श्रीमद्भागवत तृतीय स्कन्ध अध्याय 7
श्रीमद्भागवत तृतीय स्कन्ध अध्याय 7 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 3.7.1
एवं ब्रुवाणं मैत्रेयं द्वैपायनसुतो बुधः । प्रीणयन्न् इव भारत्या विदुरः प्रत्यभाषत ॥ 1 ॥
श्लोक 3.7.2
ब्रह्मन् कथं भगवतश् चिन्मात्रस्याविकारिणः । लीलया चापि युज्येरन् निर्गुणस्य गुणाः क्रियाः ॥ 2 ॥
श्लोक 3.7.3
क्रीडायाम् उद्यमो ऽर्भस्य कामश् चिक्रीडिषान्यतः । स्वतस्तृप्तस्य च कथं निवृत्तस्य सदान्यतः ॥ 3 ॥
श्लोक 3.7.4
अस्राक्षीद् भगवान् विश्वं गुणमय्यात्ममायया । तया संस्थापयत्य् एतद् भूयः प्रत्यपिधास्यति ॥ 4 ॥
श्लोक 3.7.5
देशतः कालतो यो ऽसाव् अवस्थातः स्वतो ऽन्यतः । अविलुप्तावबोधात्मा स युज्येताजया कथम् ॥ 5 ॥
श्लोक 3.7.6
भगवान् एक एवैष सर्वक्षेत्रेष्व् अवस्थितः । अमुष्य दुर्भगत्वं वा क्लेशो वा कर्मभिः कुतः ॥ 6 ॥
श्लोक 3.7.7
एतस्मिन् मे मनो विद्वन् खिद्यते ऽज्ञानसङ्कटे । तन् नः पराणुद विभो कश्मलं मानसं महत् ॥ 7 ॥
श्लोक 3.7.8
स इत्थं चोदितः क्षत्त्रा तत्त्वजिज्ञासुना मुनिः । प्रत्याह भगवच्चित्तः स्मयन्न् इव गतस्मयः ॥ 8 ॥
श्लोक 3.7.9
सेयं भगवतो माया यन् नयेन विरुध्यते । ईश्वरस्य विमुक्तस्य कार्पण्यम् उत बन्धनम् ॥ 9 ॥
श्लोक 3.7.10
यद् अर्थेन विनामुष्य पुंस आत्मविपर्ययः । प्रतीयत उपद्रष्टुः स्वशिरश् छेदनादिकः ॥ 10 ॥
श्लोक 3.7.11
यथा जले चन्द्रमसः कम्पादिस् तत्कृतो गुणः । दृश्यते ऽसन्न् अपि द्रष्टुर् आत्मनो ऽनात्मनो गुणः ॥ 11 ॥
श्लोक 3.7.12
स वै निवृत्तिधर्मेण वासुदेवानुकम्पया । भगवद्भक्तियोगेन तिरोधत्ते शनैर् इह ॥ 12 ॥
श्लोक 3.7.13
यदेन्द्रियोपरामो ऽथ द्रष्ट्रात्मनि परे हरौ । विलीयन्ते तदा क्लेशाः संसुप्तस्येव कृत्स्नशः ॥ 13 ॥
श्लोक 3.7.14
अशेषसङ्क्लेशशमं विधत्ते गुणानुवादश्रवणं मुरारेः । किं वा पुनस् तच्चरणारविन्दपरागसेवारतिर् आत्मलब्धा ॥ 14 ॥
श्लोक 3.7.15
सञ्छिन्नः संशयो मह्यं तव सूक्तासिना विभो । उभयत्रापि भगवन् मनो मे सम्प्रधावति ॥ 15 ॥
श्लोक 3.7.16
साध्व् एतद् व्याहृतं विद्वन् नात्ममायायनं हरेः । आभात्य् अपार्थं निर्मूलं विश्वमूलं न यद् बहिः ॥ 16 ॥
श्लोक 3.7.17
यश् च मूढतमो लोके यश् च बुद्धेः परं गतः । ताव् उभौ सुखम् एधेते क्लिश्यत्य् अन्तरितो जनः ॥ 17 ॥
श्लोक 3.7.18
अर्थाभावं विनिश्चित्य प्रतीतस्यापि नात्मनः । तां चापि युष्मच्चरणसेवयाहं पराणुदे ॥ 18 ॥
श्लोक 3.7.19
यत्सेवया भगवतः कूटस्थस्य मधुद्विषः । रतिरासो भवेत् तीव्रः पादयोर् व्यसनार्दनः ॥ 19 ॥
श्लोक 3.7.20
दुरापा ह्य् अल्पतपसः सेवा वैकुण्ठवर्त्मसु । यत्रोपगीयते नित्यं देवदेवो जनार्दनः ॥ 20 ॥
श्लोक 3.7.21
सृष्ट्वाग्रे महद्आदीनि सविकाराण्य् अनुक्रमात् । तेभ्यो विराजम् उद्धृत्य तम् अनु प्राविशद् विभुः ॥ 21 ॥
