मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत चतुर्थ स्कन्ध अध्याय 17

श्रीमद्भागवत चतुर्थ स्कन्ध अध्याय 17 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 4.17.1

एवं स भगवान् वैन्यः ख्यापितो गुणकर्मभिः । छन्दयाम् आस तान् कामैः प्रतिपूज्याभिनन्द्य च ॥ 1 ॥

श्लोक 4.17.2

ब्राह्मणप्रमुखान् वर्णान् भृत्यामात्यपुरोधसः । पौरान् जानपदान् श्रेणीः प्रकृतीः समपूजयत् ॥ 2 ॥

श्लोक 4.17.3

कस्माद् दधार गोरूपं धरित्री बहुरूपिणी । यां दुदोह पृथुस् तत्र को वत्सो दोहनं च किम् ॥ 3 ॥

श्लोक 4.17.4

प्रकृत्या विषमा देवी कृता तेन समा कथम् । तस्य मेध्यं हयं देवः कस्य हेतोर् अपाहरत् ॥ 4 ॥

श्लोक 4.17.5

सनत्कुमाराद् भगवतो ब्रह्मन् ब्रह्मविद्उत्तमात् । लब्ध्वा ज्ञानं सविज्ञानं राजर्षिः कां गतिं गतः ॥ 5 ॥

श्लोक 4.17.6

यच् चान्यद् अपि कृष्णस्य भवान् भगवतः प्रभोः । श्रवः सुश्रवसः पुण्यं पूर्वदेहकथाश्रयम् ॥ 6 ॥

श्लोक 4.17.7

भक्ताय मे ऽनुरक्ताय तव चाधोक्षजस्य च । वक्तुम् अर्हसि यो ऽदुह्यद् वैन्यरूपेण गाम् इमाम् ॥ 7 ॥

श्लोक 4.17.8

चोदितो विदुरेणैवं वासुदेवकथां प्रति । प्रशस्य तं प्रीतमना मैत्रेयः प्रत्यभाषत ॥ 8 ॥

श्लोक 4.17.9

यदाभिषिक्तः पृथुर् अङ्ग विप्रैर् आमन्त्रितो जनतायाश् च पालः । प्रजा निरन्ने क्षितिपृष्ठ एत्य क्षुत्क्षामदेहाः पतिम् अभ्यवोचन् ॥ 9 ॥

श्लोक 4.17.10

वयं राजञ् जाठरेणाभितप्ता यथाग्निना कोटरस्थेन वृक्षाः । त्वाम् अद्य याताः शरणं शरण्यं यः साधितो वृत्तिकरः पतिर् नः ॥ 10 ॥

श्लोक 4.17.11

तन् नो भवान् ईहतु रातवे ऽन्नं क्षुधार्दितानां नरदेवदेव । यावन् न नङ्क्ष्यामह उज्झितोर्जा वार्तापतिस् त्वं किल लोकपालः ॥ 11 ॥

श्लोक 4.17.12

पृथुः प्रजानां करुणं निशम्य परिदेवितम् । दीर्घं दध्यौ कुरुश्रेष्ठ निमित्तं सो ऽन्वपद्यत ॥ 12 ॥

श्लोक 4.17.13

इति व्यवसितो बुद्ध्या प्रगृहीतशरासनः । सन्दधे विशिखं भूमेः क्रुद्धस् त्रिपुरहा यथा ॥ 13 ॥

श्लोक 4.17.14

प्रवेपमाना धरणी निशाम्योदायुधं च तम् । गौः सत्य् अपाद्रवद् भीता मृगीव मृगयुद्रुता ॥ 14 ॥

श्लोक 4.17.15

ताम् अन्वधावत् तद् वैन्यः कुपितो ऽत्यरुणेक्षणः । शरं धनुषि सन्धाय यत्र यत्र पलायते ॥ 15 ॥

श्लोक 4.17.16

सा दिशो विदिशो देवी रोदसी चान्तरं तयोः । धावन्ती तत्र तत्रैनं ददर्शानूद्यतायुधम् ॥ 16 ॥

श्लोक 4.17.17

लोके नाविन्दत त्राणं वैन्यान् मृत्योर् इव प्रजाः । त्रस्ता तदा निववृते हृदयेन विदूयता ॥ 17 ॥

श्लोक 4.17.18

उवाच च महाभागं धर्मज्ञापन्नवत्सल । त्राहि माम् अपि भूतानां पालने ऽवस्थितो भवान् ॥ 18 ॥

श्लोक 4.17.19

स त्वं जिघांससे कस्माद् दीनाम् अकृतकिल्बिषाम् । अहनिष्यत् कथं योषां धर्मज्ञ इति यो मतः ॥ 19 ॥

