श्रीमद्भागवत चतुर्थ स्कन्ध अध्याय 13
श्रीमद्भागवत चतुर्थ स्कन्ध अध्याय 13 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 4.13.1
निशम्य कौषारविणोपवर्णितं ध्रुवस्य वैकुण्ठपदाधिरोहणम् । प्ररूढभावो भगवत्य् अधोक्षजे प्रष्टुं पुनस् तं विदुरः प्रचक्रमे ॥ 1 ॥
श्लोक 4.13.2
के ते प्रचेतसो नाम कस्यापत्यानि सुव्रत । कस्यान्ववाये प्रख्याताः कुत्र वा सत्रम् आसत ॥ 2 ॥
श्लोक 4.13.3
मन्ये महाभागवतं नारदं देवदर्शनम् । येन प्रोक्तः क्रियायोगः परिचर्याविधिर् हरेः ॥ 3 ॥
श्लोक 4.13.4
स्वधर्मशीलैः पुरुषैर् भगवान् यज्ञपूरुषः । इज्यमानो भक्तिमता नारदेनेरितः किल ॥ 4 ॥
श्लोक 4.13.5
यास् ता देवर्षिणा तत्र वर्णिता भगवत्कथाः । मह्यं शुश्रूषवे ब्रह्मन् कार्त्स्न्येनाचष्टुम् अर्हसि ॥ 5 ॥
श्लोक 4.13.6
ध्रुवस्य चोत्कलः पुत्रः पितरि प्रस्थिते वनम् । सार्वभौमश्रियं नैच्छद् अधिराजासनं पितुः ॥ 6 ॥
श्लोक 4.13.7
स जन्मनोपशान्तात्मा निःसङ्गः समदर्शनः । ददर्श लोके विततम् आत्मानं लोकम् आत्मनि ॥ 7 ॥
श्लोक 4.13.8
आत्मानं ब्रह्म निर्वाणं प्रत्यस्तमितविग्रहम् । अवबोधरसैकात्म्यम् आनन्दम् अनुसन्ततम् ॥ 8 ॥
श्लोक 4.13.9
अव्यवच्छिन्नयोगाग्निदग्धकर्ममलाशयः । स्वरूपम् अवरुन्धानो नात्मनो ऽन्यं तदैक्षत ॥ 9 ॥
श्लोक 4.13.10
जडान्धबधिरोन्मत्तमूकाकृतिर् अतन्मतिः । लक्षितः पथि बालानां प्रशान्तार्चिर् इवानलः ॥ 10 ॥
श्लोक 4.13.11
मत्वा तं जडम् उन्मत्तं कुलवृद्धाः समन्त्रिणः । वत्सरं भूपतिं चक्रुर् यवीयांसं भ्रमेः सुतम् ॥ 11 ॥
श्लोक 4.13.12
स्वर्वीथिर् वत्सरस्येष्टा भार्यासूत षड्आत्मजान् । पुष्पार्णं तिग्मकेतुं च इषम् ऊर्जं वसुं जयम् ॥ 12 ॥
श्लोक 4.13.13
पुष्पार्णस्य प्रभा भार्या दोषा च द्वे बभूवतुः । प्रातर् मध्यन्दिनं सायम् इति ह्य् आसन् प्रभासुताः ॥ 13 ॥
श्लोक 4.13.14
प्रदोषो निशिथो व्युष्ट इति दोषासुतास् त्रयः । व्युष्टः सुतं पुष्करिण्यां सर्वतेजसम् आदधे ॥ 14 ॥
श्लोक 4.13.15
स चक्षुः सुतम् आकूत्यां पत्न्यां मनुम् अवाप ह । मनोर् असूत महिषी विरजान् नड्वला सुतान् ॥ 15 ॥
श्लोक 4.13.16
पुरुं कुत्सं त्रितं द्युम्नं सत्यवन्तम् ऋतं व्रतम् । अग्निष्टोमम् अतीरात्रं प्रद्युम्नं शिबिम् उल्मुकम् ॥ 16 ॥
