श्रीमद्भागवत चतुर्थ स्कन्ध अध्याय 9
श्रीमद्भागवत चतुर्थ स्कन्ध अध्याय 9 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 4.9.1
त एवम् उत्सन्नभया उरुक्रमे कृतावनामाः प्रययुस् त्रिविष्टपम् । सहस्रशीर्षापि ततो गरुत्मता मधोर् वनं भृत्यदिदृक्षया गतः ॥ 1 ॥
श्लोक 4.9.2
स वै धिया योगविपाकतीव्रया हृत्पद्मकोशे स्फुरितं तडित्प्रभम् । तिरोहितं सहसैवोपलक्ष्य बहिःस्थितं तद्अवस्थं ददर्श ॥ 2 ॥
श्लोक 4.9.3
तद्दर्शनेनागतसाध्वसः क्षिताव् अवन्दताङ्गं विनमय्य दण्डवत् । दृग्भ्यां प्रपश्यन् प्रपिबन्न् इवार्भकश् चुम्बन्न् इवास्येन भुजैर् इवाश्लिषन् ॥ 3 ॥
श्लोक 4.9.4
स तं विवक्षन्तम् अतद्विदं हरिर् ज्ञात्वास्य सर्वस्य च हृद्य् अवस्थितः । कृताञ्जलिं ब्रह्ममयेन कम्बुना पस्पर्श बालं कृपया कपोले ॥ 4 ॥
श्लोक 4.9.5
स वै तदैव प्रतिपादितां गिरं दैवीं परिज्ञातपरात्मनिर्णयः । तं भक्तिभावो ऽभ्यगृणाद् असत्वरं परिश्रुतोरुश्रवसं ध्रुवक्षितिः ॥ 5 ॥
श्लोक 4.9.6
यो ऽन्तः प्रविश्य मम वाचम् इमां प्रसुप्तां सञ्जीवयत्य् अखिलशक्तिधरः स्वधाम्ना । अन्यांश् च हस्तचरणश्रवणत्वग्आदीन् प्राणान् नमो भगवते पुरुषाय तुभ्यम् ॥ 6 ॥
श्लोक 4.9.7
एकस् त्वम् एव भगवन्न् इदम् आत्मशक्त्या मायाख्ययोरुगुणया महद्आद्य्अशेषम् । सृष्ट्वानुविश्य पुरुषस् तद्असद्गुणेषु नानेव दारुषु विभावसुवद् विभासि ॥ 7 ॥
श्लोक 4.9.8
त्वद्दत्तया वयुनयेदम् अचष्ट विश्वं सुप्तप्रबुद्ध इव नाथ भवत्प्रपन्नः । तस्यापवर्ग्यशरणं तव पादमूलं विस्मर्यते कृतविदा कथम् आर्तबन्धो ॥ 8 ॥
श्लोक 4.9.9
नूनं विमुष्टमतयस् तव मायया ते ये त्वां भवाप्ययविमोक्षणम् अन्यहेतोः । अर्चन्ति कल्पकतरुं कुणपोपभोग्यम् इच्छन्ति यत् स्पर्शजं निरये ऽपि न्णाम् ॥ 9 ॥
श्लोक 4.9.10
या निर्वृतिस् तनुभृतां तव पादपद्मध्यानाद् भवज्जनकथाश्रवणेन वा स्यात् । सा ब्रह्मणि स्वमहिमन्य् अपि नाथ मा भूत् किं त्व् अन्तकासिलुलितात् पततां विमानात् ॥ 10 ॥
श्लोक 4.9.11
भक्तिं मुहुः प्रवहतां त्वयि मे प्रसङ्गो भूयाद् अनन्त महताम् अमलाशयानाम् । येनाञ्जसोल्बणम् उरुव्यसनं भवाब्धिं नेष्ये भवद्गुणकथामृतपानमत्तः ॥ 11 ॥
श्लोक 4.9.12
ते न स्मरन्त्य् अतितरां प्रियम् ईश मर्त्यं ये चान्व् अदः सुतसुहृद्गृहवित्तदाराः । ये त्व् अब्जनाभ भवदीयपदारविन्दसौगन्ध्यलुब्धहृदयेषु कृतप्रसङ्गाः ॥ 12 ॥
श्लोक 4.9.13
तिर्यङ्नगद्विजसरीसृपदेवदैत्यमर्त्यादिभिः परिचितं सद्असद्विशेषम् । रूपं स्थविष्ठम् अज ते महद्आद्य्अनेकं नातः परं परम वेद्मि न यत्र वादः ॥ 13 ॥
