मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत चतुर्थ स्कन्ध अध्याय 15

श्रीमद्भागवत चतुर्थ स्कन्ध अध्याय 15 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 4.15.1

अथ तस्य पुनर् विप्रैर् अपुत्रस्य महीपतेः । बाहुभ्यां मथ्यमानाभ्यां मिथुनं समपद्यत ॥ 1 ॥

श्लोक 4.15.2

तद् दृष्ट्वा मिथुनं जातम् ऋषयो ब्रह्मवादिनः । ऊचुः परमसन्तुष्टा विदित्वा भगवत्कलाम् ॥ 2 ॥

श्लोक 4.15.3

एष विष्णोर् भगवतः कला भुवनपालिनी । इयं च लक्ष्म्याः सम्भूतिः पुरुषस्यानपायिनी ॥ 3 ॥

श्लोक 4.15.4

अयं तु प्रथमो राज्ञां पुमान् प्रथयिता यशः । पृथुर् नाम महाराजो भविष्यति पृथुश्रवाः ॥ 4 ॥

श्लोक 4.15.5

इयं च सुदती देवी गुणभूषणभूषणा । अर्चिर् नाम वरारोहा पृथुम् एवावरुन्धती ॥ 5 ॥

श्लोक 4.15.6

एष साक्षाद् धरेर् अंशोजातो लोकरिरक्षया । इयं च तत्परा हि श्रीर् अनुजज्ञे ऽनपायिनी ॥ 6 ॥

श्लोक 4.15.7

प्रशंसन्ति स्म तं विप्रा गन्धर्वप्रवरा जगुः । मुमुचुः सुमनोधाराः सिद्धा नृत्यन्ति स्वःस्त्रियः ॥ 7 ॥

श्लोक 4.15.8

शङ्खतूर्यमृदङ्गाद्या नेदुर् दुन्दुभयो दिवि । तत्र सर्व उपाजग्मुर् देवर्षिपितॄणां गणाः ॥ 8 ॥

श्लोक 4.15.9

ब्रह्मा जगद्गुरुर् देवैः सहासृत्य सुरेश्वरैः । वैन्यस्य दक्षिणे हस्ते दृष्ट्वा चिह्नं गदाभृतः ॥ 9 ॥

श्लोक 4.15.10

पादयोर् अरविन्दं च तं वै मेने हरेः कलाम् । यस्याप्रतिहतं चक्रम् अंशः स परमेष्ठिनः ॥ 10 ॥

श्लोक 4.15.11

तस्याभिषेक आरब्धो ब्राह्मणैर् ब्रह्मवादिभिः । आभिषेचनिकान्य् अस्मै आजह्रुः सर्वतो जनाः ॥ 11 ॥

श्लोक 4.15.12

सरित्समुद्रा गिरयो नागा गावः खगा मृगाः । द्यौः क्षितिः सर्वभूतानि समाजह्रुर् उपायनम् ॥ 12 ॥

श्लोक 4.15.13

सो ऽभिषिक्तो महाराजः सुवासाः साध्व्अलङ्कृतः । पत्न्यार्चिषालङ्कृतया विरेजे ऽग्निर् इवापरः ॥ 13 ॥

श्लोक 4.15.14

तस्मै जहार धनदो हैमं वीर वरासनम् । वरुणः सलिलस्रावम् आतपत्रं शशिप्रभम् ॥ 14 ॥

श्लोक 4.15.15

वायुश् च वालव्यजने धर्मः कीर्तिमयीं स्रजम् । इन्द्रः किरीटम् उत्कृष्टं दण्डं संयमनं यमः ॥ 15 ॥

श्लोक 4.15.16

ब्रह्मा ब्रह्ममयं वर्म भारती हारम् उत्तमम् । हरिः सुदर्शनं चक्रं तत्पत्न्य् अव्याहतां श्रियम् ॥ 16 ॥

श्लोक 4.15.17

दशचन्द्रम् असिं रुद्रः शतचन्द्रं तथाम्बिका । सोमो ऽमृतमयान् अश्वांस् त्वष्टा रूपाश्रयं रथम् ॥ 17 ॥

श्लोक 4.15.18

अग्निर् आजगवं चापं सूर्यो रश्मिमयान् इषून् । भूः पादुके योगमय्यौ द्यौः पुष्पावलिम् अन्वहम् ॥ 18 ॥

श्लोक 4.15.19

नाट्यं सुगीतं वादित्रम् अन्तर्धानं च खेचराः । ऋषयश् चाशिषः सत्याः समुद्रः शङ्खम् आत्मजम् ॥ 19 ॥

श्लोक 4.15.20

सिन्धवः पर्वता नद्यो रथवीथीर् महात्मनः । सूतो ऽथ मागधो वन्दी तं स्तोतुम् उपतस्थिरे ॥ 20 ॥

श्लोक 4.15.21

स्तावकांस् तान् अभिप्रेत्य पृथुर् वैन्यः प्रतापवान् । मेघनिर्ह्रादया वाचा प्रहसन्न् इदम् अब्रवीत् ॥ 21 ॥

श्लोक 4.15.22

भोः सूत हे मागध सौम्य वन्दिन् लोके ऽधुनास्पष्टगुणस्य मे स्यात् । किम् आश्रयो मे स्तव एष योज्यतां मा मय्य् अभूवन् वितथा गिरो वः ॥ 22 ॥

श्लोक 4.15.23

तस्मात् परोक्षे ऽस्मद्उपश्रुतान्य् अलं करिष्यथ स्तोत्रम् अपीच्यवाचः । सत्य् उत्तमश्लोकगुणानुवादे जुगुप्सितं न स्तवयन्ति सभ्याः ॥ 23 ॥

श्लोक 4.15.24

महद्गुणान् आत्मनि कर्तुम् ईशः कः स्तावकैः स्तावयते ऽसतो ऽपि । ते ऽस्याभविष्यन्न् इति विप्रलब्धो जनावहासं कुमतिर् न वेद ॥ 24 ॥

श्लोक 4.15.25

प्रभवो ह्य् आत्मनः स्तोत्रंजुगुप्सन्त्य् अपि विश्रुताः । ह्रीमन्तः परमोदाराः पौरुषं वा विगर्हितम् ॥ 25 ॥

श्लोक 4.15.26

वयं त्व् अविदिता लोके सूताद्यापि वरीमभिः । कर्मभिः कथम् आत्मानं गापयिष्याम बालवत् ॥ 26 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