मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत चतुर्थ स्कन्ध अध्याय 14

श्रीमद्भागवत चतुर्थ स्कन्ध अध्याय 14 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 4.14.1

भृग्व्आदयस् ते मुनयो लोकानां क्षेमदर्शिनः । गोप्तर्य् असति वै नॄणां पश्यन्तः पशुसाम्यताम् ॥ 1 ॥

श्लोक 4.14.2

वीरमातरम् आहूय सुनीथां ब्रह्मवादिनः । प्रकृत्य्असम्मतं वेनम् अभ्यषिञ्चन् पतिं भुवः ॥ 2 ॥

श्लोक 4.14.3

श्रुत्वा नृपासनगतं वेनम् अत्युग्रशासनम् । निलिल्युर् दस्यवः सद्यः सर्पत्रस्ता इवाखवः ॥ 3 ॥

श्लोक 4.14.4

स आरूढनृपस्थान उन्नद्धो ऽष्टविभूतिभिः । अवमेने महाभागान् स्तब्धः सम्भावितः स्वतः ॥ 4 ॥

श्लोक 4.14.5

एवं मदान्ध उत्सिक्तो निरङ्कुश इव द्विपः । पर्यटन् रथम् आस्थाय कम्पयन्न् इव रोदसी ॥ 5 ॥

श्लोक 4.14.6

न यष्टव्यं न दातव्यं न होतव्यं द्विजाः क्वचित् । इति न्यवारयद् धर्मं भेरीघोषेण सर्वशः ॥ 6 ॥

श्लोक 4.14.7

वेनस्यावेक्ष्य मुनयो दुर्वृत्तस्य विचेष्टितम् । विमृश्य लोकव्यसनं कृपयोचुः स्म सत्रिणः ॥ 7 ॥

श्लोक 4.14.8

अहो उभयतः प्राप्तं लोकस्य व्यसनं महत् । दारुण्य् उभयतो दीप्ते इव तस्करपालयोः ॥ 8 ॥

श्लोक 4.14.9

अराजकभयाद् एष कृतो राजातद्अर्हणः । ततो ऽप्य् आसीद् भयं त्व् अद्य कथं स्यात् स्वस्ति देहिनाम् ॥ 9 ॥

श्लोक 4.14.10

अहेर् इव पयःपोषः पोषकस्याप्य् अनर्थभृत् । वेनः प्रकृत्यैव खलः सुनीथागर्भसम्भवः ॥ 10 ॥

श्लोक 4.14.11

निरूपितः प्रजापालः स जिघांसति वै प्रजाः । तथापि सान्त्वयेमामुं नास्मांस् तत्पातकं स्पृशेत् ॥ 11 ॥

श्लोक 4.14.12

तद्विद्वद्भिर् असद्वृत्तो वेनो ऽस्माभिः कृतो नृपः । सान्त्वितो यदि नो वाचं न ग्रहीष्यत्य् अधर्मकृत् ॥ 12 ॥

श्लोक 4.14.13

लोकधिक्कारसन्दग्धं दहिष्यामः स्वतेजसा । एवम् अध्यवसायैनं मुनयो गूढमन्यवः । उपव्रज्याब्रुवन् वेनं सान्त्वयित्वा च सामभिः ॥ 13 ॥

श्लोक 4.14.14

नृपवर्य निबोधैतद् यत् ते विज्ञापयाम भोः । आयुःश्रीबलकीर्तीनां तव तात विवर्धनम् ॥ 14 ॥

श्लोक 4.14.15

धर्म आचरितः पुंसां वाङ्मनःकायबुद्धिभिः । लोकान् विशोकान् वितरत्य् अथानन्त्यम् असङ्गिनाम् ॥ 15 ॥

श्लोक 4.14.16

स ते मा विनशेद् वीर प्रजानां क्षेमलक्षणः । यस्मिन् विनष्टे नृपतिर् ऐश्वर्याद् अवरोहति ॥ 16 ॥

श्लोक 4.14.17

राजन्न् असाध्व्अमात्येभ्यश् चोरादिभ्यः प्रजा नृपः । रक्षन् यथा बलिं गृह्णन्न् इह प्रेत्य च मोदते ॥ 17 ॥

श्लोक 4.14.18

यस्य राष्ट्रे पुरे चैव भगवान् यज्ञपूरुषः । इज्यते स्वेन धर्मेण जनैर् वर्णाश्रमान्वितैः ॥ 18 ॥

श्लोक 4.14.19

तस्य राज्ञो महाभाग भगवान् भूतभावनः । परितुष्यति विश्वात्मा तिष्ठतो निजशासने ॥ 19 ॥

श्लोक 4.14.20

तस्मिंस् तुष्टे किम् अप्राप्यंजगताम् ईश्वरेश्वरे । लोकाः सपाला ह्य् एतस्मै हरन्ति बलिम् आदृताः ॥ 20 ॥

श्लोक 4.14.21

तं सर्वलोकामरयज्ञसङ्ग्रहं त्रयीमयं द्रव्यमयं तपोमयम् । यज्ञैर् विचित्रैर् यजतो भवाय ते राजन् स्वदेशान् अनुरोद्धुम् अर्हसि ॥ 21 ॥

श्लोक 4.14.22

यज्ञेन युष्मद्विषये द्विजातिभिर् वितायमानेन सुराः कला हरेः । स्विष्टाः सुतुष्टाः प्रदिशन्ति वाञ्छितं तद्धेलनं नार्हसि वीर चेष्टितुम् ॥ 22 ॥

