मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत चतुर्थ स्कन्ध अध्याय 12

श्रीमद्भागवत चतुर्थ स्कन्ध अध्याय 12 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 4.12.1

ध्रुवं निवृत्तं प्रतिबुद्ध्य वैशसाद् अपेतमन्युं भगवान् धनेश्वरः । तत्रागतश् चारणयक्षकिन्नरैः संस्तूयमानो न्यवदत् कृताञ्जलिम् ॥ 1 ॥

श्लोक 4.12.2

भो भोः क्षत्रियदायाद परितुष्टो ऽस्मि ते ऽनघ । यत् त्वं पितामहादेशाद् वैरं दुस्त्यजम् अत्यजः ॥ 2 ॥

श्लोक 4.12.3

न भवान् अवधीद् यक्षान् न यक्षा भ्रातरं तव । काल एव हि भूतानां प्रभुर् अप्ययभावयोः ॥ 3 ॥

श्लोक 4.12.4

अहं त्वम् इत्य् अपार्था धीर् अज्ञानात् पुरुषस्य हि । स्वाप्नीवाभात्य् अतद्ध्यानाद् यया बन्धविपर्ययौ ॥ 4 ॥

श्लोक 4.12.5

तद् गच्छ ध्रुव भद्रं ते भगवन्तम् अधोक्षजम् । सर्वभूतात्मभावेन सर्वभूतात्मविग्रहम् ॥ 5 ॥

श्लोक 4.12.6

भजस्व भजनीयाङ्घ्रिम् अभवाय भवच्छिदम् । युक्तं विरहितं शक्त्या गुणमय्यात्ममायया ॥ 6 ॥

श्लोक 4.12.7

वृणीहि कामं नृप यन् मनोगतं मत्तस् त्वम् औत्तानपदे ऽविशङ्कितः । वरं वरार्हो ऽम्बुजनाभपादयोर् अनन्तरं त्वां वयम् अङ्ग शुश्रुम ॥ 7 ॥

श्लोक 4.12.8

स राजराजेन वराय चोदितो ध्रुवो महाभागवतो महामतिः । हरौ स वव्रे ऽचलितां स्मृतिं यया तरत्य् अयत्नेन दुरत्ययं तमः ॥ 8 ॥

श्लोक 4.12.9

तस्य प्रीतेन मनसा तां दत्त्वैडविडस् ततः । पश्यतो ऽन्तर्दधे सो ऽपि स्वपुरं प्रत्यपद्यत ॥ 9 ॥

श्लोक 4.12.10

अथायजत यज्ञेशं क्रतुभिर् भूरिदक्षिणैः । द्रव्यक्रियादेवतानां कर्म कर्मफलप्रदम् ॥ 10 ॥

श्लोक 4.12.11

सर्वात्मन्य् अच्युते ऽसर्वे तीव्रौघां भक्तिम् उद्वहन् । ददर्शात्मनि भूतेषु तम् एवावस्थितं विभुम् ॥ 11 ॥

श्लोक 4.12.12

तम् एवं शीलसम्पन्नं ब्रह्मण्यं दीनवत्सलम् । गोप्तारं धर्मसेतूनां मेनिरे पितरं प्रजाः ॥ 12 ॥

श्लोक 4.12.13

षट्त्रिंशद्वर्षसाहस्रं शशास क्षितिमण्डलम् । भोगैः पुण्यक्षयं कुर्वन्न् अभोगैर् अशुभक्षयम् ॥ 13 ॥

श्लोक 4.12.14

एवं बहुसवं कालं महात्माविचलेन्द्रियः । त्रिवर्गौपयिकं नीत्वा पुत्रायादान् नृपासनम् ॥ 14 ॥

श्लोक 4.12.15

मन्यमान इदं विश्वं मायारचितम् आत्मनि । अविद्यारचितस्वप्नगन्धर्वनगरोपमम् ॥ 15 ॥

श्लोक 4.12.16

आत्मस्त्र्य्अपत्यसुहृदो बलम् ऋद्धकोशम् अन्तःपुरं परिविहारभुवश् च रम्याः &अम्प्; भूमण्डलं जलधिमेखलम् आकलय्य कालोपसृष्टम् इति स प्रययौ विशालाम् ॥ 16 ॥

श्लोक 4.12.17

तस्यां विशुद्धकरणः शिववार् विगाह्य बद्ध्वासनं जितमरुन् मनसाहृताक्षः । स्थूले दधार भगवत्प्रतिरूप एतद् ध्यायंस् तद् अव्यवहितो व्यसृजत् समाधौ ॥ 17 ॥