श्लोक 3.7.22
यम् आहुर् आद्यं पुरुषं सहस्राङ्घ्र्य्ऊरुबाहुकम् । यत्र विश्व इमे लोकाः सविकाशं त आसते ॥ 22 ॥
श्लोक 3.7.23
यस्मिन् दशविधः प्राणः सेन्द्रियार्थेन्द्रियस् त्रिवृत् । त्वयेरितो यतो वर्णास् तद्विभूतीर् वदस्व नः ॥ 23 ॥
श्लोक 3.7.24
यत्र पुत्रैश् च पौत्रैश् च नप्तृभिः सह गोत्रजैः । प्रजा विचित्राकृतय आसन् याभिर् इदं ततम् ॥ 24 ॥
श्लोक 3.7.25
प्रजापतीनां स पतिश् चकॢपे कान् प्रजापतीन् । सर्गांश् चैवानुसर्गांश् च मनून् मन्वन्तराधिपान् ॥ 25 ॥
श्लोक 3.7.26
एतेषाम् अपि वेदांश् च वंशानुचरितानि च । उपर्य् अधश् च ये लोका भूमेर् मित्रात्मजासते ॥ 26 ॥
श्लोक 3.7.27
तेषां संस्थां प्रमाणं च भूर्लोकस्य च वर्णय । तिर्यङ्मानुषदेवानां सरीसृपपतत्त्रिणाम् । वद नः सर्गसंव्यूहं गार्भस्वेदद्विजोद्भिदाम् ॥ 27 ॥
श्लोक 3.7.28
गुणावतारैर् विश्वस्य सर्गस्थित्य्अप्ययाश्रयम् । सृजतः श्रीनिवासस्य व्याचक्ष्वोदारविक्रमम् ॥ 28 ॥
श्लोक 3.7.29
वर्णाश्रमविभागांश् च रूपशीलस्वभावतः । ऋषीणां जन्मकर्माणि वेदस्य च विकर्षणम् ॥ 29 ॥
श्लोक 3.7.30
यज्ञस्य च वितानानि योगस्य च पथः प्रभो । नैष्कर्म्यस्य च साङ्ख्यस्य तन्त्रं वा भगवत्स्मृतम् ॥ 30 ॥
श्लोक 3.7.31
पाषण्डपथवैषम्यं प्रतिलोमनिवेशनम् । जीवस्य गतयो याश् च यावतीर् गुणकर्मजाः ॥ 31 ॥
श्लोक 3.7.32
धर्मार्थकाममोक्षाणां निमित्तान्य् अविरोधतः । वार्ताया दण्डनीतेश् च श्रुतस्य च विधिं पृथक् ॥ 32 ॥
श्लोक 3.7.33
श्राद्धस्य च विधिं ब्रह्मन् पित्णां सर्गम् एव च । ग्रहनक्षत्रताराणां कालावयवसंस्थितिम् ॥ 33 ॥
श्लोक 3.7.34
दानस्य तपसो वापि यच् चेष्टापूर्तयोः फलम् । प्रवासस्थस्य यो धर्मो यश् च पुंस उतापदि ॥ 34 ॥
श्लोक 3.7.35
येन वा भगवांस् तुष्येद् धर्मयोनिर् जनार्दनः । सम्प्रसीदति वा येषाम् एतद् आख्याहि मे ऽनघ ॥ 35 ॥
श्लोक 3.7.36
अनुव्रतानां शिष्याणां पुत्राणां च द्विजोत्तम । अनापृष्टम् अपि ब्रूयुर् गुरवो दीनवत्सलाः ॥ 36 ॥
श्लोक 3.7.37
तत्त्वानां भगवंस् तेषां कतिधा प्रतिसङ्क्रमः । तत्रेमं क उपासीरन् क उ स्विद् अनुशेरते ॥ 37 ॥
श्लोक 3.7.38
पुरुषस्य च संस्थानं स्वरूपं वा परस्य च । ज्ञानं च नैगमं यत् तद् गुरुशिष्यप्रयोजनम् ॥ 38 ॥
श्लोक 3.7.39
निमित्तानि च तस्येह प्रोक्तान्य् अनघसूरिभिः । स्वतो ज्ञानं कुतः पुंसां भक्तिर् वैराग्यम् एव वा ॥ 39 ॥
श्लोक 3.7.40
एतान् मे पृच्छतः प्रश्नान् हरेः कर्मविवित्सया । ब्रूहि मे ऽज्ञस्य मित्रत्वाद् अजया नष्टचक्षुषः ॥ 40 ॥
श्लोक 3.7.41
सर्वे वेदाश् च यज्ञाश् च तपो दानानि चानघ । जीवाभयप्रदानस्य न कुर्वीरन् कलाम् अपि ॥ 41 ॥
श्लोक 3.7.42
स इत्थम् आपृष्टपुराणकल्पः कुरुप्रधानेन मुनिप्रधानः । प्रवृद्धहर्षो भगवत्कथायां सञ्चोदितस् तं प्रहसन्न् इवाह ॥ 42 ॥