श्लोक 4.13.17
उल्मुको ऽजनयत् पुत्रान् पुष्करिण्यां षड् उत्तमान् । अङ्गं सुमनसं ख्यातिं क्रतुम् अङ्गिरसं गयम् ॥ 17 ॥
श्लोक 4.13.18
सुनीथाङ्गस्य या पत्नी सुषुवे वेनम् उल्बणम् । यद्दौःशील्यात् स राजर्षिर् निर्विण्णो निरगात् पुरात् ॥ 18 ॥
श्लोक 4.13.19
यम् अङ्ग शेपुः कुपिता वाग्वज्रा मुनयः किल । गतासोस् तस्य भूयस् ते ममन्थुर् दक्षिणं करम् ॥ 19 ॥
श्लोक 4.13.20
अराजके तदा लोके दस्युभिः पीडिताः प्रजाः । जातो नारायणांशेन पृथुर् आद्यः क्षितीश्वरः ॥ 20 ॥
श्लोक 4.13.21
तस्य शीलनिधेः साधोर् ब्रह्मण्यस्य महात्मनः । राज्ञः कथम् अभूद् दुष्टा प्रजा यद् विमना ययौ ॥ 21 ॥
श्लोक 4.13.22
किं वांहो वेन उद्दिश्य ब्रह्मदण्डम् अयूयुजन् । दण्डव्रतधरे राज्ञि मुनयो धर्मकोविदाः ॥ 22 ॥
श्लोक 4.13.23
नावध्येयः प्रजापालः प्रजाभिर् अघवान् अपि । यद् असौ लोकपालानां बिभर्त्य् ओजः स्वतेजसा ॥ 23 ॥
श्लोक 4.13.24
एतद् आख्याहि मे ब्रह्मन् सुनीथात्मजचेष्टितम् । श्रद्दधानाय भक्ताय त्वं परावरवित्तमः ॥ 24 ॥
श्लोक 4.13.25
अङ्गो ऽश्वमेधं राजर्षिर् आजहार महाक्रतुम् । नाजग्मुर् देवतास् तस्मिन्न् आहूता ब्रह्मवादिभिः ॥ 25 ॥
श्लोक 4.13.26
तम् ऊचुर् विस्मितास् तत्र यजमानम् अथर्त्विजः । हवींषि हूयमानानि न ते गृह्णन्ति देवताः ॥ 26 ॥
श्लोक 4.13.27
राजन् हवींष्य् अदुष्टानि श्रद्धयासादितानि ते । छन्दांस्य् अयातयामानि योजितानि धृतव्रतैः ॥ 27 ॥
श्लोक 4.13.28
न विदामेह देवानां हेलनं वयम् अण्व् अपि । यन् न गृह्णन्ति भागान् स्वान् ये देवाः कर्मसाक्षिणः ॥ 28 ॥
श्लोक 4.13.29
अङ्गो द्विजवचः श्रुत्वा यजमानः सुदुर्मनाः । तत् प्रष्टुं व्यसृजद् वाचं सदस्यांस् तद्अनुज्ञया ॥ 29 ॥
श्लोक 4.13.30
नागच्छन्त्य् आहुता देवा न गृह्णन्ति ग्रहान् इह । सदसस्पतयो ब्रूत किम् अवद्यं मया कृतम् ॥ 30 ॥
श्लोक 4.13.31
नरदेवेह भवतो नाघं तावन् मनाक् स्थितम् । अस्त्य् एकं प्राक्तनम् अघं यद् इहेदृक् त्वम् अप्रजः ॥ 31 ॥
श्लोक 4.13.32
तथा साधय भद्रं ते आत्मानं सुप्रजं नृप । इष्टस् ते पुत्रकामस्य पुत्रं दास्यति यज्ञभुक् ॥ 32 ॥
श्लोक 4.13.33
तथा स्वभागधेयानि ग्रहीष्यन्ति दिवौकसः । यद् यज्ञपुरुषः साक्षाद् अपत्याय हरिर् वृतः ॥ 33 ॥