श्लोक 4.12.18

भक्तिं हरौ भगवति प्रवहन्न् अजस्रम् आनन्दबाष्पकलया मुहुर् अर्द्यमानः । विक्लिद्यमानहृदयः पुलकाचिताङ्गो नात्मानम् अस्मरद् असाव् इति मुक्तलिङ्गः ॥ 18 ॥

श्लोक 4.12.19

स ददर्श विमानाग्र्यं नभसो ऽवतरद् ध्रुवः । विभ्राजयद् दश दिशो राकापतिम् इवोदितम् ॥ 19 ॥

श्लोक 4.12.20

तत्रानु देवप्रवरौ चतुर्भुजौ श्यामौ किशोराव् अरुणाम्बुजेक्षणौ &अम्प्; स्थिताव् अवष्टभ्य गदां सुवाससौ किरीटहाराङ्गदचारुकुण्डलौ ॥ 20 ॥

श्लोक 4.12.21

विज्ञाय ताव् उत्तमगायकिङ्कराव् अभ्युत्थितः साध्वसविस्मृतक्रमः । ननाम नामानि गृणन् मधुद्विषः पार्षत्प्रधानाव् इति संहताञ्जलिः ॥ 21 ॥

श्लोक 4.12.22

तं कृष्णपादाभिनिविष्टचेतसं बद्धाञ्जलिं प्रश्रयनम्रकन्धरम् । सुनन्दनन्दाव् उपसृत्य सस्मितं प्रत्यूचतुः पुष्करनाभसम्मतौ ॥ 22 ॥

श्लोक 4.12.23

भो भो राजन् सुभद्रं ते वाचं नो ऽवहितः शृणु । यः पञ्चवर्षस् तपसा भवान् देवम् अतीतृपत् ॥ 23 ॥

श्लोक 4.12.24

तस्याखिलजगद्धातुर् आवां देवस्य शार्ङ्गिणः । पार्षदाव् इह सम्प्राप्तौ नेतुं त्वां भगवत्पदम् ॥ 24 ॥

श्लोक 4.12.25

सुदुर्जयं विष्णुपदं जितं त्वया यत् सूरयो ऽप्राप्य विचक्षते परम् । आतिष्ठ तच् चन्द्रदिवाकरादयो ग्रहर्क्षताराः परियन्ति दक्षिणम् ॥ 25 ॥

श्लोक 4.12.26

अनास्थितं ते पितृभिर् अन्यैर् अप्य् अङ्ग कर्हिचित् । आतिष्ठ जगतां वन्द्यं तद् विष्णोः परमं पदम् ॥ 26 ॥

श्लोक 4.12.27

एतद् विमानप्रवरम् उत्तमश्लोकमौलिना । उपस्थापितम् आयुष्मन्न् अधिरोढुं त्वम् अर्हसि ॥ 27 ॥

श्लोक 4.12.28

निशम्य वैकुण्ठनियोज्यमुख्ययोर् मधुच्युतं वाचम् उरुक्रमप्रियः । कृताभिषेकः कृतनित्यमङ्गलो मुनीन् प्रणम्याशिषम् अभ्यवादयत् ॥ 28 ॥

श्लोक 4.12.29

परीत्याभ्यर्च्य धिष्ण्याग्र्यं पार्षदाव् अभिवन्द्य च । इयेष तद् अधिष्ठातुं बिभ्रद् रूपं हिरण्मयम् ॥ 29 ॥

श्लोक 4.12.30

तदोत्तानपदः पुत्रो ददर्शान्तकम् आगतम् । मृत्योर् मूर्ध्नि पदं दत्त्वा आरुरोहाद्भुतं गृहम् ॥ 30 ॥

श्लोक 4.12.31

तदा दुन्दुभयो नेदुर् मृदङ्गपणवादयः । गन्धर्वमुख्याः प्रजगुः पेतुः कुसुमवृष्टयः ॥ 31 ॥

श्लोक 4.12.32

स च स्वर्लोकम् आरोक्ष्यन् सुनीतिं जननीं ध्रुवः । अन्वस्मरद् अगं हित्वा दीनां यास्ये त्रिविष्टपम् ॥ 32 ॥

श्लोक 4.12.33

इति व्यवसितं तस्य व्यवसाय सुरोत्तमौ । दर्शयाम् आसतुर् देवीं पुरो यानेन गच्छतीम् ॥ 33 ॥

श्लोक 4.12.34

तत्र तत्र प्रशंसद्भिः पथि वैमानिकैः सुरैः । अवकीर्यमाणो ददृशे कुसुमैः क्रमशो ग्रहान् ॥ 34 ॥

श्लोक 4.12.35

त्रिलोकीं देवयानेन सो ऽतिव्रज्य मुनीन् अपि । परस्ताद् यद् ध्रुवगतिर् विष्णोः पदम् अथाभ्यगात् ॥ 35 ॥