श्लोक 4.9.14
कल्पान्त एतद् अखिलं जठरेण गृह्णन् शेते पुमान् स्वदृग् अनन्तसखस् तद्अङ्के । यन्नाभिसिन्धुरुहकाञ्चनलोकपद्मगर्भे द्युमान् भगवते प्रणतो ऽस्मि तस्मै ॥ 14 ॥
श्लोक 4.9.15
त्वं नित्यमुक्तपरिशुद्धविबुद्ध आत्मा कूटस्थ आदिपुरुषो भगवांस् त्र्य्अधीशः । यद्बुद्ध्य्अवस्थितिम् अखण्डितया स्वदृष्ट्या द्रष्टा स्थिताव् अधिमखो व्यतिरिक्त आस्से ॥ 15 ॥
श्लोक 4.9.16
यस्मिन् विरुद्धगतयो ह्य् अनिशं पतन्ति विद्यादयो विविधशक्तय आनुपूर्व्यात् । तद् ब्रह्म विश्वभवम् एकम् अनन्तम् आद्यम् आनन्दमात्रम् अविकारम् अहं प्रपद्ये ॥ 16 ॥
श्लोक 4.9.17
सत्याशिषो हि भगवंस् तव पादपद्मम् आशीस् तथानुभजतः पुरुषार्थमूर्तेः । अप्य् एवम् अर्य भगवान् परिपाति दीनान् वाश्रेव वत्सकम् अनुग्रहकातरो ऽस्मान् ॥ 17 ॥
श्लोक 4.9.18
अथाभिष्टुत एवं वै सत्सङ्कल्पेन धीमता । भृत्यानुरक्तो भगवान् प्रतिनन्द्येदम् अब्रवीत् ॥ 18 ॥
श्लोक 4.9.19
वेदाहं ते व्यवसितं हृदि राजन्यबालक । तत् प्रयच्छामि भद्रं ते दुरापम् अपि सुव्रत ॥ 19 ॥
श्लोक 4.9.20
नान्यैर् अधिष्ठितं भद्र यद् भ्राजिष्णु ध्रुवक्षिति । यत्र ग्रहर्क्षताराणां ज्योतिषां चक्रम् आहितम् ॥ 20 ॥
श्लोक 4.9.21
मेढ्यां गोचक्रवत् स्थास्नु परस्तात् कल्पवासिनाम् । धर्मो ऽग्निः कश्यपः शुक्रो मुनयो ये वनौकसः । चरन्ति दक्षिणीकृत्य भ्रमन्तो यत् सतारकाः ॥ 21 ॥
श्लोक 4.9.22
प्रस्थिते तु वनं पित्रा दत्त्वा गां धर्मसंश्रयः । षट्त्रिंशद्वर्षसाहस्रं रक्षिताव्याहतेन्द्रियः ॥ 22 ॥
श्लोक 4.9.23
त्वद्भ्रातर्य् उत्तमे नष्टे मृगयायां तु तन्मनाः । अन्वेषन्ती वनं माता दावाग्निं सा प्रवेक्ष्यति ॥ 23 ॥
श्लोक 4.9.24
इष्ट्वा मां यज्ञहृदयं यज्ञैः पुष्कलदक्षिणैः । भुक्त्वा चेहाशिषः सत्या अन्ते मां संस्मरिष्यसि ॥ 24 ॥
श्लोक 4.9.25
ततो गन्तासि मत्स्थानं सर्वलोकनमस्कृतम् । उपरिष्टाद् ऋषिभ्यस् त्वं यतो नावर्तते गतः ॥ 25 ॥
श्लोक 4.9.26
इत्य् अर्चितः स भगवान् अतिदिश्यात्मनः पदम् । बालस्य पश्यतो धाम स्वम् अगाद् गरुडध्वजः ॥ 26 ॥
श्लोक 4.9.27
सो ऽपि सङ्कल्पजं विष्णोः पादसेवोपसादितम् । प्राप्य सङ्कल्पनिर्वाणं नातिप्रीतो ऽभ्यगात् पुरम् ॥ 27 ॥
श्लोक 4.9.28
सुदुर्लभं यत् परमं पदं हरेर् मायाविनस् तच्चरणार्चनार्जितम् । लब्ध्वाप्य् असिद्धार्थम् इवैकजन्मना कथं स्वम् आत्मानम् अमन्यतार्थवित् ॥ 28 ॥
श्लोक 4.9.29
मातुः सपत्न्या वाग्बाणैर् हृदि विद्धस् तु तान् स्मरन् । नैच्छन् मुक्तिपतेर् मुक्तिं तस्मात् तापम् उपेयिवान् ॥ 29 ॥
