मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत चतुर्थ स्कन्ध अध्याय 16

श्रीमद्भागवत चतुर्थ स्कन्ध अध्याय 16 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 4.16.1

इति ब्रुवाणं नृपतिं गायका मुनिचोदिताः । तुष्टुवुस् तुष्टमनसस् तद्वाग्अमृतसेवया ॥ 1 ॥

श्लोक 4.16.2

नालं वयं ते महिमानुवर्णने यो देववर्यो ऽवततार मायया । वेनाङ्गजातस्य च पौरुषाणि ते वाचस्पतीनाम् अपि बभ्रमुर् धियः ॥ 2 ॥

श्लोक 4.16.3

अथाप्य् उदारश्रवसः पृथोर् हरेः कलावतारस्य कथामृतादृताः । यथोपदेशं मुनिभिः प्रचोदिताः श्लाघ्यानि कर्माणि वयं वितन्महि ॥ 3 ॥

श्लोक 4.16.4

एष धर्मभृतां श्रेष्ठो लोकं धर्मे ऽनुवर्तयन् । गोप्ता च धर्मसेतूनां शास्ता तत्परिपन्थिनाम् ॥ 4 ॥

श्लोक 4.16.5

एष वै लोकपालानां बिभर्त्य् एकस् तनौ तनूः । काले काले यथाभागं लोकयोर् उभयोर् हितम् ॥ 5 ॥

श्लोक 4.16.6

वसु काल उपादत्ते काले चायं विमुञ्चति । समः सर्वेषु भूतेषु प्रतपन् सूर्यवद् विभुः ॥ 6 ॥

श्लोक 4.16.7

तितिक्षत्य् अक्रमं वैन्य उपर्य् आक्रमताम् अपि । भूतानां करुणः शश्वद् आर्तानां क्षितिवृत्तिमान् ॥ 7 ॥

श्लोक 4.16.8

देवे ऽवर्षत्य् असौ देवो नरदेववपुर् हरिः । कृच्छ्रप्राणाः प्रजा ह्य् एष रक्षिष्यत्य् अञ्जसेन्द्रवत् ॥ 8 ॥

श्लोक 4.16.9

आप्याययत्य् असौ लोकं वदनामृतमूर्तिना । सानुरागावलोकेन विशदस्मितचारुणा ॥ 9 ॥

श्लोक 4.16.10

अव्यक्तवर्त्मैष निगूढकार्यो गम्भीरवेधा उपगुप्तवित्तः । अनन्तमाहात्म्यगुणैकधामा पृथुः प्रचेता इव संवृतात्मा ॥ 10 ॥

श्लोक 4.16.11

दुरासदो दुर्विषह आसन्नो ऽपि विदूरवत् । नैवाभिभवितुं शक्यो वेनारण्य्उत्थितो ऽनलः ॥ 11 ॥

श्लोक 4.16.12

अन्तर् बहिश् च भूतानां पश्यन् कर्माणि चारणैः । उदासीन इवाध्यक्षो वायुर् आत्मेव देहिनाम् ॥ 12 ॥

श्लोक 4.16.13

नादण्ड्यं दण्डयत्य् एष सुतम् आत्मद्विषाम् अपि । दण्डयत्य् आत्मजम् अपि दण्ड्यं धर्मपथे स्थितः ॥ 13 ॥

श्लोक 4.16.14

अस्याप्रतिहतं चक्रं पृथोर् आमानसाचलात् । वर्तते भगवान् अर्को यावत् तपति गोगणैः ॥ 14 ॥

श्लोक 4.16.15

रञ्जयिष्यति यल् लोकम् अयम् आत्मविचेष्टितैः । अथामुम् आहू राजानं मनोरञ्जनकैः प्रजाः ॥ 15 ॥

श्लोक 4.16.16

दृढव्रतः सत्यसन्धो ब्रह्मण्यो वृद्धसेवकः । शरण्यः सर्वभूतानां मानदो दीनवत्सलः ॥ 16 ॥

श्लोक 4.16.17

मातृभक्तिः परस्त्रीषु पत्न्याम् अर्ध इवात्मनः । प्रजासु पितृवत् स्निग्धः किङ्करो ब्रह्मवादिनाम् ॥ 17 ॥

श्लोक 4.16.18

देहिनाम् आत्मवत्प्रेष्ठः सुहृदां नन्दिवर्धनः । मुक्तसङ्गप्रसङ्गो ऽयं दण्डपाणिर् असाधुषु ॥ 18 ॥

श्लोक 4.16.19

अयं तु साक्षाद् भगवांस् त्र्य्अधीशः कूटस्थ आत्मा कलयावतीर्णः । यस्मिन्न् अविद्यारचितं निरर्थकं पश्यन्ति नानात्वम् अपि प्रतीतम् ॥ 19 ॥

श्लोक 4.16.20

अयं भुवो मण्डलम् ओदयाद्रेर् गोप्तैकवीरो नरदेवनाथः । आस्थाय जैत्रं रथम् आत्तचापः पर्यस्यते दक्षिणतो यथार्कः ॥ 20 ॥

श्लोक 4.16.21

अस्मै नृपालाः किल तत्र तत्र बलिं हरिष्यन्ति सलोकपालाः । मंस्यन्त एषां स्त्रिय आदिराजं चक्रायुधं तद्यश उद्धरन्त्यः ॥ 21 ॥

श्लोक 4.16.22

अयं महीं गां दुदुहे ऽधिराजः प्रजापतिर् वृत्तिकरः प्रजानाम् । यो लीलयाद्रीन् स्वशरासकोट्या भिन्दन् समां गाम् अकरोद् यथेन्द्रः ॥ 22 ॥

श्लोक 4.16.23

विस्फूर्जयन्न् आजगवं धनुः स्वयं यदाचरत् क्ष्माम् अविषह्यम् आजौ । तदा निलिल्युर् दिशि दिश्य् असन्तो लाङ्गूलम् उद्यम्य यथा मृगेन्द्रः ॥ 23 ॥

श्लोक 4.16.24

एषो ऽश्वमेधाञ् शतम् आजहार सरस्वती प्रादुरभावि यत्र । अहार्षीद् यस्य हयं पुरन्दरः शतक्रतुश् चरमे वर्तमाने ॥ 24 ॥

श्लोक 4.16.25

एष स्वसद्मोपवने समेत्य सनत्कुमारं भगवन्तम् एकम् । आराध्य भक्त्यालभतामलं तज् ज्ञानं यतो ब्रह्म परं विदन्ति ॥ 25 ॥

श्लोक 4.16.26

तत्र तत्र गिरस् तास् ता इति विश्रुतविक्रमः । श्रोष्यत्य् आत्माश्रिता गाथाः पृथुः पृथुपराक्रमः ॥ 26 ॥

श्लोक 4.16.27

दिशो विजित्याप्रतिरुद्धचक्रः स्वतेजसोत्पाटितलोकशल्यः । सुरासुरेन्द्रैर् उपगीयमानमहानुभावो भविता पतिर् भुवः ॥ 27 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