मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत तृतीय स्कन्ध अध्याय 9

श्रीमद्भागवत तृतीय स्कन्ध अध्याय 9 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 3.9.1

ज्ञातो ऽसि मे ऽद्य सुचिरान् ननु देहभाजां न ज्ञायते भगवतो गतिर् इत्य् अवद्यम् । नान्यत् त्वद् अस्ति भगवन्न् अपि तन् न शुद्धं मायागुणव्यतिकराद् यद् उरुर् विभासि ॥ 1 ॥

श्लोक 3.9.2

रूपं यद् एतद् अवबोधरसोदयेन शश्वन्निवृत्ततमसः सद्अनुग्रहाय । आदौ गृहीतम् अवतारशतैकबीजं यन्नाभिपद्मभवनाद् अहम् आविरासम् ॥ 2 ॥

श्लोक 3.9.3

नातः परं परम यद् भवतः स्वरूपम् आनन्दमात्रम् अविकल्पम् अविद्धवर्चः । पश्यामि विश्वसृजम् एकम् अविश्वम् आत्मन् भूतेन्द्रियात्मकमदस् त उपाश्रितो ऽस्मि ॥ 3 ॥

श्लोक 3.9.4

तद् वा इदं भुवनमङ्गल मङ्गलाय ध्याने स्म नो दर्शितं त उपासकानाम् । तस्मै नमो भगवते ऽनुविधेम तुभ्यं यो ऽनादृतो नरकभाग्भिर् असत्प्रसङ्गैः ॥ 4 ॥

श्लोक 3.9.5

ये तु त्वदीयचरणाम्बुजकोशगन्धं जिघ्रन्ति कर्णविवरैः श्रुतिवातनीतम् । भक्त्या गृहीतचरणः परया च तेषां नापैषि नाथ हृदयाम्बुरुहात् स्वपुंसाम् ॥ 5 ॥

श्लोक 3.9.6

तावद् भयं द्रविणदेहसुहृन्निमित्तं शोकः स्पृहा परिभवो विपुलश् च लोभः । तावन् ममेत्य् असद्अवग्रह आर्तिमूलं यावन् न ते ऽङ्घ्रिम् अभयं प्रवृणीत लोकः ॥ 6 ॥

श्लोक 3.9.7

दैवेन ते हतधियो भवतः प्रसङ्गात् सर्वाशुभोपशमनाद् विमुखेन्द्रिया ये । कुर्वन्ति कामसुखलेशलवाय दीना लोभाभिभूतमनसो ऽकुशलानि शश्वत् ॥ 7 ॥

श्लोक 3.9.8

क्षुत्तृट्त्रिधातुभिर् इमा मुहुर् अर्द्यमानाः शीतोष्णवातवरषैर् इतरेतराच् च । कामाग्निनाच्युतरुषा च सुदुर्भरेण सम्पश्यतो मन उरुक्रम सीदते मे ॥ 8 ॥

श्लोक 3.9.9

यावत् पृथक्त्वम् इदम् आत्मन इन्द्रियार्थमायाबलं भगवतो जन ईश पश्येत् । तावन् न संसृतिर् असौ प्रतिसङ्क्रमेत व्यर्थापि दुःखनिवहं वहती क्रियार्था ॥ 9 ॥

श्लोक 3.9.10

अह्न्य् आपृतार्तकरणा निशि निःशयाना नानामनोरथधिया क्षणभग्ननिद्राः । दैवाहतार्थरचना ऋषयो ऽपि देव युष्मत्प्रसङ्गविमुखा इह संसरन्ति ॥ 10 ॥

श्लोक 3.9.11

त्वं भक्तियोगपरिभावितहृत्सरोज आस्से श्रुतेक्षितपथो ननु नाथ पुंसाम् । यद्यद्धिया त उरुगाय विभावयन्ति तत्तद्वपुः प्रणयसे सद्अनुग्रहाय ॥ 11 ॥

श्लोक 3.9.12

नातिप्रसीदति तथोपचितोपचारैर् आराधितः सुरगणैर् हृदि बद्धकामैः । यत् सर्वभूतदययासद्अलभ्ययैको नानाजनेष्व् अवहितः सुहृद् अन्तर्आत्मा ॥ 12 ॥

श्लोक 3.9.13

पुंसाम् अतो विविधकर्मभिर् अध्वराद्यैर् दानेन चोग्रतपसा परिचर्यया च । आराधनं भगवतस् तव सत्क्रियार्थो धर्मो ऽर्पितः कर्हिचिद् म्रियते न यत्र ॥ 13 ॥

