श्रीमद्भागवत चतुर्थ स्कन्ध अध्याय 19
श्रीमद्भागवत चतुर्थ स्कन्ध अध्याय 19 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 4.19.1
अथादीक्षत राजा तु हयमेधशतेन सः । ब्रह्मावर्ते मनोः क्षेत्रे यत्र प्राची सरस्वती ॥ 1 ॥
श्लोक 4.19.2
तद् अभिप्रेत्य भगवान् कर्मातिशयम् आत्मनः । शतक्रतुर् न ममृषे पृथोर् यज्ञमहोत्सवम् ॥ 2 ॥
श्लोक 4.19.3
यत्र यज्ञपतिः साक्षाद् भगवान् हरिर् ईश्वरः । अन्वभूयत सर्वात्मा सर्वलोकगुरुः प्रभुः ॥ 3 ॥
श्लोक 4.19.4
अन्वितो ब्रह्मशर्वाभ्यां लोकपालैः सहानुगैः । उपगीयमानो गन्धर्वैर् मुनिभिश् चाप्सरोगणैः ॥ 4 ॥
श्लोक 4.19.5
सिद्धा विद्याधरा दैत्या दानवा गुह्यकादयः । सुनन्दनन्दप्रमुखाः पार्षदप्रवरा हरेः ॥ 5 ॥
श्लोक 4.19.6
कपिलो नारदो दत्तो योगेशाः सनकादयः । तम् अन्वीयुर् भागवता ये च तत्सेवनोत्सुकाः ॥ 6 ॥
श्लोक 4.19.7
यत्र धर्मदुघा भूमिः सर्वकामदुघा सती । दोग्धि स्माभीप्सितान् अर्थान् यजमानस्य भारत ॥ 7 ॥
श्लोक 4.19.8
ऊहुः सर्वरसान् नद्यः क्षीरदध्य्अन्नगोरसान् । तरवो भूरिवर्ष्माणः प्रासूयन्त मधुच्युतः ॥ 8 ॥
श्लोक 4.19.9
सिन्धवो रत्ननिकरान् गिरयो ऽन्नं चतुर्विधम् । उपायनम् उपाजह्रुः सर्वे लोकाः सपालकाः ॥ 9 ॥
श्लोक 4.19.10
इति चाधोक्षजेशस्य पृथोस् तु परमोदयम् । असूयन् भगवान् इन्द्रः प्रतिघातम् अचीकरत् ॥ 10 ॥
श्लोक 4.19.11
चरमेणाश्वमेधेन यजमाने यजुष्पतिम् । वैन्ये यज्ञपशुं स्पर्धन्न् अपोवाह तिरोहितः ॥ 11 ॥
श्लोक 4.19.12
तम् अत्रिर् भगवान् ऐक्षत् त्वरमाणं विहायसा । आमुक्तम् इव पाखण्डं यो ऽधर्मे धर्मविभ्रमः ॥ 12 ॥
श्लोक 4.19.13
अत्रिणा चोदितो हन्तुं पृथुपुत्रो महारथः । अन्वधावत सङ्क्रुद्धस् तिष्ठ तिष्ठेति चाब्रवीत् ॥ 13 ॥
श्लोक 4.19.14
तं तादृशाकृतिं वीक्ष्य मेने धर्मं शरीरिणम् । जटिलं भस्मनाच्छन्नं तस्मै बाणं न मुञ्चति ॥ 14 ॥
श्लोक 4.19.15
वधान् निवृत्तं तं भूयो हन्तवे ऽत्रिर् अचोदयत् । जहि यज्ञहनं तात महेन्द्रं विबुधाधमम् ॥ 15 ॥
श्लोक 4.19.16
एवं वैन्यसुतः प्रोक्तस् त्वरमाणं विहायसा । अन्वद्रवद् अभिक्रुद्धो रावणं गृध्रराड् इव ॥ 16 ॥
श्लोक 4.19.17
सो ऽश्वं रूपं च तद् धित्वा तस्मा अन्तर्हितः स्वराट् । वीरः स्वपशुम् आदाय पितुर् यज्ञम् उपेयिवान् ॥ 17 ॥
श्लोक 4.19.18
तत् तस्य चाद्भुतं कर्म विचक्ष्य परमर्षयः । नामधेयं ददुस् तस्मै विजिताश्व इति प्रभो ॥ 18 ॥
श्लोक 4.19.19
उपसृज्य तमस् तीव्रं जहाराश्वं पुनर् हरिः । चषालयूपतश् छन्नो हिरण्यरशनं विभुः ॥ 19 ॥
श्लोक 4.19.20
अत्रिः सन्दर्शयाम् आस त्वरमाणं विहायसा । कपालखट्वाङ्गधरं वीरो नैनम् अबाधत ॥ 20 ॥
श्लोक 4.19.21
अत्रिणा चोदितस् तस्मै सन्दधे विशिखं रुषा । सो ऽश्वं रूपं च तद् धित्वा तस्थाव् अन्तर्हितः स्वराट् ॥ 21 ॥
श्लोक 4.19.22
वीरश् चाश्वम् उपादाय पितृयज्ञम् अथाव्रजत् । तद् अवद्यं हरे रूपं जगृहुर् ज्ञानदुर्बलाः ॥ 22 ॥
