मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत तृतीय स्कन्ध अध्याय 8

श्रीमद्भागवत तृतीय स्कन्ध अध्याय 8 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 3.8.1

सत्सेवनीयो बत पूरुवंशो यल् लोकपालो भगवत्प्रधानः । बभूविथेहाजितकीर्तिमालां पदे पदे नूतनयस्य् अभीक्ष्णम् ॥ 1 ॥

श्लोक 3.8.2

सो ऽहं नृणां क्षुल्लसुखाय दुःखं महद् गतानां विरमाय तस्य । प्रवर्तये भागवतं पुराणं यद् आह साक्षाद् भगवान् ऋषिभ्यः ॥ 2 ॥

श्लोक 3.8.3

आसीनम् उर्व्यां भगवन्तम् आद्यं सङ्कर्षणं देवम् अकुण्ठसत्त्वम् । विवित्सवस् तत्त्वम् अतः परस्य कुमारमुख्या मुनयो ऽन्वपृच्छन् ॥ 3 ॥

श्लोक 3.8.4

स्वम् एव धिष्ण्यं बहु मानयन्तं यद् वासुदेवाभिधम् आमनन्ति । प्रत्यग्धृताक्षाम्बुजकोशम् ईषद् उन्मीलयन्तं विबुधोदयाय ॥ 4 ॥

श्लोक 3.8.5

स्वर्धुन्य्उदार्द्रैः स्वजटाकलापैर् उपस्पृशन्तश् चरणोपधानम् । पद्मं यद् अर्चन्त्य् अहिराजकन्याः सप्रेम नानाबलिभिर् वरार्थाः ॥ 5 ॥

श्लोक 3.8.6

मुहुर् गृणन्तो वचसानुरागस्खलत्पदेनास्य कृतानि तज्ज्ञाः । किरीटसाहस्रमणिप्रवेकप्रद्योतितोद्दामफणासहस्रम् ॥ 6 ॥

श्लोक 3.8.7

प्रोक्तं किलैतद् भगवत्तमेन निवृत्तिधर्माभिरताय तेन । सनत्कुमाराय स चाह पृष्टः साङ्ख्यायनायाङ्ग धृतव्रताय ॥ 7 ॥

श्लोक 3.8.8

साङ्ख्यायनः पारमहंस्यमुख्यो विवक्षमाणो भगवद्विभूतीः । जगाद सो ऽस्मद्गुरवे ऽन्विताय पराशरायाथ बृहस्पतेश् च ॥ 8 ॥

श्लोक 3.8.9

प्रोवाच मह्यं स दयालुर् उक्तो मुनिः पुलस्त्येन पुराणम् आद्यम् । सो ऽहं तवैतत् कथयामि वत्स श्रद्धालवे नित्यम् अनुव्रताय ॥ 9 ॥

श्लोक 3.8.10

उदाप्लुतं विश्वम् इदं तदासीद् यन् निद्रयामीलितदृङ् न्यमीलयत् । अहीन्द्रतल्पे ऽधिशयान एकः कृतक्षणः स्वात्मरतौ निरीहः ॥ 10 ॥

श्लोक 3.8.11

सो ऽन्तः शरीरे ऽर्पितभूतसूक्ष्मः कालात्मिकां शक्तिम् उदीरयाणः । उवास तस्मिन् सलिले पदे स्वे यथानलो दारुणि रुद्धवीर्यः ॥ 11 ॥

श्लोक 3.8.12

चतुर्युगानां च सहस्रम् अप्सु स्वपन् स्वयोदीरितया स्वशक्त्या । कालाख्ययासादितकर्मतन्त्रो लोकान् अपीतान् ददृशे स्वदेहे ॥ 12 ॥

श्लोक 3.8.13

तस्यार्थसूक्ष्माभिनिविष्टदृष्टेर् अन्तर्गतो ऽर्थो रजसा तनीयान् । गुणेन कालानुगतेन विद्धः सूष्यंस् तदाभिद्यत नाभिदेशात् ॥ 13 ॥

श्लोक 3.8.14

स पद्मकोशः सहसोदतिष्ठत् कालेन कर्मप्रतिबोधनेन । स्वरोचिषा तत् सलिलं विशालं विद्योतयन्न् अर्क इवात्मयोनिः ॥ 14 ॥

श्लोक 3.8.15

तल् लोकपद्मं स उ एव विष्णुः प्रावीविशत् सर्वगुणावभासम् । तस्मिन् स्वयं वेदमयो विधाता स्वयम्भुवं यं स्म वदन्ति सो ऽभूत् ॥ 15 ॥

श्लोक 3.8.16

तस्यां स चाम्भोरुहकर्णिकायाम् अवस्थितो लोकम् अपश्यमानः । परिक्रमन् व्योम्नि विवृत्तनेत्रश् चत्वारि लेभे ऽनुदिशं मुखानि ॥ 16 ॥