श्लोक 3.9.14

शश्वत् स्वरूपमहसैव निपीतभेदमोहाय बोधधिषणाय नमः परस्मै । विश्वोद्भवस्थितिलयेषु निमित्तलीलारासाय ते नम इदं चकृमेश्वराय ॥ 14 ॥

श्लोक 3.9.15

यस्यावतारगुणकर्मविडम्बनानि नामानि ये ऽसुविगमे विवशा गृणन्ति । ते ऽनैकजन्मशमलं सहसैव हित्वा संयान्त्य् अपावृतामृतं तम् अजं प्रपद्ये ॥ 15 ॥

श्लोक 3.9.16

यो वा अहं च गिरिशश् च विभुः स्वयं च स्थित्य्उद्भवप्रलयहेतव आत्ममूलम् । भित्त्वा त्रिपाद् ववृध एक उरुप्ररोहस् तस्मै नमो भगवते भुवनद्रुमाय ॥ 16 ॥

श्लोक 3.9.17

लोको विकर्मनिरतः कुशले प्रमत्तः कर्मण्य् अयं त्वद्उदिते भवद्अर्चने स्वे । यस् तावद् अस्य बलवान् इह जीविताशां सद्यश् छिनत्त्य् अनिमिषाय नमो ऽस्तु तस्मै ॥ 17 ॥

श्लोक 3.9.18

यस्माद् बिभेम्य् अहम् अपि द्विपरार्धधिष्ण्यम् अध्यासितः सकललोकनमस्कृतं यत् । तेपे तपो बहुसवो ऽवरुरुत्समानस् तस्मै नमो भगवते ऽधिमखाय तुभ्यम् ॥ 18 ॥

श्लोक 3.9.19

तिर्यङ्मनुष्यविबुधादिषु जीवयोनिष्व् आत्मेच्छयात्मकृतसेतुपरीप्सया यः । रेमे निरस्तविषयो ऽप्य् अवरुद्धदेहस् तस्मै नमो भगवते पुरुषोत्तमाय ॥ 19 ॥

श्लोक 3.9.20

यो ऽविद्ययानुपहतो ऽपि दशार्धवृत्त्या निद्राम् उवाह जठरीकृतलोकयात्रः । अन्तर्जले ऽहिकशिपुस्पर्शानुकूलां भीमोर्मिमालिनि जनस्य सुखं विवृण्वन् ॥ 20 ॥

श्लोक 3.9.21

यन्नाभिपद्मभवनाद् अहम् आसम् ईड्य लोकत्रयोपकरणो यद्अनुग्रहेण । तस्मै नमस् त उदरस्थभवाय योगनिद्रावसानविकसन्नलिनेक्षणाय ॥ 21 ॥

श्लोक 3.9.22

सो ऽयं समस्तजगतां सुहृद् एक आत्मा सत्त्वेन यन् मृडयते भगवान् भगेन । तेनैव मे दृशम् अनुस्पृशताद् यथाहं स्रक्ष्यामि पूर्ववद् इदं प्रणतप्रियो ऽसौ ॥ 22 ॥

श्लोक 3.9.23

एष प्रपन्नवरदो रमयात्मशक्त्या यद् यत् करिष्यति गृहीतगुणावतारः । तस्मिन् स्वविक्रमम् इदं सृजतो ऽपि चेतो युञ्जीत कर्मशमलं च यथा विजह्याम् ॥ 23 ॥

श्लोक 3.9.24

नाभिह्रदाद् इह सतो ऽम्भसि यस्य पुंसो विज्ञानशक्तिर् अहम् आसम् अनन्तशक्तेः । रूपं विचित्रम् इदम् अस्य विवृण्वतो मे मा रीरिषीष्ट निगमस्य गिरां विसर्गः ॥ 24 ॥

श्लोक 3.9.25

सो ऽसाव् अदभ्रकरुणो भगवान् विवृद्धप्रेमस्मितेन नयनाम्बुरुहं विजृम्भन् । उत्थाय विश्वविजयाय च नो विषादं माध्व्या गिरापनयतात् पुरुषः पुराणः ॥ 25 ॥

श्लोक 3.9.26

स्वसम्भवं निशाम्यैवं तपोविद्यासमाधिभिः । यावन् मनोवचः स्तुत्वा विरराम स खिन्नवत् ॥ 26 ॥