श्लोक 4.19.23
यानि रूपाणि जगृहे इन्द्रो हयजिहीर्षया । तानि पापस्य खण्डानि लिङ्गं खण्डम् इहोच्यते ॥ 23 ॥
श्लोक 4.19.24
एवम् इन्द्रे हरत्य् अश्वं वैन्ययज्ञजिघांसया । तद्गृहीतविसृष्टेषु पाखण्डेषु मतिर् नृणाम् ॥ 24 ॥
श्लोक 4.19.25
धर्म इत्य् उपधर्मेषु नग्नरक्तपटादिषु । प्रायेण सज्जते भ्रान्त्या पेशलेषु च वाग्मिषु ॥ 25 ॥
श्लोक 4.19.26
तद् अभिज्ञाय भगवान् पृथुः पृथुपराक्रमः । इन्द्राय कुपितो बाणम् आदत्तोद्यतकार्मुकः ॥ 26 ॥
श्लोक 4.19.27
तम् ऋत्विजः शक्रवधाभिसन्धितं विचक्ष्य दुष्प्रेक्ष्यम् असह्यरंहसम् । निवारयाम् आसुर् अहो महामते न युज्यते ऽत्रान्यवधः प्रचोदितात् ॥ 27 ॥
श्लोक 4.19.28
वयं मरुत्वन्तम् इहार्थनाशनं ह्वयामहे त्वच्छ्रवसा हतत्विषम् । अयातयामोपहवैर् अनन्तरं प्रसह्य राजन् जुहवाम ते ऽहितम् ॥ 28 ॥
श्लोक 4.19.29
इत्य् आमन्त्र्य क्रतुपतिं विदुरास्यर्त्विजो रुषा । स्रुग्घस्तान् जुह्वतो ऽभ्येत्य स्वयम्भूः प्रत्यषेधत ॥ 29 ॥
श्लोक 4.19.30
न वध्यो भवताम् इन्द्रो यद् यज्ञो भगवत्तनुः । यं जिघांसथ यज्ञेन यस्येष्टास् तनवः सुराः ॥ 30 ॥
श्लोक 4.19.31
तद् इदं पश्यत महद्धर्मव्यतिकरं द्विजाः । इन्द्रेणानुष्ठितं राज्ञः कर्मैतद् विजिघांसता ॥ 31 ॥
श्लोक 4.19.32
पृथुकीर्तेः पृथोर् भूयात् तर्ह्य् एकोनशतक्रतुः । अलं ते क्रतुभिः स्विष्टैर् यद् भवान् मोक्षधर्मवित् ॥ 32 ॥
श्लोक 4.19.33
नैवात्मने महेन्द्राय रोषम् आहर्तुम् अर्हसि । उभाव् अपि हि भद्रं ते उत्तमश्लोकविग्रहौ ॥ 33 ॥
श्लोक 4.19.34
मास्मिन् महाराज कृथाः स्म चिन्तां निशामयास्मद्वच आदृतात्मा । यद् ध्यायतो दैवहतं नु कर्तुं मनो ऽतिरुष्टं विशते तमो ऽन्धम् ॥ 34 ॥
श्लोक 4.19.35
क्रतुर् विरमताम् एष देवेषु दुरवग्रहः । धर्मव्यतिकरो यत्र पाखण्डैर् इन्द्रनिर्मितैः ॥ 35 ॥
श्लोक 4.19.36
एभिर् इन्द्रोपसंसृष्टैः पाखण्डैर् हारिभिर् जनम् । ह्रियमाणं विचक्ष्वैनं यस् ते यज्ञध्रुग् अश्वमुट् ॥ 36 ॥
श्लोक 4.19.37
भवान् परित्रातुम् इहावतीर्णो धर्मं जनानां समयानुरूपम् । वेनापचाराद् अवलुप्तम् अद्य तद्देहतो विष्णुकलासि वैन्य ॥ 37 ॥
श्लोक 4.19.38
स त्वं विमृश्यास्य भवं प्रजापते सङ्कल्पनं विश्वसृजां पिपीपृहि । ऐन्द्रीं च मायाम् उपधर्ममातरं प्रचण्डपाखण्डपथं प्रभो जहि ॥ 38 ॥
श्लोक 4.19.39
इत्थं स लोकगुरुणा समादिष्टो विशाम्पतिः । तथा च कृत्वा वात्सल्यं मघोनापि च सन्दधे ॥ 39 ॥
श्लोक 4.19.40
कृतावभृथस्नानाय पृथवे भूरिकर्मणे । वरान् ददुस् ते वरदा ये तद्बर्हिषि तर्पिताः ॥ 40 ॥
श्लोक 4.19.41
विप्राः सत्याशिषस् तुष्टाः श्रद्धया लब्धदक्षिणाः । आशिषो युयुजुः क्षत्तर् आदिराजाय सत्कृताः ॥ 41 ॥
श्लोक 4.19.42
त्वयाहूता महाबाहो सर्व एव समागताः । पूजिता दानमानाभ्यां पितृदेवर्षिमानवाः ॥ 42 ॥