श्रीमद्भागवत चतुर्थ स्कन्ध अध्याय 20
श्रीमद्भागवत चतुर्थ स्कन्ध अध्याय 20 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 4.20.1
भगवान् अपि वैकुण्ठः साकं मघवता विभुः । यज्ञैर् यज्ञपतिस् तुष्टो यज्ञभुक् तम् अभाषत ॥ 1 ॥
श्लोक 4.20.2
एष ते ऽकार्षीद् भङ्गं हयमेधशतस्य ह । क्षमापयत आत्मानम् अमुष्य क्षन्तुम् अर्हसि ॥ 2 ॥
श्लोक 4.20.3
सुधियः साधवो लोके नरदेव नरोत्तमाः । नाभिद्रुह्यन्ति भूतेभ्यो यर्हि नात्मा कलेवरम् ॥ 3 ॥
श्लोक 4.20.4
पुरुषा यदि मुह्यन्ति त्वादृशा देवमायया । श्रम एव परं जातो दीर्घया वृद्धसेवया ॥ 4 ॥
श्लोक 4.20.5
अतः कायम् इमं विद्वान् अविद्याकामकर्मभिः । आरब्ध इति नैवास्मिन् प्रतिबुद्धो ऽनुषज्जते ॥ 5 ॥
श्लोक 4.20.6
असंसक्तः शरीरे ऽस्मिन्न् अमुनोत्पादिते गृहे । अपत्ये द्रविणे वापि कः कुर्यान् ममतां बुधः ॥ 6 ॥
श्लोक 4.20.7
एकः शुद्धः स्वयंज्योतिर् निर्गुणो ऽसौ गुणाश्रयः । सर्वगो ऽनावृतः साक्षी निरात्मात्मात्मनः परः ॥ 7 ॥
श्लोक 4.20.8
य एवं सन्तम् आत्मानम् आत्मस्थं वेद पूरुषः । नाज्यते प्रकृतिस्थो ऽपि तद्गुणैः स मयि स्थितः ॥ 8 ॥
श्लोक 4.20.9
यः स्वधर्मेण मां नित्यं निराशीः श्रद्धयान्वितः । भजते शनकैस् तस्य मनो राजन् प्रसीदति ॥ 9 ॥
श्लोक 4.20.10
परित्यक्तगुणः सम्यग् दर्शनो विशदाशयः । शान्तिं मे समवस्थानं ब्रह्म कैवल्यम् अश्नुते ॥ 10 ॥
श्लोक 4.20.11
उदासीनम् इवाध्यक्षं द्रव्यज्ञानक्रियात्मनाम् । कूटस्थम् इमम् आत्मानं यो वेदाप्नोति शोभनम् ॥ 11 ॥
श्लोक 4.20.12
भिन्नस्य लिङ्गस्य गुणप्रवाहो द्रव्यक्रियाकारकचेतनात्मनः । दृष्टासु सम्पत्सु विपत्सु सूरयो न विक्रियन्ते मयि बद्धसौहृदाः ॥ 12 ॥
श्लोक 4.20.13
समः समानोत्तममध्यमाधमः सुखे च दुःखे च जितेन्द्रियाशयः । मयोपकॢप्ताखिललोकसंयुतो विधत्स्व वीराखिललोकरक्षणम् ॥ 13 ॥
श्लोक 4.20.14
श्रेयः प्रजापालनम् एव राज्ञो यत् साम्पराये सुकृतात् षष्ठम् अंशम् । हर्तान्यथा हृतपुण्यः प्रजानाम् अरक्षिता करहारो ऽघम् अत्ति ॥ 14 ॥
श्लोक 4.20.15
एवं द्विजाग्र्यानुमतानुवृत्तधर्मप्रधानो ऽन्यतमो ऽवितास्याः । ह्रस्वेन कालेन गृहोपयातान् द्रष्टासि सिद्धान् अनुरक्तलोकः ॥ 15 ॥
श्लोक 4.20.16
वरं च मत् कञ्चन मानवेन्द्र वृणीष्व ते ऽहं गुणशीलयन्त्रितः । नाहं मखैर् वै सुलभस् तपोभिर् योगेन वा यत् समचित्तवर्ती ॥ 16 ॥
श्लोक 4.20.17
स इत्थं लोकगुरुणा विष्वक्सेनेन विश्वजित् । अनुशासित आदेशं शिरसा जगृहे हरेः ॥ 17 ॥
श्लोक 4.20.18
स्पृशन्तं पादयोः प्रेम्णा व्रीडितं स्वेन कर्मणा । शतक्रतुं परिष्वज्य विद्वेषं विससर्ज ह ॥ 18 ॥
श्लोक 4.20.19
भगवान् अथ विश्वात्मा पृथुनोपहृतार्हणः । समुज्जिहानया भक्त्या गृहीतचरणाम्बुजः ॥ 19 ॥
श्लोक 4.20.20
प्रस्थानाभिमुखो ऽप्य् एनम् अनुग्रहविलम्बितः । पश्यन् पद्मपलाशाक्षो न प्रतस्थे सुहृत् सताम् ॥ 20 ॥