श्लोक 4.12.36

यद् भ्राजमानं स्वरुचैव सर्वतो लोकास् त्रयो ह्य् अनु विभ्राजन्त एते । यन् नाव्रजन् जन्तुषु ये ऽननुग्रहा व्रजन्ति भद्राणि चरन्ति ये ऽनिशम् ॥ 36 ॥

श्लोक 4.12.37

शान्ताः समदृशः शुद्धाः सर्वभूतानुरञ्जनाः । यान्त्य् अञ्जसाच्युतपदम् अच्युतप्रियबान्धवाः ॥ 37 ॥

श्लोक 4.12.38

इत्य् उत्तानपदः पुत्रो ध्रुवः कृष्णपरायणः । अभूत् त्रयाणां लोकानां चूडामणिर् इवामलः ॥ 38 ॥

श्लोक 4.12.39

गम्भीरवेगो ऽनिमिषं ज्योतिषां चक्रम् आहितम् । यस्मिन् भ्रमति कौरव्य मेढ्याम् इव गवां गणः ॥ 39 ॥

श्लोक 4.12.40

महिमानं विलोक्यास्य नारदो भगवान् ऋषिः । आतोद्यं वितुदञ् श्लोकान् सत्रे ऽगायत् प्रचेतसाम् ॥ 40 ॥

श्लोक 4.12.41

नूनं सुनीतेः पतिदेवतायास् तपःप्रभावस्य सुतस्य तां गतिम् । दृष्ट्वाभ्युपायान् अपि वेदवादिनो नैवाधिगन्तुं प्रभवन्ति किं नृपाः ॥ 41 ॥

श्लोक 4.12.42

यः पञ्चवर्षो गुरुदारवाक्शरैर् भिन्नेन यातो हृदयेन दूयता । वनं मद्आदेशकरो ऽजितं प्रभुं जिगाय तद्भक्तगुणैः पराजितम् ॥ 42 ॥

श्लोक 4.12.43

यः क्षत्रबन्धुर् भुवि तस्याधिरूढम् अन्व् आरुरुक्षेद् अपि वर्षपूगैः । षट्पञ्चवर्षो यद् अहोभिर् अल्पैः प्रसाद्य वैकुण्ठम् अवाप तत्पदम् ॥ 43 ॥

श्लोक 4.12.44

एतत् ते ऽभिहितं सर्वं यत् पृष्टो ऽहम् इह त्वया । ध्रुवस्योद्दामयशसश् चरितं सम्मतं सताम् ॥ 44 ॥

श्लोक 4.12.45

धन्यं यशस्यम् आयुष्यं पुण्यं स्वस्त्य्अयनं महत् । स्वर्ग्यं ध्रौव्यं सौमनस्यं प्रशस्यम् अघमर्षणम् ॥ 45 ॥

श्लोक 4.12.46

श्रुत्वैतच् छ्रद्धयाभीक्ष्णम् अच्युतप्रियचेष्टितम् । भवेद् भक्तिर् भगवति यया स्यात् क्लेशसङ्क्षयः ॥ 46 ॥

श्लोक 4.12.47

महत्त्वम् इच्छतां तीर्थं श्रोतुः शीलादयो गुणाः । यत्र तेजस् तद् इच्छूनां मानो यत्र मनस्विनाम् ॥ 47 ॥

श्लोक 4.12.48

प्रयतः कीर्तयेत् प्रातः समवाये द्विजन्मनाम् । सायं च पुण्यश्लोकस्य ध्रुवस्य चरितं महत् ॥ 48 ॥

श्लोक 4.12.49

पौर्णमास्यां सिनीवाल्यां द्वादश्यां श्रवणे ऽथवा । दिनक्षये व्यतीपाते सङ्क्रमे ऽर्कदिने ऽपि वा ॥ 49 ॥

श्लोक 4.12.50

श्रावयेच् छ्रद्दधानानां तीर्थपादपदाश्रयः । नेच्छंस् तत्रात्मनात्मानं सन्तुष्ट इति सिध्यति ॥ 50 ॥

श्लोक 4.12.51

ज्ञानम् अज्ञाततत्त्वाय यो दद्यात् सत्पथे ऽमृतम् । कृपालोर् दीननाथस्य देवास् तस्यानुगृह्णते ॥ 51 ॥

श्लोक 4.12.52

इदं मया ते ऽभिहितं कुरूद्वह ध्रुवस्य विख्यातविशुद्धकर्मणः । हित्वार्भकः क्रीडनकानि मातुर् गृहं च विष्णुं शरणं यो जगाम ॥ 52 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