श्लोक 4.9.30
समाधिना नैकभवेन यत् पदं विदुः सनन्दादय ऊर्ध्वरेतसः । मासैर् अहं षड्भिर् अमुष्य पादयोश् छायाम् उपेत्यापगतः पृथङ्मतिः ॥ 30 ॥
श्लोक 4.9.31
अहो बत ममानात्म्यं मन्दभाग्यस्य पश्यत । भवच्छिदः पादमूलं गत्वा याचे यद् अन्तवत् ॥ 31 ॥
श्लोक 4.9.32
मतिर् विदूषिता देवैः पतद्भिर् असहिष्णुभिः । यो नारदवचस् तथ्यं नाग्राहिषम् असत्तमः ॥ 32 ॥
श्लोक 4.9.33
दैवीं मायाम् उपाश्रित्य प्रसुप्त इव भिन्नदृक् । तप्ये द्वितीये ऽप्य् असति भ्रातृभ्रातृव्यहृद्रुजा ॥ 33 ॥
श्लोक 4.9.34
मयैतत् प्रार्थितं व्यर्थं चिकित्सेव गतायुषि । प्रसाद्य जगद्आत्मानं तपसा दुष्प्रसादनम् । भवच्छिदम् अयाचे ऽहं भवं भाग्यविवर्जितः ॥ 34 ॥
श्लोक 4.9.35
स्वाराज्यं यच्छतो मौढ्यान् मानो मे भिक्षितो बत । ईश्वरात् क्षीणपुण्येन फलीकारान् इवाधनः ॥ 35 ॥
श्लोक 4.9.36
न वै मुकुन्दस्य पदारविन्दयो रजोजुषस् तात भवादृशा जनाः । वाञ्छन्ति तद्दास्यम् ऋते ऽर्थम् आत्मनो यदृच्छया लब्धमनःसमृद्धयः ॥ 36 ॥
श्लोक 4.9.37
आकर्ण्यात्मजम् आयान्तं सम्परेत्य यथागतम् । राजा न श्रद्दधे भद्रम् अभद्रस्य कुतो मम ॥ 37 ॥
श्लोक 4.9.38
श्रद्धाय वाक्यं देवर्षेर् हर्षवेगेन धर्षितः । वार्ताहर्तुर् अतिप्रीतो हारं प्रादान् महाधनम् ॥ 38 ॥
श्लोक 4.9.39
सद्अश्वं रथम् आरुह्य कार्तस्वरपरिष्कृतम् । ब्राह्मणैः कुलवृद्धैश् च पर्यस्तो ऽमात्यबन्धुभिः ॥ 39 ॥
श्लोक 4.9.40
शङ्खदुन्दुभिनादेन ब्रह्मघोषेण वेणुभिः । निश्चक्राम पुरात् तूर्णम् आत्मजाभीक्षणोत्सुकः ॥ 40 ॥
श्लोक 4.9.41
सुनीतिः सुरुचिश् चास्य महिष्यौ रुक्मभूषिते । आरुह्य शिबिकां सार्धम् उत्तमेनाभिजग्मतुः ॥ 41 ॥
श्लोक 4.9.42
तं दृष्ट्वोपवनाभ्याश आयान्तं तरसा रथात् । अवरुह्य नृपस् तूर्णम् आसाद्य प्रेमविह्वलः ॥ 42 ॥
श्लोक 4.9.43
परिरेभे ऽङ्गजं दोर्भ्यां दीर्घोत्कण्ठमनाः श्वसन् । विष्वक्सेनाङ्घ्रिसंस्पर्शहताशेषाघबन्धनम् ॥ 43 ॥
श्लोक 4.9.44
अथाजिघ्रन् मुहुर् मूर्ध्नि शीतैर् नयनवारिभिः । स्नापयाम् आस तनयं जातोद्दाममनोरथः ॥ 44 ॥
श्लोक 4.9.45
अभिवन्द्य पितुः पादाव् आशीर्भिश् चाभिमन्त्रितः । ननाम मातरौ शीर्ष्णा सत्कृतः सज्जनाग्रणीः ॥ 45 ॥
श्लोक 4.9.46
सुरुचिस् तं समुत्थाप्य पादावनतम् अर्भकम् । परिष्वज्याह जीवेति बाष्पगद्गदया गिरा ॥ 46 ॥
श्लोक 4.9.47
यस्य प्रसन्नो भगवान्गुणैर् मैत्र्य्आदिभिर् हरिः । तस्मै नमन्ति भूतानि निम्नम् आप इव स्वयम् ॥ 47 ॥
श्लोक 4.9.48
