श्रीमद्भागवत चतुर्थ स्कन्ध अध्याय 10
श्रीमद्भागवत चतुर्थ स्कन्ध अध्याय 10 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 4.10.1
प्रजापतेर् दुहितरं शिशुमारस्य वै ध्रुवः । उपयेमे भ्रमिं नाम तत्सुतौ कल्पवत्सरौ ॥ 1 ॥
श्लोक 4.10.2
इलायाम् अपि भार्यायां वायोः पुत्र्यां महाबलः । पुत्रम् उत्कलनामानं योषिद्रत्नम् अजीजनत् ॥ 2 ॥
श्लोक 4.10.3
उत्तमस् त्व् अकृतोद्वाहो मृगयायां बलीयसा । हतः पुण्यजनेनाद्रौ तन्मातास्य गतिं गता ॥ 3 ॥
श्लोक 4.10.4
ध्रुवो भ्रातृवधं श्रुत्वा कोपामर्षशुचार्पितः । जैत्रं स्यन्दनम् आस्थाय गतः पुण्यजनालयम् ॥ 4 ॥
श्लोक 4.10.5
गत्वोदीचीं दिशं राजा रुद्रानुचरसेविताम् । ददर्श हिमवद्द्रोण्यां पुरीं गुह्यकसङ्कुलाम् ॥ 5 ॥
श्लोक 4.10.6
दध्मौ शङ्खं बृहद्बाहुः खं दिशश् चानुनादयन् । येनोद्विग्नदृशः क्षत्तर् उपदेव्यो ऽत्रसन् भृशम् ॥ 6 ॥
श्लोक 4.10.7
ततो निष्क्रम्य बलिन उपदेवमहाभटाः । असहन्तस् तन्निनादम् अभिपेतुर् उदायुधाः ॥ 7 ॥
श्लोक 4.10.8
स तान् आपततो वीर उग्रधन्वा महारथः । एकैकं युगपत् सर्वान् अहन् बाणैस् त्रिभिस् त्रिभिः ॥ 8 ॥
श्लोक 4.10.9
ते वै ललाटलग्नैस् तैर् इषुभिः सर्व एव हि । मत्वा निरस्तम् आत्मानम् आशंसन् कर्म तस्य तत् ॥ 9 ॥
श्लोक 4.10.10
ते ऽपि चामुम् अमृष्यन्तः पादस्पर्शम् इवोरगाः । शरैर् अविध्यन् युगपद् द्विगुणं प्रचिकीर्षवः ॥ 10 ॥
श्लोक 4.10.11
ततः परिघनिस्त्रिंशैः प्रासशूलपरश्वधैः । शक्त्य्ऋष्टिभिर् भुशुण्डीभिश् चित्रवाजैः शरैर् अपि ॥ 11 ॥
श्लोक 4.10.12
अभ्यवर्षन् प्रकुपिताः सरथं सहसारथिम् । इच्छन्तस् तत् प्रतीकर्तुम् अयुतानां त्रयोदश ॥ 12 ॥
श्लोक 4.10.13
औत्तानपादिः स तदा शस्त्रवर्षेण भूरिणा । न एवादृश्यताच्छन्न आसारेण यथा गिरिः ॥ 13 ॥
श्लोक 4.10.14
हाहाकारस् तदैवासीत् सिद्धानां दिवि पश्यताम् । हतो ऽयं मानवः सूर्यो मग्नः पुण्यजनार्णवे ॥ 14 ॥
श्लोक 4.10.15
नदत्सु यातुधानेषु जयकाशिष्व् अथो मृधे । उदतिष्ठद् रथस् तस्य नीहाराद् इव भास्करः ॥ 15 ॥
श्लोक 4.10.16
धनुर् विस्फूर्जयन् दिव्यं द्विषतां खेदम् उद्वहन् । अस्त्रौघं व्यधमद् बाणैर् घनानीकम् इवानिलः ॥ 16 ॥
श्लोक 4.10.17
तस्य ते चापनिर्मुक्ता भित्त्वा वर्माणि रक्षसाम् । कायान् आविविशुस् तिग्मा गिरीन् अशनयो यथा ॥ 17 ॥
श्लोक 4.10.18
भल्लैः सञ्छिद्यमानानां शिरोभिश् चारुकुण्डलैः । ऊरुभिर् हेमतालाभैर् दोर्भिर् वलयवल्गुभिः ॥ 18 ॥
श्लोक 4.10.19
हारकेयूरमुकुटैर् उष्णीषैश् च महाधनैः । आस्तृतास् ता रणभुवो रेजुर् वीरमनोहराः ॥ 19 ॥
श्लोक 4.10.20
हतावशिष्टा इतरे रणाजिराद् रक्षोगणाः क्षत्रियवर्यसायकैः । प्रायो विवृक्णावयवा विदुद्रुवुर् मृगेन्द्रविक्रीडितयूथपा इव ॥ 20 ॥
श्लोक 4.10.21
अपश्यमानः स तदाततायिनं महामृधे कञ्चन मानवोत्तमः । पुरीं दिदृक्षन्न् अपि नाविशद् द्विषां न मायिनां वेद चिकीर्षितं जनः ॥ 21 ॥
श्लोक 4.10.22
इति ब्रुवंश् चित्ररथः स्वसारथिं यत्तः परेषां प्रतियोगशङ्कितः । शुश्राव शब्दं जलधेर् इवेरितं नभस्वतो दिक्षु रजो ऽन्वदृश्यत ॥ 22 ॥
श्लोक 4.10.23
क्षणेनाच्छादितं व्योम घनानीकेन सर्वतः । विस्फुरत्तडिता दिक्षु त्रासयत्स्तनयित्नुना ॥ 23 ॥
श्लोक 4.10.24
ववृषू रुधिरौघासृक्पूयविण्मूत्रमेदसः । निपेतुर् गगनाद् अस्य कबन्धान्य् अग्रतो ऽनघ ॥ 24 ॥
श्लोक 4.10.25
ततः खे ऽदृश्यत गिरिर् निपेतुः सर्वतोदिशम् । गदापरिघनिस्त्रिंशमुसलाः साश्मवर्षिणः ॥ 25 ॥
श्लोक 4.10.26
अहयो ऽशनिनिःश्वासा वमन्तो ऽग्निं रुषाक्षिभिः । अभ्यधावन् गजा मत्ताः सिंहव्याघ्राश् च यूथशः ॥ 26 ॥
श्लोक 4.10.27
समुद्र ऊर्मिभिर् भीमः प्लावयन् सर्वतो भुवम् । आससाद महाह्रादः कल्पान्त इव भीषणः ॥ 27 ॥
श्लोक 4.10.28
एवंविधान्य् अनेकानि त्रासनान्य् अमनस्विनाम् । ससृजुस् तिग्मगतय आसुर्या माययासुराः ॥ 28 ॥
श्लोक 4.10.29
ध्रुवे प्रयुक्ताम् असुरैस् तां मायाम् अतिदुस्तराम् । निशम्य तस्य मुनयः शम् आशंसन् समागताः ॥ 29 ॥
श्लोक 4.10.30
औत्तानपाद भगवांस् तव शार्ङ्गधन्वा देवः क्षिणोत्व् अवनतार्तिहरो विपक्षान् । यन्नामधेयम् अभिधाय निशम्य चाद्धा लोको ऽञ्जसा तरति दुस्तरम् अङ्ग मृत्युम् ॥ 30 ॥