श्रीमद्भागवत चतुर्थ स्कन्ध अध्याय 21
श्रीमद्भागवत चतुर्थ स्कन्ध अध्याय 21 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 4.21.1
मौक्तिकैः कुसुमस्रग्भिर् दुकूलैः स्वर्णतोरणैः । महासुरभिभिर् धूपैर् मण्डितं तत्र तत्र वै ॥ 1 ॥
श्लोक 4.21.2
चन्दनागुरुतोयार्द्ररथ्याचत्वरमार्गवत् । पुष्पाक्षतफलैस् तोक्मैर् लाजैर् अर्चिर्भिर् अर्चितम् ॥ 2 ॥
श्लोक 4.21.3
सवृन्दैः कदलीस्तम्भैः पूगपोतैः परिष्कृतम् । तरुपल्लवमालाभिः सर्वतः समलङ्कृतम् ॥ 3 ॥
श्लोक 4.21.4
प्रजास् तं दीपबलिभिः सम्भृताशेषमङ्गलैः । अभीयुर् मृष्टकन्याश् च मृष्टकुण्डलमण्डिताः ॥ 4 ॥
श्लोक 4.21.5
शङ्खदुन्दुभिघोषेण ब्रह्मघोषेण चर्त्विजाम् । विवेश भवनं वीरः स्तूयमानो गतस्मयः ॥ 5 ॥
श्लोक 4.21.6
पूजितः पूजयाम् आस तत्र तत्र महायशाः । पौराञ् जानपदांस् तांस् तान् प्रीतः प्रियवरप्रदः ॥ 6 ॥
श्लोक 4.21.7
स एवम् आदीन्य् अनवद्यचेष्टितः कर्माणि भूयांसि महान् महत्तमः । कुर्वन् शशासावनिमण्डलं यशः स्फीतं निधायारुरुहे परं पदम् ॥ 7 ॥
श्लोक 4.21.8
तद् आदिराजस्य यशो विजृम्भितं गुणैर् अशेषैर् गुणवत्सभाजितम् । क्षत्ता महाभागवतः सदस्पते कौषारविं प्राह गृणन्तम् अर्चयन् ॥ 8 ॥
श्लोक 4.21.9
सो ऽभिषिक्तः पृथुर् विप्रैर् लब्धाशेषसुरार्हणः । बिभ्रत् स वैष्णवं तेजो बाह्वोर् याभ्यां दुदोह गाम् ॥ 9 ॥
श्लोक 4.21.10
को न्व् अस्य कीर्तिं न शृणोत्य् अभिज्ञो यद्विक्रमोच्छिष्टम् अशेषभूपाः । लोकाः सपाला उपजीवन्ति कामम् अद्यापि तन् मे वद कर्म शुद्धम् ॥ 10 ॥
श्लोक 4.21.11
गङ्गायमुनयोर् नद्योर् अन्तरा क्षेत्रम् आवसन् । आरब्धान् एव बुभुजे भोगान् पुण्यजिहासया ॥ 11 ॥
श्लोक 4.21.12
सर्वत्रास्खलितादेशः सप्तद्वीपैकदण्डधृक् । अन्यत्र ब्राह्मणकुलाद् अन्यत्राच्युतगोत्रतः ॥ 12 ॥
श्लोक 4.21.13
एकदासीन् महासत्रदीक्षा तत्र दिवौकसाम् । समाजो ब्रह्मर्षीणां च राजर्षीणां च सत्तम ॥ 13 ॥
श्लोक 4.21.14
तस्मिन्न् अर्हत्सु सर्वेषु स्व्अर्चितेषु यथार्हतः । उत्थितः सदसो मध्ये ताराणाम् उडुराड् इव ॥ 14 ॥
श्लोक 4.21.15
प्रांशुः पीनायतभुजो गौरः कञ्जारुणेक्षणः । सुनासः सुमुखः सौम्यः पीनांसः सुद्विजस्मितः ॥ 15 ॥
श्लोक 4.21.16
व्यूढवक्षा बृहच्छ्रोणिर् वलिवल्गुदलोदरः । आवर्तनाभिर् ओजस्वी काञ्चनोरुर् उदग्रपात् ॥ 16 ॥
श्लोक 4.21.17
सूक्ष्मवक्रासितस्निग्धमूर्धजः कम्बुकन्धरः । महाधने दुकूलाग्र्ये परिधायोपवीय च ॥ 17 ॥
श्लोक 4.21.18