श्लोक 3.8.17

तस्माद् युगान्तश्वसनावघूर्णजलोर्मिचक्रात् सलिलाद् विरूढम् । उपाश्रितः कञ्जम् उ लोकतत्त्वं नात्मानम् अद्धाविदद् आदिदेवः ॥ 17 ॥

श्लोक 3.8.18

क एष यो ऽसाव् अहम् अब्जपृष्ठ एतत् कुतो वाब्जम् अनन्यद् अप्सु । अस्ति ह्य् अधस्ताद् इह किञ्चनैतद् अधिष्ठितं यत्र सता नु भाव्यम् ॥ 18 ॥

श्लोक 3.8.19

स इत्थम् उद्वीक्ष्य तद्अब्जनालनाडीभिर् अन्तर्जलम् आविवेश । नार्वाग्गतस् तत्खरनालनालनाभिं विचिन्वंस् तद् अविन्दताजः ॥ 19 ॥

श्लोक 3.8.20

तमस्य् अपारे विदुरात्मसर्गं विचिन्वतो ऽभूत् सुमहांस् त्रिणेमिः । यो देहभाजां भयम् ईरयाणः परिक्षिणोत्य् आयुर् अजस्य हेतिः ॥ 20 ॥

श्लोक 3.8.21

ततो निवृत्तो ऽप्रतिलब्धकामः स्वधिष्ण्यम् आसाद्य पुनः स देवः । शनैर् जितश्वासनिवृत्तचित्तो न्यषीदद् आरूढसमाधियोगः ॥ 21 ॥

श्लोक 3.8.22

कालेन सो ऽजः पुरुषायुषाभिप्रवृत्तयोगेन विरूढबोधः । स्वयं तद् अन्तर्हृदये ऽवभातम् अपश्यतापश्यत यन् न पूर्वम् ॥ 22 ॥

श्लोक 3.8.23

मृणालगौरायतशेषभोगपर्यङ्क एकं पुरुषं शयानम् । फणातपत्रायुतमूर्धरत्नद्युभिर् हतध्वान्तयुगान्ततोये ॥ 23 ॥

श्लोक 3.8.24

प्रेक्षां क्षिपन्तं हरितोपलाद्रेः सन्ध्याभ्रनीवेर् उरुरुक्ममूर्ध्नः । रत्नोदधारौषधिसौमनस्य वनस्रजो वेणुभुजाङ्घ्रिपाङ्घ्रेः ॥ 24 ॥

श्लोक 3.8.25

आयामतो विस्तरतः स्वमानदेहेन लोकत्रयसङ्ग्रहेण । विचित्रदिव्याभरणांशुकानां कृतश्रियापाश्रितवेषदेहम् ॥ 25 ॥

श्लोक 3.8.26

पुंसां स्वकामाय विविक्तमार्गैर् अभ्यर्चतां कामदुघाङ्घ्रिपद्मम् । प्रदर्शयन्तं कृपया नखेन्दुमयूखभिन्नाङ्गुलिचारुपत्रम् ॥ 26 ॥

श्लोक 3.8.27

मुखेन लोकार्तिहरस्मितेन परिस्फुरत्कुण्डलमण्डितेन । शोणायितेनाधरबिम्बभासा प्रत्यर्हयन्तं सुनसेन सुभ्र्वा ॥ 27 ॥

श्लोक 3.8.28

कदम्बकिञ्जल्कपिशङ्गवाससा स्वलङ्कृतं मेखलया नितम्बे । हारेण चानन्तधनेन वत्स श्रीवत्सवक्षःस्थलवल्लभेन ॥ 28 ॥

श्लोक 3.8.29

परार्ध्यकेयूरमणिप्रवेकपर्यस्तदोर्दण्डसहस्रशाखम् । अव्यक्तमूलं भुवनाङ्घ्रिपेन्द्रम् अहीन्द्रभोगैर् अधिवीतवल्शम् ॥ 29 ॥

श्लोक 3.8.30

चराचरौको भगवन्महीध्रम् अहीन्द्रबन्धुं सलिलोपगूढम् । किरीटसाहस्रहिरण्यशृङ्गम् आविर्भवत् कौस्तुभरत्नगर्भम् ॥ 30 ॥

श्लोक 3.8.31

निवीतम् आम्नायमधुव्रतश्रिया स्वकीर्तिमय्या वनमालया हरिम् । सूर्येन्दुवाय्व्अग्न्य्अगमं त्रिधामभिः परिक्रमत्प्राधनिकैर् दुरासदम् ॥ 31 ॥

श्लोक 3.8.32

तर्ह्य् एव तन्नाभिसरःसरोजम् आत्मानम् अम्भः श्वसनं वियच् च । ददर्श देवो जगतो विधाता नातः परं लोकविसर्गदृष्टिः ॥ 32 ॥

श्लोक 3.8.33

स कर्मबीजं रजसोपरक्तः प्रजाः सिसृक्षन्न् इयद् एव दृष्ट्वा । अस्तौद् विसर्गाभिमुखस् तम् ईड्यम् अव्यक्तवर्त्मन्य् अभिवेशितात्मा ॥ 33 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