श्लोक 3.9.27

अथाभिप्रेतम् अन्वीक्ष्य ब्रह्मणो मधुसूदनः । विषण्णचेतसं तेन कल्पव्यतिकराम्भसा ॥ 27 ॥

श्लोक 3.9.28

लोकसंस्थानविज्ञान आत्मनः परिखिद्यतः । तम् आहागाधया वाचा कश्मलं शमयन्न् इव ॥ 28 ॥

श्लोक 3.9.29

मा वेदगर्भ गास् तन्द्रीं सर्ग उद्यमम् आवह । तन् मयापादितं ह्य् अग्रे यन् मां प्रार्थयते भवान् ॥ 29 ॥

श्लोक 3.9.30

भूयस् त्वं तप आतिष्ठ विद्यां चैव मद्आश्रयाम् । ताभ्याम् अन्तर्हृदि ब्रह्मन् लोकान् द्रक्ष्यस्य् अपावृतान् ॥ 30 ॥

श्लोक 3.9.31

तत आत्मनि लोके च भक्तियुक्तः समाहितः । द्रष्टासि मां ततं ब्रह्मन् मयि लोकांस् त्वम् आत्मनः ॥ 31 ॥

श्लोक 3.9.32

यदा तु सर्वभूतेषु दारुष्व् अग्निम् इव स्थितम् । प्रतिचक्षीत मां लोको जह्यात् तर्ह्य् एव कश्मलम् ॥ 32 ॥

श्लोक 3.9.33

यदा रहितम् आत्मानं भूतेन्द्रियगुणाशयैः । स्वरूपेण मयोपेतं पश्यन् स्वाराज्यम् ऋच्छति ॥ 33 ॥

श्लोक 3.9.34

नानाकर्मवितानेन प्रजा बह्वीः सिसृक्षतः । नात्मावसीदत्य् अस्मिंस् ते वर्षीयान् मद्अनुग्रहः ॥ 34 ॥

श्लोक 3.9.35

ऋषिम् आद्यं न बध्नाति पापीयांस् त्वां रजोगुणः । यन् मनो मयि निर्बद्धं प्रजाः संसृजतो ऽपि ते ॥ 35 ॥

श्लोक 3.9.36

ज्ञातो ऽहं भवता त्व् अद्य दुर्विज्ञेयो ऽपि देहिनाम् । यन् मां त्वं मन्यसे ऽयुक्तं भूतेन्द्रियगुणात्मभिः ॥ 36 ॥

श्लोक 3.9.37

तुभ्यं मद्विचिकित्सायाम् आत्मा मे दर्शितो ऽबहिः । नालेन सलिले मूलं पुष्करस्य विचिन्वतः ॥ 37 ॥

श्लोक 3.9.38

यच् चकर्थाङ्ग मत्स्तोत्रं मत्कथाभ्युदयाङ्कितम् । यद् वा तपसि ते निष्ठा स एष मद्अनुग्रहः ॥ 38 ॥

श्लोक 3.9.39

प्रीतो ऽहम् अस्तु भद्रं ते लोकानां विजयेच्छया । यद् अस्तौषीर् गुणमयं निर्गुणं मानुवर्णयन् ॥ 39 ॥

श्लोक 3.9.40

य एतेन पुमान् नित्यं स्तुत्वा स्तोत्रेण मां भजेत् । तस्याशु सम्प्रसीदेयं सर्वकामवरेश्वरः ॥ 40 ॥

श्लोक 3.9.41

पूर्तेन तपसा यज्ञैर् दानैर् योगसमाधिना । राद्धं निःश्रेयसं पुंसां मत्प्रीतिस् तत्त्वविन्मतम् ॥ 41 ॥

श्लोक 3.9.42

अहम् आत्मात्मनां धातः प्रेष्ठः सन् प्रेयसाम् अपि । अतो मयि रतिं कुर्याद् देहादिर् यत्कृते प्रियः ॥ 42 ॥

श्लोक 3.9.43

सर्ववेदमयेनेदम् आत्मनात्मात्मयोनिना । प्रजाः सृज यथापूर्वं याश् च मय्य् अनुशेरते ॥ 43 ॥

श्लोक 3.9.44

तस्मा एवं जगत्स्रष्ट्रे प्रधानपुरुषेश्वरः । व्यज्येदं स्वेन रूपेण कञ्जनाभस् तिरोदधे ॥ 44 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