श्लोक 4.13.34
तांस् तान् कामान् हरिर् दद्याद् यान् यान् कामयते जनः । आराधितो यथैवैष तथा पुंसां फलोदयः ॥ 34 ॥
श्लोक 4.13.35
इति व्यवसिता विप्रास् तस्य राज्ञः प्रजातये । पुरोडाशं निरवपन् शिपिविष्टाय विष्णवे ॥ 35 ॥
श्लोक 4.13.36
तस्मात् पुरुष उत्तस्थौ हेममाल्य् अमलाम्बरः । हिरण्मयेन पात्रेण सिद्धम् आदाय पायसम् ॥ 36 ॥
श्लोक 4.13.37
स विप्रानुमतो राजा गृहीत्वाञ्जलिनौदनम् । अवघ्राय मुदा युक्तः प्रादात् पत्न्या उदारधीः ॥ 37 ॥
श्लोक 4.13.38
सा तत् पुंसवनं राज्ञी प्राश्य वै पत्युर् आदधे । गर्भं काल उपावृत्ते कुमारं सुषुवे ऽप्रजा ॥ 38 ॥
श्लोक 4.13.39
स बाल एव पुरुषो मातामहम् अनुव्रतः । अधर्मांशोद्भवं मृत्युं तेनाभवद् अधार्मिकः ॥ 39 ॥
श्लोक 4.13.40
स शरासनम् उद्यम्य मृगयुर् वनगोचरः । हन्त्य् असाधुर् मृगान् दीनान् वेनो ऽसाव् इत्य् अरौज् जनः ॥ 40 ॥
श्लोक 4.13.41
आक्रीडे क्रीडतो बालान् वयस्यान् अतिदारुणः । प्रसह्य निरनुक्रोशः पशुमारम् अमारयत् ॥ 41 ॥
श्लोक 4.13.42
तं विचक्ष्य खलं पुत्रं शासनैर् विविधैर् नृपः । यदा न शासितुं कल्पो भृशम् आसीत् सुदुर्मनाः ॥ 42 ॥
श्लोक 4.13.43
प्रायेणाभ्यर्चितो देवो ये ऽप्रजा गृहमेधिनः । कद्अपत्यभृतं दुःखं ये न विन्दन्ति दुर्भरम् ॥ 43 ॥
श्लोक 4.13.44
यतः पापीयसी कीर्तिर् अधर्मश् च महान् नृणाम् । यतो विरोधः सर्वेषां यत आधिर् अनन्तकः ॥ 44 ॥
श्लोक 4.13.45
कस् तं प्रजापदेशं वै मोहबन्धनम् आत्मनः । पण्डितो बहु मन्येत यद्अर्थाः क्लेशदा गृहाः ॥ 45 ॥
श्लोक 4.13.46
कद्अपत्यं वरं मन्ये सद्अपत्याच् छुचां पदात् । निर्विद्येत गृहान् मर्त्यो यत्क्लेशनिवहा गृहाः ॥ 46 ॥
श्लोक 4.13.47
एवं स निर्विण्णमना नृपो गृहान् निशीथ उत्थाय महोदयोदयात् । अलब्धनिद्रो ऽनुपलक्षितो नृभिर् हित्वा गतो वेनसुवं प्रसुप्ताम् ॥ 47 ॥
श्लोक 4.13.48
विज्ञाय निर्विद्य गतं पतिं प्रजाः पुरोहितामात्यसुहृद्गणादयः । विचिक्युर् उर्व्याम् अतिशोककातरा यथा निगूढं पुरुषं कुयोगिनः ॥ 48 ॥
श्लोक 4.13.49
अलक्षयन्तः पदवीं प्रजापतेर् हतोद्यमाः प्रत्युपसृत्य ते पुरीम् । ऋषीन् समेतान् अभिवन्द्य साश्रवो न्यवेदयन् पौरव भर्तृविप्लवम् ॥ 49 ॥