श्रीमद्भागवत चतुर्थ स्कन्ध अध्याय 11
श्रीमद्भागवत चतुर्थ स्कन्ध अध्याय 11 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 4.11.1
निशम्य गदताम् एवम् ऋषीणां धनुषि ध्रुवः । सन्दधे ऽस्त्रम् उपस्पृश्य यन् नारायणनिर्मितम् ॥ 1 ॥
श्लोक 4.11.2
सन्धीयमान एतस्मिन् माया गुह्यकनिर्मिताः । क्षिप्रं विनेशुर् विदुर क्लेशा ज्ञानोदये यथा ॥ 2 ॥
श्लोक 4.11.3
तस्यार्षास्त्रं धनुषि प्रयुञ्जतः सुवर्णपुङ्खाः कलहंसवाससः । विनिःसृता आविविशुर् द्विषद्बलं यथा वनं भीमरवाः शिखण्डिनः ॥ 3 ॥
श्लोक 4.11.4
तैस् तिग्मधारैः प्रधने शिलीमुखैर् इतस् ततः पुण्यजना उपद्रुताः । तम् अभ्यधावन् कुपिता उदायुधाः सुपर्णम् उन्नद्धफणा इवाहयः ॥ 4 ॥
श्लोक 4.11.5
स तान् पृषत्कैर् अभिधावतो मृधे निकृत्तबाहूरुशिरोधरोदरान् । निनाय लोकं परम् अर्कमण्डलं व्रजन्ति निर्भिद्य यम् ऊर्ध्वरेतसः ॥ 5 ॥
श्लोक 4.11.6
तान् हन्यमानान् अभिवीक्ष्य गुह्यकान् अनागसश् चित्ररथेन भूरिशः । औत्तानपादिं कृपया पितामहो मनुर् जगादोपगतः सहर्षिभिः ॥ 6 ॥
श्लोक 4.11.7
अलं वत्सातिरोषेण तमोद्वारेण पाप्मना । येन पुण्यजनान् एतान् अवधीस् त्वम् अनागसः ॥ 7 ॥
श्लोक 4.11.8
नास्मत्कुलोचितं तात कर्मैतत् सद्विगर्हितम् । वधो यद् उपदेवानाम् आरब्धस् ते ऽकृतैनसाम् ॥ 8 ॥
श्लोक 4.11.9
नन्व् एकस्यापराधेन प्रसङ्गाद् बहवो हताः । भ्रातुर् वधाभितप्तेन त्वयाङ्ग भ्रातृवत्सल ॥ 9 ॥
श्लोक 4.11.10
नायं मार्गो हि साधूनां हृषीकेशानुवर्तिनाम् । यद् आत्मानं पराग् गृह्य पशुवद् भूतवैशसम् ॥ 10 ॥
श्लोक 4.11.11
सर्वभूतात्मभावेन भूतावासं हरिं भवान् । आराध्याप दुराराध्यं विष्णोस् तत् परमं पदम् ॥ 11 ॥
श्लोक 4.11.12
स त्वं हरेर् अनुध्यातस् तत्पुंसाम् अपि सम्मतः । कथं त्व् अवद्यं कृतवान् अनुशिक्षन् सतां व्रतम् ॥ 12 ॥
श्लोक 4.11.13
तितिक्षया करुणया मैत्र्या चाखिलजन्तुषु । समत्वेन च सर्वात्मा भगवान् सम्प्रसीदति ॥ 13 ॥
श्लोक 4.11.14
सम्प्रसन्ने भगवति पुरुषः प्राकृतैर् गुणैः । विमुक्तो जीवनिर्मुक्तो ब्रह्म निर्वाणम् ऋच्छति ॥ 14 ॥
श्लोक 4.11.15
भूतैः पञ्चभिर् आरब्धैर् योषित् पुरुष एव हि । तयोर् व्यवायात् सम्भूतिर् योषित्पुरुषयोर् इह ॥ 15 ॥
श्लोक 4.11.16
एवं प्रवर्तते सर्गः स्थितिः संयम एव च । गुणव्यतिकराद् राजन् मायया परमात्मनः ॥ 16 ॥
श्लोक 4.11.17
निमित्तमात्रं तत्रासीन् निर्गुणः पुरुषर्षभः । व्यक्ताव्यक्तम् इदं विश्वं यत्र भ्रमति लोहवत् ॥ 17 ॥
श्लोक 4.11.18
