श्रीमद्भागवत चतुर्थ स्कन्ध अध्याय 18
श्रीमद्भागवत चतुर्थ स्कन्ध अध्याय 18 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 4.18.1
इत्थं पृथुम् अभिष्टूय रुषा प्रस्फुरिताधरम् । पुनर् आहावनिर् भीता संस्तभ्यात्मानम् आत्मना ॥ 1 ॥
श्लोक 4.18.2
सन्नियच्छाभिभो मन्युं निबोध श्रावितं च मे । सर्वतः सारम् आदत्ते यथा मधुकरो बुधः ॥ 2 ॥
श्लोक 4.18.3
अस्मिन् लोके ऽथवामुष्मिन् मुनिभिस् तत्त्वदर्शिभिः । दृष्टा योगाः प्रयुक्ताश् च पुंसां श्रेयःप्रसिद्धये ॥ 3 ॥
श्लोक 4.18.4
तान् आतिष्ठति यः सम्यग् उपायान् पूर्वदर्शितान् । अवरः श्रद्धयोपेत उपेयान् विन्दते ऽञ्जसा ॥ 4 ॥
श्लोक 4.18.5
तान् अनादृत्य यो ऽविद्वान् अर्थान् आरभते स्वयम् । तस्य व्यभिचरन्त्य् अर्था आरब्धाश् च पुनः पुनः ॥ 5 ॥
श्लोक 4.18.6
पुरा सृष्टा ह्य् ओषधयो ब्रह्मणा या विशाम्पते । भुज्यमाना मया दृष्टा असद्भिर् अधृतव्रतैः ॥ 6 ॥
श्लोक 4.18.7
अपालितानादृता च भवद्भिर् लोकपालकैः । चोरीभूते ऽथ लोके ऽहं यज्ञार्थे ऽग्रसम् ओषधीः ॥ 7 ॥
श्लोक 4.18.8
नूनं ता वीरुधः क्षीणा मयि कालेन भूयसा । तत्र योगेन दृष्टेन भवान् आदातुम् अर्हति ॥ 8 ॥
श्लोक 4.18.9
वत्सं कल्पय मे वीर येनाहं वत्सला तव । धोक्ष्ये क्षीरमयान् कामान् अनुरूपं च दोहनम् ॥ 9 ॥
श्लोक 4.18.10
दोग्धारं च महाबाहो भूतानां भूतभावन । अन्नम् ईप्सितम् ऊर्जस्वद् भगवान् वाञ्छते यदि ॥ 10 ॥
श्लोक 4.18.11
समां च कुरु मां राजन् देववृष्टं यथा पयः । अपर्ताव् अपि भद्रं ते उपावर्तेत मे विभो ॥ 11 ॥
श्लोक 4.18.12
इति प्रियं हितं वाक्यं भुव आदाय भूपतिः । वत्सं कृत्वा मनुं पाणाव् अदुहत् सकलौषधीः ॥ 12 ॥
श्लोक 4.18.13
तथापरे च सर्वत्र सारम् आददते बुधाः । ततो ऽन्ये च यथाकामं दुदुहुः पृथुभाविताम् ॥ 13 ॥
श्लोक 4.18.14
ऋषयो दुदुहुर् देवीम् इन्द्रियेष्व् अथ सत्तम । वत्सं बृहस्पतिं कृत्वा पयश् छन्दोमयं शुचि ॥ 14 ॥
श्लोक 4.18.15
कृत्वा वत्सं सुरगणा इन्द्रं सोमम् अदूदुहन् । हिरण्मयेन पात्रेण वीर्यम् ओजो बलं पयः ॥ 15 ॥
श्लोक 4.18.16
दैतेया दानवा वत्सं प्रह्लादम् असुरर्षभम् । विधायादूदुहन् क्षीरम् अयःपात्रे सुरासवम् ॥ 16 ॥
श्लोक 4.18.17
गन्धर्वाप्सरसो ऽधुक्षन् पात्रे पद्ममये पयः । वत्सं विश्वावसुं कृत्वा गान्धर्वं मधु सौभगम् ॥ 17 ॥
श्लोक 4.18.18
वत्सेन पितरो ऽर्यम्णा कव्यं क्षीरम् अधुक्षत । आमपात्रे महाभागाः श्रद्धया श्राद्धदेवताः ॥ 18 ॥
श्लोक 4.18.19
प्रकल्प्य वत्सं कपिलं सिद्धाः सङ्कल्पनामयीम् । सिद्धिं नभसि विद्यां च ये च विद्याधरादयः ॥ 19 ॥
श्लोक 4.18.20
अन्ये च मायिनो मायाम् अन्तर्धानाद्भुतात्मनाम् । मयं प्रकल्प्य वत्सं ते दुदुहुर् धारणामयीम् ॥ 20 ॥
श्लोक 4.18.21
यक्षरक्षांसि भूतानि पिशाचाः पिशिताशनाः । भूतेशवत्सा दुदुहुः कपाले क्षतजासवम् ॥ 21 ॥
श्लोक 4.18.22
तथाहयो दन्दशूकाः सर्पा नागाश् च तक्षकम् । विधाय वत्सं दुदुहुर् बिलपात्रे विषं पयः ॥ 22 ॥
श्लोक 4.18.23
पशवो यवसं क्षीरं वत्सं कृत्वा च गोवृषम् । अरण्यपात्रे चाधुक्षन् मृगेन्द्रेण च दंष्ट्रिणः ॥ 23 ॥
श्लोक 4.18.24
क्रव्यादाः प्राणिनः क्रव्यं दुदुहुः स्वे कलेवरे । सुपर्णवत्सा विहगाश् चरं चाचरम् एव च ॥ 24 ॥
श्लोक 4.18.25
वटवत्सा वनस्पतयः पृथग् रसमयं पयः । गिरयो हिमवद्वत्सा नानाधातून् स्वसानुषु ॥ 25 ॥
श्लोक 4.18.26
सर्वे स्वमुख्यवत्सेन स्वे स्वे पात्रे पृथक् पयः । सर्वकामदुघां पृथ्वीं दुदुहुः पृथुभाविताम् ॥ 26 ॥
श्लोक 4.18.27
एवं पृथ्व्आदयः पृथ्वीम् अन्नादाः स्वन्नम् आत्मनः । दोहवत्सादिभेदेन क्षीरभेदं कुरूद्वह ॥ 27 ॥
श्लोक 4.18.28
ततो महीपतिः प्रीतः सर्वकामदुघां पृथुः । दुहितृत्वे चकारेमां प्रेम्णा दुहितृवत्सलः ॥ 28 ॥
श्लोक 4.18.29
चूर्णयन् स्वधनुष्कोट्या गिरिकूटानि राजराट् । भूमण्डलम् इदं वैन्यः प्रायश् चक्रे समं विभुः ॥ 29 ॥
श्लोक 4.18.30
अथास्मिन् भगवान् वैन्यः प्रजानां वृत्तिदः पिता । निवासान् कल्पयां चक्रे तत्र तत्र यथार्हतः ॥ 30 ॥
श्लोक 4.18.31
ग्रामान् पुरः पत्तनानि दुर्गाणि विविधानि च । घोषान् व्रजान् सशिबिरान् आकरान् खेटखर्वटान् ॥ 31 ॥
श्लोक 4.18.32
प्राक् पृथोर् इह नैवैषा पुरग्रामादिकल्पना । यथासुखं वसन्ति स्म तत्र तत्राकुतोभयाः ॥ 32 ॥