श्लोक 4.20.21
स आदिराजो रचिताञ्जलिर् हरिं विलोकितुं नाशकद् अश्रुलोचनः । न किञ्चनोवाच स बाष्पविक्लवो हृदोपगुह्यामुम् अधाद् अवस्थितः ॥ 21 ॥
श्लोक 4.20.22
अथावमृज्याश्रुकला विलोकयन्न् अतृप्तदृग्गोचरम् आह पूरुषम् । पदा स्पृशन्तं क्षितिम् अंस उन्नते विन्यस्तहस्ताग्रम् उरङ्गविद्विषः ॥ 22 ॥
श्लोक 4.20.23
वरान् विभो त्वद् वरदेश्वराद् बुधः कथं वृणीते गुणविक्रियात्मनाम् । ये नारकाणाम् अपि सन्ति देहिनां तान् ईश कैवल्यपते वृणे न च ॥ 23 ॥
श्लोक 4.20.24
न कामये नाथ तद् अप्य् अहं क्वचिन् न यत्र युष्मच्चरणाम्बुजासवः । महत्तमान्तर्हृदयान् मुखच्युतो विधत्स्व कर्णायुतम् एष मे वरः ॥ 24 ॥
श्लोक 4.20.25
स उत्तमश्लोक महन्मुखच्युतो भवत्पदाम्भोजसुधा कणानिलः । स्मृतिं पुनर् विस्मृततत्त्ववर्त्मनां कुयोगिनां नो वितरत्य् अलं वरैः ॥ 25 ॥
श्लोक 4.20.26
यशः शिवं सुश्रव आर्यसङ्गमे यदृच्छया चोपशृणोति ते सकृत् । कथं गुणज्ञो विरमेद् विना पशुं श्रीर् यत् प्रवव्रे गुणसङ्ग्रहेच्छया ॥ 26 ॥
श्लोक 4.20.27
अथाभजे त्वाखिलपूरुषोत्तमं गुणालयं पद्मकरेव लालसः । अप्य् आवयोर् एकपतिस्पृधोः कलिर् न स्यात् कृतत्वच्चरणैकतानयोः ॥ 27 ॥
श्लोक 4.20.28
जगज्जनन्यां जगद्ईश वैशसं स्याद् एव यत्कर्मणि नः समीहितम् । करोषि फल्ग्व् अप्य् उरु दीनवत्सलः स्व एव धिष्ण्ये ऽभिरतस्य किं तया ॥ 28 ॥
श्लोक 4.20.29
भजन्त्य् अथ त्वाम् अत एव साधवो व्युदस्तमायागुणविभ्रमोदयम् । भवत्पदानुस्मरणाद् ऋते सतां निमित्तम् अन्यद् भगवन् न विद्महे ॥ 29 ॥
श्लोक 4.20.30
मन्ये गिरं ते जगतां विमोहिनीं वरं वृणीष्वेति भजन्तम् आत्थ यत् । वाचा नु तन्त्या यदि ते जनो ऽसितः कथं पुनः कर्म करोति मोहितः ॥ 30 ॥
श्लोक 4.20.31
त्वन्माययाद्धा जन ईश खण्डितो यद् अन्यद् आशास्त ऋतात्मनो ऽबुधः । यथा चरेद् बालहितं पिता स्वयं तथा त्वम् एवार्हसि नः समीहितुम् ॥ 31 ॥
श्लोक 4.20.32
इत्य् आदिराजेन नुतः स विश्वदृक् तम् आह राजन् मयि भक्तिर् अस्तु ते । दिष्ट्येदृशी धीर् मयि ते कृता यया मायां मदीयां तरति स्म दुस्त्यजाम् ॥ 32 ॥
श्लोक 4.20.33
तत् त्वं कुरु मयादिष्टम् अप्रमत्तः प्रजापते । मद्आदेशकरो लोकः सर्वत्राप्नोति शोभनम् ॥ 33 ॥
श्लोक 4.20.34
इति वैन्यस्य राजर्षेः प्रतिनन्द्यार्थवद् वचः । पूजितो ऽनुगृहीत्वैनं गन्तुं चक्रे ऽच्युतो मतिम् ॥ 34 ॥
श्लोक 4.20.35
देवर्षिपितृगन्धर्वसिद्धचारणपन्नगाः । किन्नराप्सरसो मर्त्याः खगा भूतान्य् अनेकशः ॥ 35 ॥
श्लोक 4.20.36
यज्ञेश्वरधिया राज्ञा वाग्वित्ताञ्जलिभक्तितः । सभाजिता ययुः सर्वे वैकुण्ठानुगतास् ततः ॥ 36 ॥
श्लोक 4.20.37
भगवान् अपि राजर्षेः सोपाध्यायस्य चाच्युतः । हरन्न् इव मनो ऽमुष्य स्वधाम प्रत्यपद्यत ॥ 37 ॥
श्लोक 4.20.38
अदृष्टाय नमस्कृत्य नृपः सन्दर्शितात्मने । अव्यक्ताय च देवानां देवाय स्वपुरं ययौ ॥ 38 ॥