स खल्व् इदं भगवान् कालशक्त्या गुणप्रवाहेण विभक्तवीर्यः । करोत्य् अकर्तैव निहन्त्य् अहन्ता चेष्टा विभूम्नः खलु दुर्विभाव्या ॥ 18 ॥
श्लोक 4.11.19
सो ऽनन्तो ऽन्तकरः कालो ऽनादिर् आदिकृद् अव्ययः । जनं जनेन जनयन् मारयन् मृत्युनान्तकम् ॥ 19 ॥
श्लोक 4.11.20
न वै स्वपक्षो ऽस्य विपक्ष एव वा परस्य मृत्योर् विशतः समं प्रजाः । तं धावमानम् अनुधावन्त्य् अनीशा यथा रजांस्य् अनिलं भूतसङ्घाः ॥ 20 ॥
श्लोक 4.11.21
आयुषो ऽपचयं जन्तोस् तथैवोपचयं विभुः । उभाभ्यां रहितः स्वस्थो दुःस्थस्य विदधात्य् असौ ॥ 21 ॥
श्लोक 4.11.22
केचित् कर्म वदन्त्य् एनं स्वभावम् अपरे नृप । एके कालं परे दैवं पुंसः कामम् उतापरे ॥ 22 ॥
श्लोक 4.11.23
अव्यक्तस्याप्रमेयस्य नानाशक्त्य्उदयस्य च । न वै चिकीर्षितं तात को वेदाथ स्वसम्भवम् ॥ 23 ॥
श्लोक 4.11.24
न चैते पुत्रक भ्रातुर् हन्तारो धनदानुगाः । विसर्गादानयोस् तात पुंसो दैवं हि कारणम् ॥ 24 ॥
श्लोक 4.11.25
स एव विश्वं सृजति स एवावति हन्ति च । अथापि ह्य् अनहङ्कारान् नाज्यते गुणकर्मभिः ॥ 25 ॥
श्लोक 4.11.26
एष भूतानि भूतात्मा भूतेशो भूतभावनः । स्वशक्त्या मायया युक्तः सृजत्य् अत्ति च पाति च ॥ 26 ॥
श्लोक 4.11.27
तम् एव मृत्युम् अमृतं तात दैवं सर्वात्मनोपेहि जगत्परायणम् । यस्मै बलिं विश्वसृजो हरन्ति गावो यथा वै नसि दामयन्त्रिताः ॥ 27 ॥
श्लोक 4.11.28
यः पञ्चवर्षो जननीं त्वं विहाय मातुः सपत्न्या वचसा भिन्नमर्मा । वनं गतस् तपसा प्रत्यग्अक्षम् आराध्य लेभे मूर्ध्नि पदं त्रिलोक्याः ॥ 28 ॥
श्लोक 4.11.29
तम् एनम् अङ्गात्मनि मुक्तविग्रहे व्यपाश्रितं निर्गुणम् एकम् अक्षरम् । आत्मानम् अन्विच्छ विमुक्तम् आत्मदृग् यस्मिन्न् इदं भेदम् असत् प्रतीयते ॥ 29 ॥
श्लोक 4.11.30
त्वं प्रत्यग्आत्मनि तदा भगवत्य् अनन्त आनन्दमात्र उपपन्नसमस्तशक्तौ । भक्तिं विधाय परमां शनकैर् अविद्याग्रन्थिं विभेत्स्यसि ममाहम् इति प्ररूढम् ॥ 30 ॥
श्लोक 4.11.31
संयच्छ रोषं भद्रं ते प्रतीपं श्रेयसां परम् । श्रुतेन भूयसा राजन्न् अगदेन यथामयम् ॥ 31 ॥
श्लोक 4.11.32
येनोपसृष्टात् पुरुषाल् लोक उद्विजते भृशम् । न बुधस् तद्वशं गच्छेद् इच्छन्न् अभयम् आत्मनः ॥ 32 ॥
श्लोक 4.11.33
हेलनं गिरिशभ्रातुर् धनदस्य त्वया कृतम् । यज् जघ्निवान् पुण्यजनान् भ्रातृघ्नान् इत्य् अमर्षितः ॥ 33 ॥
श्लोक 4.11.34
तं प्रसादय वत्साशु सन्नत्या प्रश्रयोक्तिभिः । न यावन् महतां तेजः कुलं नो ऽभिभविष्यति ॥ 34 ॥
श्लोक 4.11.35
एवं स्वायम्भुवः पौत्रम् अनुशास्य मनुर् ध्रुवम् । तेनाभिवन्दितः साकम् ऋषिभिः स्वपुरं ययौ ॥ 35 ॥