व्यञ्जिताशेषगात्रश्रीर् नियमे न्यस्तभूषणः । कृष्णाजिनधरः श्रीमान् कुशपाणिः कृतोचितः ॥ 18 ॥
श्लोक 4.21.19
शिशिरस्निग्धताराक्षः समैक्षत समन्ततः । ऊचिवान् इदम् उर्वीशः सदः संहर्षयन्न् इव ॥ 19 ॥
श्लोक 4.21.20
चारु चित्रपदं श्लक्ष्णं मृष्टं गूढम् अविक्लवम् । सर्वेषाम् उपकारार्थं तदा अनुवदन्न् इव ॥ 20 ॥
श्लोक 4.21.21
सभ्याः शृणुत भद्रं वः साधवो य इहागताः । सत्सु जिज्ञासुभिर् धर्मम् आवेद्यं स्वमनीषितम् ॥ 21 ॥
श्लोक 4.21.22
अहं दण्डधरो राजा प्रजानाम् इह योजितः । रक्षिता वृत्तिदः स्वेषु सेतुषु स्थापिता पृथक् ॥ 22 ॥
श्लोक 4.21.23
तस्य मे तद्अनुष्ठानाद् यान् आहुर् ब्रह्मवादिनः । लोकाः स्युः कामसन्दोहा यस्य तुष्यति दिष्टदृक् ॥ 23 ॥
श्लोक 4.21.24
य उद्धरेत् करं राजा प्रजा धर्मेष्व् अशिक्षयन् । प्रजानां शमलं भुङ्क्ते भगं च स्वं जहाति सः ॥ 24 ॥
श्लोक 4.21.25
तत् प्रजा भर्तृपिण्डार्थं स्वार्थम् एवानसूयवः । कुरुताधोक्षजधियस् तर्हि मे ऽनुग्रहः कृतः ॥ 25 ॥
श्लोक 4.21.26
यूयं तद् अनुमोदध्वं पितृदेवर्षयो ऽमलाः । कर्तुः शास्तुर् अनुज्ञातुस् तुल्यं यत् प्रेत्य तत् फलम् ॥ 26 ॥
श्लोक 4.21.27
अस्ति यज्ञपतिर् नाम केषाञ्चिद् अर्हसत्तमाः । इहामुत्र च लक्ष्यन्ते ज्योत्स्नावत्यः क्वचिद् भुवः ॥ 27 ॥
श्लोक 4.21.28
मनोर् उत्तानपादस्य ध्रुवस्यापि महीपतेः । प्रियव्रतस्य राजर्षेर् अङ्गस्यास्मत्पितुः पितुः ॥ 28 ॥
श्लोक 4.21.29
ईदृशानाम् अथान्येषाम् अजस्य च भवस्य च । प्रह्लादस्य बलेश् चापि कृत्यम् अस्ति गदाभृता ॥ 29 ॥
श्लोक 4.21.30
दौहित्रादीन् ऋते मृत्योः शोच्यान् धर्मविमोहितान् । वर्गस्वर्गापवर्गाणां प्रायेणैकात्म्यहेतुना ॥ 30 ॥
श्लोक 4.21.31
यत्पादसेवाभिरुचिस् तपस्विनाम् अशेषजन्मोपचितं मलं धियः । सद्यः क्षिणोत्य् अन्वहम् एधती सती यथा पदाङ्गुष्ठविनिःसृता सरित् ॥ 31 ॥
श्लोक 4.21.32
विनिर्धुताशेषमनोमलः पुमान् असङ्गविज्ञानविशेषवीर्यवान् । यद्अङ्घ्रिमूले कृतकेतनः पुनर् न संसृतिं क्लेशवहां प्रपद्यते ॥ 32 ॥
श्लोक 4.21.33
तम् एव यूयं भजतात्मवृत्तिभिर् मनोवचःकायगुणैः स्वकर्मभिः । अमायिनः कामदुघाङ्घ्रिपङ्कजं यथाधिकारावसितार्थसिद्धयः ॥ 33 ॥
श्लोक 4.21.34
असाव् इहानेकगुणो ऽगुणो ऽध्वरः पृथग्विधद्रव्यगुणक्रियोक्तिभिः । सम्पद्यते ऽर्थाशयलिङ्गनामभिर् विशुद्धविज्ञानघनः स्वरूपतः ॥ 34 ॥
श्लोक 4.21.35
प्रधानकालाशयधर्मसङ्ग्रहे शरीर एष प्रतिपद्य चेतनाम् । क्रियाफलत्वेन विभुर् विभाव्यते यथानलो दारुषु तद्गुणात्मकः ॥ 35 ॥
श्लोक 4.21.36