उत्तमश् च ध्रुवश् चोभाव् अन्योन्यं प्रेमविह्वलौ । अङ्गसङ्गाद् उत्पुलकाव् अस्रौघं मुहुर् ऊहतुः ॥ 48 ॥
श्लोक 4.9.49
सुनीतिर् अस्य जननी प्राणेभ्यो ऽपि प्रियं सुतम् । उपगुह्य जहाव् आधिं तद्अङ्गस्पर्शनिर्वृता ॥ 49 ॥
श्लोक 4.9.50
पयः स्तनाभ्यां सुस्राव नेत्रजैः सलिलैः शिवैः । तदाभिषिच्यमानाभ्यां वीर वीरसुवो मुहुः ॥ 50 ॥
श्लोक 4.9.51
तां शशंसुर् जना राज्ञीं दिष्ट्या ते पुत्र आर्तिहा । प्रतिलब्धश् चिरं नष्टो रक्षिता मण्डलं भुवः ॥ 51 ॥
श्लोक 4.9.52
अभ्यर्चितस् त्वया नूनं भगवान् प्रणतार्तिहा । यद्अनुध्यायिनो धीरा मृत्युं जिग्युः सुदुर्जयम् ॥ 52 ॥
श्लोक 4.9.53
लाल्यमानं जनैर् एवं ध्रुवं सभ्रातरं नृपः । आरोप्य करिणीं हृष्टः स्तूयमानो ऽविशत् पुरम् ॥ 53 ॥
श्लोक 4.9.54
तत्र तत्रोपसङ्कॢप्तैर् लसन्मकरतोरणैः । सवृन्दैः कदलीस्तम्भैः पूगपोतैश् च तद्विधैः ॥ 54 ॥
श्लोक 4.9.55
चूतपल्लववासःस्रङ्मुक्तादामविलम्बिभिः । उपस्कृतं प्रतिद्वारम् अपां कुम्भैः सदीपकैः ॥ 55 ॥
श्लोक 4.9.56
प्राकारैर् गोपुरागारैः शातकुम्भपरिच्छदैः । सर्वतो ऽलङ्कृतं श्रीमद्विमानशिखरद्युभिः ॥ 56 ॥
श्लोक 4.9.57
मृष्टचत्वररथ्याट्टमार्गं चन्दनचर्चितम् । लाजाक्षतैः पुष्पफलैस् तण्डुलैर् बलिभिर् युतम् ॥ 57 ॥
श्लोक 4.9.58
ध्रुवाय पथि दृष्टाय तत्र तत्र पुरस्त्रियः । सिद्धार्थाक्षतदध्य्अम्बुदूर्वापुष्पफलानि च ॥ 58 ॥
श्लोक 4.9.59
उपजह्रुः प्रयुञ्जाना वात्सल्याद् आशिषः सतीः । शृण्वंस् तद्वल्गुगीतानि प्राविशद् भवनं पितुः ॥ 59 ॥
श्लोक 4.9.60
महामणिव्रातमये स तस्मिन् भवनोत्तमे । लालितो नितरां पित्रा न्यवसद् दिवि देववत् ॥ 60 ॥
श्लोक 4.9.61
पयःफेननिभाः शय्या दान्ता रुक्मपरिच्छदाः । आसनानि महार्हाणि यत्र रौक्मा उपस्कराः ॥ 61 ॥
श्लोक 4.9.62
यत्र स्फटिककुड्येषु महामारकतेषु च । मणिप्रदीपा आभान्ति ललनारत्नसंयुताः ॥ 62 ॥
श्लोक 4.9.63
उद्यानानि च रम्याणि विचित्रैर् अमरद्रुमैः । कूजद्विहङ्गमिथुनैर् गायन्मत्तमधुव्रतैः ॥ 63 ॥
श्लोक 4.9.64
वाप्यो वैदूर्यसोपानाः पद्मोत्पलकुमुद्वतीः । हंसकारण्डवकुलैर् जुष्टाश् चक्राह्वसारसैः ॥ 64 ॥
श्लोक 4.9.65
उत्तानपादो राजर्षिः प्रभावं तनयस्य तम् । श्रुत्वा दृष्ट्वाद्भुततमं प्रपेदे विस्मयं परम् ॥ 65 ॥
श्लोक 4.9.66
वीक्ष्योढवयसं तं च प्रकृतीनां च सम्मतम् । अनुरक्तप्रजं राजा ध्रुवं चक्रे भुवः पतिम् ॥ 66 ॥
श्लोक 4.9.67
आत्मानं च प्रवयसम् आकलय्य विशाम्पतिः । वनं विरक्तः प्रातिष्ठद् विमृशन्न् आत्मनो गतिम् ॥ 67 ॥