श्लोक 4.17.20

प्रहरन्ति न वै स्त्रीषु कृतागःस्व् अपि जन्तवः । किम् उत त्वद्विधा राजन् करुणा दीनवत्सलाः ॥ 20 ॥

श्लोक 4.17.21

मां विपाट्याजरां नावं यत्र विश्वं प्रतिष्ठितम् । आत्मानं च प्रजाश् चेमाः कथम् अम्भसि धास्यसि ॥ 21 ॥

श्लोक 4.17.22

वसुधे त्वां वधिष्यामि मच्छासनपराङ्मुखीम् । भागं बर्हिषि या वृङ्क्ते न तनोति च नो वसु ॥ 22 ॥

श्लोक 4.17.23

यवसं जग्ध्य् अनुदिनं नैव दोग्ध्य् औधसं पयः । तस्याम् एवं हि दुष्टायां दण्डो नात्र न शस्यते ॥ 23 ॥

श्लोक 4.17.24

त्वं खल्व् ओषधिबीजानि प्राक् सृष्टानि स्वयम्भुवा । न मुञ्चस्य् आत्मरुद्धानि माम् अवज्ञाय मन्दधीः ॥ 24 ॥

श्लोक 4.17.25

अमूषां क्षुत्परीतानाम् आर्तानां परिदेवितम् । शमयिष्यामि मद्बाणैर् भिन्नायास् तव मेदसा ॥ 25 ॥

श्लोक 4.17.26

पुमान् योषिद् उत क्लीब आत्मसम्भावनो ऽधमः । भूतेषु निरनुक्रोशो नृपाणां तद्वधो ऽवधः ॥ 26 ॥

श्लोक 4.17.27

त्वां स्तब्धां दुर्मदां नीत्वा मायागां तिलशः शरैः । आत्मयोगबलेनेमा धारयिष्याम्य् अहं प्रजाः ॥ 27 ॥

श्लोक 4.17.28

एवं मन्युमयीं मूर्तिं कृतान्तम् इव बिभ्रतम् । प्रणता प्राञ्जलिः प्राह मही सञ्जातवेपथुः ॥ 28 ॥

श्लोक 4.17.29

नमः परस्मै पुरुषाय मायया विन्यस्तनानातनवे गुणात्मने । नमः स्वरूपानुभवेन निर्धुतद्रव्यक्रियाकारकविभ्रमोर्मये ॥ 29 ॥

श्लोक 4.17.30

येनाहम् आत्मायतनं विनिर्मिता धात्रा यतो ऽयं गुणसर्गसङ्ग्रहः । स एव मां हन्तुम् उदायुधः स्वराड् उपस्थितो ऽन्यं शरणं कम् आश्रये ॥ 30 ॥

श्लोक 4.17.31

य एतद् आदाव् असृजच् चराचरं स्वमाययात्माश्रययावितर्क्यया । तयैव सो ऽयं किल गोप्तुम् उद्यतः कथं नु मां धर्मपरो जिघांसति ॥ 31 ॥

श्लोक 4.17.32

नूनं बतेशस्य समीहितं जनैस् तन्मायया दुर्जययाकृतात्मभिः । न लक्ष्यते यस् त्व् अकरोद् अकारयद् यो ऽनेक एकः परतश् च ईश्वरः ॥ 32 ॥

श्लोक 4.17.33

सर्गादि यो ऽस्यानुरुणद्धि शक्तिभिर् द्रव्यक्रियाकारकचेतनात्मभिः । तस्मै समुन्नद्धनिरुद्धशक्तये नमः परस्मै पुरुषाय वेधसे ॥ 33 ॥

श्लोक 4.17.34

स वै भवान् आत्मविनिर्मितं जगद् भूतेन्द्रियान्तःकरणात्मकं विभो । संस्थापयिष्यन्न् अज मां रसातलाद् अभ्युज्जहाराम्भस आदिसूकरः ॥ 34 ॥

श्लोक 4.17.35

अपाम् उपस्थे मयि नाव्य् अवस्थिताः प्रजा भवान् अद्य रिरक्षिषुः किल । स वीरमूर्तिः समभूद् धराधरो यो मां पयस्य् उग्रशरो जिघांससि ॥ 35 ॥

श्लोक 4.17.36

नूनं जनैर् ईहितम् ईश्वराणाम् अस्मद्विधैस् तद्गुणसर्गमायया । न ज्ञायते मोहितचित्तवर्त्मभिस् तेभ्यो नमो वीरयशस्करेभ्यः ॥ 36 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