श्लोक 4.14.23

बालिशा बत यूयं वा अधर्मे धर्ममानिनः । ये वृत्तिदं पतिं हित्वा जारं पतिम् उपासते ॥ 23 ॥

श्लोक 4.14.24

अवजानन्त्य् अमी मूढा नृपरूपिणम् ईश्वरम् । नानुविन्दन्ति ते भद्रम् इह लोके परत्र च ॥ 24 ॥

श्लोक 4.14.25

को यज्ञपुरुषो नाम यत्र वो भक्तिर् ईदृशी । भर्तृस्नेहविदूराणां यथा जारे कुयोषिताम् ॥ 25 ॥

श्लोक 4.14.26

विष्णुर् विरिञ्चो गिरिश इन्द्रो वायुर् यमो रविः । पर्जन्यो धनदः सोमः क्षितिर् अग्निर् अपाम्पतिः ॥ 26 ॥

श्लोक 4.14.27

एते चान्ये च विबुधाः प्रभवो वरशापयोः । देहे भवन्ति नृपतेः सर्वदेवमयो नृपः ॥ 27 ॥

श्लोक 4.14.28

तस्मान् मां कर्मभिर् विप्रा यजध्वं गतमत्सराः । बलिं च मह्यं हरत मत्तो ऽन्यः को ऽग्रभुक् पुमान् ॥ 28 ॥

श्लोक 4.14.29

इत्थं विपर्ययमतिः पापीयान् उत्पथं गतः । अनुनीयमानस् तद्याच्ञां न चक्रे भ्रष्टमङ्गलः ॥ 29 ॥

श्लोक 4.14.30

इति ते ऽसत्कृतास् तेन द्विजाः पण्डितमानिना । भग्नायां भव्ययाच्ञायां तस्मै विदुर चुक्रुधुः ॥ 30 ॥

श्लोक 4.14.31

हन्यतां हन्यताम् एष पापः प्रकृतिदारुणः । जीवन् जगद् असाव् आशु कुरुते भस्मसाद् ध्रुवम् ॥ 31 ॥

श्लोक 4.14.32

नायम् अर्हत्य् असद्वृत्तो नरदेववरासनम् । यो ऽधियज्ञपतिं विष्णुं विनिन्दत्य् अनपत्रपः ॥ 32 ॥

श्लोक 4.14.33

को वैनं परिचक्षीत वेनम् एकम् ऋते ऽशुभम् । प्राप्त ईदृशम् ऐश्वर्यं यद्अनुग्रहभाजनः ॥ 33 ॥

श्लोक 4.14.34

इत्थं व्यवसिता हन्तुम् ऋषयो रूढमन्यवः । निजघ्नुर् हुङ्कृतैर् वेनं हतम् अच्युतनिन्दया ॥ 34 ॥

श्लोक 4.14.35

ऋषिभिः स्वाश्रमपदं गते पुत्रकलेवरम् । सुनीथा पालयाम् आस विद्यायोगेन शोचती ॥ 35 ॥

श्लोक 4.14.36

एकदा मुनयस् ते तु सरस्वत्सलिलाप्लुताः । हुत्वाग्नीन् सत्कथाश् चक्रुर् उपविष्टाः सरित्तटे ॥ 36 ॥

श्लोक 4.14.37

वीक्ष्योत्थितांस् तदोत्पातान् आहुर् लोकभयङ्करान् । अप्य् अभद्रम् अनाथाया दस्युभ्यो न भवेद् भुवः ॥ 37 ॥

श्लोक 4.14.38

एवं मृशन्त ऋषयो धावतां सर्वतोदिशम् । पांसुः समुत्थितो भूरिश् चोराणाम् अभिलुम्पताम् ॥ 38 ॥

श्लोक 4.14.39

तद् उपद्रवम् आज्ञाय लोकस्य वसु लुम्पताम् । भर्तर्य् उपरते तस्मिन्न् अन्योन्यं च जिघांसताम् ॥ 39 ॥

श्लोक 4.14.40

चोरप्रायं जनपदं हीनसत्त्वम् अराजकम् । लोकान् नावारयञ् छक्ता अपि तद्दोषदर्शिनः ॥ 40 ॥

श्लोक 4.14.41

ब्राह्मणः समदृक् शान्तो दीनानां समुपेक्षकः । स्रवते ब्रह्म तस्यापि भिन्नभाण्डात् पयो यथा ॥ 41 ॥

श्लोक 4.14.42

नाङ्गस्य वंशो राजर्षेर् एष संस्थातुम् अर्हति । अमोघवीर्या हि नृपा वंशे ऽस्मिन् केशवाश्रयाः ॥ 42 ॥

श्लोक 4.14.43

विनिश्चित्यैवम् ऋषयो विपन्नस्य महीपतेः । ममन्थुर् ऊरुं तरसा तत्रासीद् बाहुको नरः ॥ 43 ॥

श्लोक 4.14.44

काककृष्णो ऽतिह्रस्वाङ्गो ह्रस्वबाहुर् महाहनुः । ह्रस्वपान् निम्ननासाग्रो रक्ताक्षस् ताम्रमूर्धजः ॥ 44 ॥

श्लोक 4.14.45

तं तु ते ऽवनतं दीनं किं करोमीति वादिनम् । निषीदेत्य् अब्रुवंस् तात स निषादस् ततो ऽभवत् ॥ 45 ॥

श्लोक 4.14.46

तस्य वंश्यास् तु नैषादा गिरिकाननगोचराः । येनाहरज् जायमानो वेनकल्मषम् उल्बणम् ॥ 46 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