अहो ममामी वितरन्त्य् अनुग्रहं हरिं गुरुं यज्ञभुजाम् अधीश्वरम् । स्वधर्मयोगेन यजन्ति मामका निरन्तरं क्षोणितले दृढव्रताः ॥ 36 ॥
श्लोक 4.21.37
मा जातु तेजः प्रभवेन् महर्द्धिभिस् तितिक्षया तपसा विद्यया च । देदीप्यमाने ऽजितदेवतानां कुले स्वयं राजकुलाद् द्विजानाम् ॥ 37 ॥
श्लोक 4.21.38
ब्रह्मण्यदेवः पुरुषः पुरातनो नित्यं हरिर् यच्चरणाभिवन्दनात् । अवाप लक्ष्मीम् अनपायिनीं यशो जगत्पवित्रं च महत्तमाग्रणीः ॥ 38 ॥
श्लोक 4.21.39
यत्सेवयाशेषगुहाशयः स्वराड् विप्रप्रियस् तुष्यति कामम् ईश्वरः । तद् एव तद्धर्मपरैर् विनीतैः सर्वात्मना ब्रह्मकुलं निषेव्यताम् ॥ 39 ॥
श्लोक 4.21.40
पुमान् लभेतानतिवेलम् आत्मनः प्रसीदतो ऽत्यन्तशमं स्वतः स्वयम् । यन्नित्यसम्बन्धनिषेवया ततः परं किम् अत्रास्ति मुखं हविर्भुजाम् ॥ 40 ॥
श्लोक 4.21.41
अश्नात्य् अनन्तः खलु तत्त्वकोविदैः श्रद्धाहुतं यन्मुख इज्यनामभिः । न वै तथा चेतनया बहिष्कृते हुताशने पारमहंस्यपर्यगुः ॥ 41 ॥
श्लोक 4.21.42
यद् ब्रह्म नित्यं विरजं सनातनं श्रद्धातपोमङ्गलमौनसंयमैः । समाधिना बिभ्रति हार्थदृष्टये यत्रेदम् आदर्श इवावभासते ॥ 42 ॥
श्लोक 4.21.43
तेषाम् अहं पादसरोजरेणुम् आर्या वहेयाधिकिरीटम् आयुः । यं नित्यदा बिभ्रत आशु पापं नश्यत्य् अमुं सर्वगुणा भजन्ति ॥ 43 ॥
श्लोक 4.21.44
गुणायनं शीलधनं कृतज्ञं वृद्धाश्रयं संवृणते ऽनु सम्पदः । प्रसीदतां ब्रह्मकुलं गवां च जनार्दनः सानुचरश् च मह्यम् ॥ 44 ॥
श्लोक 4.21.46
इति ब्रुवाणं नृपतिं पितृदेवद्विजातयः । तुष्टुवुर् हृष्टमनसः साधुवादेन साधवः ॥ 46 ॥
श्लोक 4.21.47
पुत्रेण जयते लोकान् इति सत्यवती श्रुतिः । ब्रह्मदण्डहतः पापो यद् वेनो ऽत्यतरत् तमः ॥ 47 ॥
श्लोक 4.21.48
हिरण्यकशिपुश् चापि भगवन्निन्दया तमः । विविक्षुर् अत्यगात् सूनोः प्रह्लादस्यानुभावतः ॥ 48 ॥
श्लोक 4.21.49
वीरवर्य पितः पृथ्व्याः समाः सञ्जीव शाश्वतीः । यस्येदृश्य् अच्युते भक्तिः सर्वलोकैकभर्तरि ॥ 49 ॥
श्लोक 4.21.50
अहो वयं ह्य् अद्य पवित्रकीर्ते त्वयैव नाथेन मुकुन्दनाथाः । य उत्तमश्लोकतमस्य विष्णोर् ब्रह्मण्यदेवस्य कथां व्यनक्ति ॥ 50 ॥
श्लोक 4.21.51
नात्यद्भुतम् इदं नाथ तवाजीव्यानुशासनम् । प्रजानुरागो महतां प्रकृतिः करुणात्मनाम् ॥ 51 ॥
श्लोक 4.21.52
अद्य नस् तमसः पारस् त्वयोपासादितः प्रभो । भ्राम्यतां नष्टदृष्टीनां कर्मभिर् दैवसंज्ञितैः ॥ 52 ॥
श्लोक 4.21.53
नमो विवृद्धसत्त्वाय पुरुषाय महीयसे । यो ब्रह्म क्षत्रम् आविश्य बिभर्तीदं स्वतेजसा ॥ 53 ॥