह । निरभिद्यन्त देवानां तानि मे गदतः शृणु ॥ 11 ॥
श्लोक 3.6.12
तस्याग्निर् आस्यं निर्भिन्नं लोकपालो ऽविशत् पदम् । वाचा स्वांशेन वक्तव्यं ययासौ प्रतिपद्यते ॥ 12 ॥
श्लोक 3.6.13
निर्भिन्नं तालु वरुणो लोकपालो ऽविशद् धरेः । जिह्वयांशेन च रसं ययासौ प्रतिपद्यते ॥ 13 ॥
श्लोक 3.6.14
निर्भिन्ने अश्विनौ नासे विष्णोर् आविशतां पदम् । घ्राणेनांशेन गन्धस्य प्रतिपत्तिर् यतो भवेत् ॥ 14 ॥
श्लोक 3.6.15
निर्भिन्ने अक्षिणी त्वष्टा लोकपालो ऽविशद् विभोः । चक्षुषांशेन रूपाणां प्रतिपत्तिर् यतो भवेत् ॥ 15 ॥
श्लोक 3.6.16
निर्भिन्नान्य् अस्य चर्माणि लोकपालो ऽनिलो ऽविशत् । प्राणेनांशेन संस्पर्शं येनासौ प्रतिपद्यते ॥ 16 ॥
श्लोक 3.6.17
कर्णाव् अस्य विनिर्भिन्नौ धिष्ण्यं स्वं विविशुर् दिशः । श्रोत्रेणांशेन शब्दस्य सिद्धिं येन प्रपद्यते ॥ 17 ॥
श्लोक 3.6.18
त्वचम् अस्य विनिर्भिन्नां विविशुर् धिष्ण्यम् ओषधीः । अंशेन रोमभिः कण्डूं यैर् असौ प्रतिपद्यते ॥ 18 ॥
श्लोक 3.6.19
मेढ्रं तस्य विनिर्भिन्नं स्वधिष्ण्यं क उपाविशत् । रेतसांशेन येनासाव् आनन्दं प्रतिपद्यते ॥ 19 ॥
श्लोक 3.6.20
गुदं पुंसो विनिर्भिन्नं मित्रो लोकेश आविशत् । पायुनांशेन येनासौ विसर्गं प्रतिपद्यते ॥ 20 ॥
श्लोक 3.6.21
हस्ताव् अस्य विनिर्भिन्नाव् इन्द्रः स्वर्पतिर् आविशत् । वार्तयांशेन पुरुषो यया वृत्तिं प्रपद्यते ॥ 21 ॥
श्लोक 3.6.22
पादाव् अस्य विनिर्भिन्नौ लोकेशो विष्णुर् आविशत् । गत्या स्वांशेन पुरुषो यया प्राप्यं प्रपद्यते ॥ 22 ॥
श्लोक 3.6.23
बुद्धिं चास्य विनिर्भिन्नां वाग्ईशो धिष्ण्यम् आविशत् । बोधेनांशेन बोद्धव्यम् प्रतिपत्तिर् यतो भवेत् ॥ 23 ॥
श्लोक 3.6.24
हृदयं चास्य निर्भिन्नं चन्द्रमा धिष्ण्यम् आविशत् । मनसांशेन येनासौ विक्रियां प्रतिपद्यते ॥ 24 ॥
श्लोक 3.6.25
आत्मानं चास्य निर्भिन्नम् अभिमानो ऽविशत् पदम् । कर्मणांशेन येनासौ कर्तव्यं प्रतिपद्यते ॥ 25 ॥
श्लोक 3.6.26
सत्त्वं चास्य विनिर्भिन्नं महान् धिष्ण्यम् उपाविशत् । चित्तेनांशेन येनासौ विज्ञानं प्रतिपद्यते ॥ 26 ॥
श्लोक 3.6.27
शीर्ष्णो ऽस्य द्यौर् धरा पद्भ्यां खं नाभेर् उदपद्यत । गुणानां वृत्तयो येषु प्रतीयन्ते सुरादयः ॥ 27 ॥
श्लोक 3.6.28
आत्यन्तिकेन सत्त्वेन दिवं देवाः प्रपेदिरे । धरां रजःस्वभावेन पणयो ये च तान् अनु ॥ 28 ॥
श्लोक 3.6.29
तार्तीयेन स्वभावेन भगवन्नाभिम् आश्रिताः । उभयोर् अन्तरं व्योम ये रुद्रपार्षदां गणाः ॥ 29 ॥
श्लोक 3.6.30
मुखतो ऽवर्तत ब्रह्म पुरुषस्य कुरूद्वह । यस् तून्मुखत्वाद् वर्णानां मुख्यो ऽभूद् ब्राह्मणो गुरुः ॥ 30 ॥
श्लोक 3.6.31
बाहुभ्यो ऽवर्तत क्षत्रं क्षत्रियस् तद् अनुव्रतः । यो जातस् त्रायते वर्णान् पौरुषः कण्टकक्षतात् ॥ 31 ॥
श्लोक 3.6.32
विशो ऽवर्तन्त तस्योर्वोर् लोकवृत्तिकरीर् विभोः । वैश्यस् तद्उद्भवो वार्तां नृणां यः समवर्तयत् ॥ 32 ॥
श्लोक 3.6.33
पद्भ्यां भगवतो जज्ञे शुश्रूषा धर्मसिद्धये । तस्यां जातः पुरा शूद्रो यद्वृत्त्या तुष्यते हरिः ॥ 33 ॥
श्लोक 3.6.34
एते वर्णाः स्वधर्मेण यजन्ति स्वगुरुं हरिम् । श्रद्धयात्मविशुद्ध्य्अर्थं यज्जाताः सह वृत्तिभिः ॥ 34 ॥
श्लोक 3.6.35
एतत् क्षत्तर् भगवतो दैवकर्मात्मरूपिणः । कः श्रद्दध्याद् उपाकर्तुं योगमायाबलोदयम् ॥ 35 ॥
श्लोक 3.6.36
तथापि कीर्तयाम्य् अङ्ग यथामति यथाश्रुतम् । कीर्तिं हरेः स्वां सत्कर्तुं गिरम् अन्याभिधासतीम् ॥ 36 ॥
श्लोक 3.6.37
एकान्तलाभं वचसो नु पुंसां सुश्लोकमौलेर् गुणवादम् आहुः । श्रुतेश् च विद्वद्भिर् उपाकृतायां कथासुधायाम् उपसम्प्रयोगम् ॥ 37 ॥
श्लोक 3.6.38
आत्मनो ऽवसितो वत्स महिमा कविनादिना । संवत्सरसहस्रान्ते धिया योगविपक्कया ॥ 38 ॥
श्लोक 3.6.39
अतो भगवतो माया मायिनाम् अपि मोहिनी । यत् स्वयं चात्मवर्त्मात्मा न वेद किम् उतापरे ॥ 39 ॥
श्लोक 3.6.40
यतो ऽप्राप्य न्यवर्तन्त वाचश् च मनसा सह । अहं चान्य इमे देवास् तस्मै भगवते नमः ॥ 40 ॥