श्रीमद्भागवत चतुर्थ स्कन्ध अध्याय 22
श्रीमद्भागवत चतुर्थ स्कन्ध अध्याय 22 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 4.22.1
जनेषु प्रगृणत्स्व् एवं पृथुं पृथुलविक्रमम् । तत्रोपजग्मुर् मुनयश् चत्वारः सूर्यवर्चसः ॥ 1 ॥
श्लोक 4.22.2
तांस् तु सिद्धेश्वरान् राजा व्योम्नो ऽवतरतो ऽर्चिषा । लोकान् अपापान् कुर्वाणान् सानुगो ऽचष्ट लक्षितान् ॥ 2 ॥
श्लोक 4.22.3
तद्दर्शनोद्गतान् प्राणान् प्रत्यादित्सुर् इवोत्थितः । ससदस्यानुगो वैन्य इन्द्रियेशो गुणान् इव ॥ 3 ॥
श्लोक 4.22.4
गौरवाद् यन्त्रितः सभ्यः प्रश्रयानतकन्धरः । विधिवत् पूजयां चक्रे गृहीताध्यर्हणासनान् ॥ 4 ॥
श्लोक 4.22.5
तत्पादशौचसलिलैर् मार्जितालकबन्धनः । तत्र शीलवतां वृत्तम् आचरन् मानयन्न् इव ॥ 5 ॥
श्लोक 4.22.6
हाटकासन आसीनान् स्वधिष्ण्येष्व् इव पावकान् । श्रद्धासंयमसंयुक्तः प्रीतः प्राह भवाग्रजान् ॥ 6 ॥
श्लोक 4.22.7
अहो आचरितं किं मे मङ्गलं मङ्गलायनाः । यस्य वो दर्शनं ह्य् आसीद् दुर्दर्शानां च योगिभिः ॥ 7 ॥
श्लोक 4.22.8
किं तस्य दुर्लभतरम् इह लोके परत्र च । यस्य विप्राः प्रसीदन्ति शिवो विष्णुश् च सानुगः ॥ 8 ॥
श्लोक 4.22.9
नैव लक्षयते लोको लोकान् पर्यटतो ऽपि यान् । यथा सर्वदृशं सर्व आत्मानं ये ऽस्य हेतवः ॥ 9 ॥
श्लोक 4.22.10
अधना अपि ते धन्याः साधवो गृहमेधिनः । यद्गृहा ह्य् अर्हवर्याम्बुतृणभूमीश्वरावराः ॥ 10 ॥
श्लोक 4.22.11
व्यालालयद्रुमा वै तेष्व् अरिक्ताखिलसम्पदः । यद्गृहास् तीर्थपादीयपादतीर्थविवर्जिताः ॥ 11 ॥
श्लोक 4.22.12
स्वागतं वो द्विजश्रेष्ठा यद्व्रतानि मुमुक्षवः । चरन्ति श्रद्धया धीरा बाला एव बृहन्ति च ॥ 12 ॥
श्लोक 4.22.13
कच्चिन् नः कुशलं नाथा इन्द्रियार्थार्थवेदिनाम् । व्यसनावाप एतस्मिन् पतितानां स्वकर्मभिः ॥ 13 ॥
श्लोक 4.22.14
भवत्सु कुशलप्रश्न आत्मारामेषु नेष्यते । कुशलाकुशला यत्र न सन्ति मतिवृत्तयः ॥ 14 ॥
श्लोक 4.22.15
तद् अहं कृतविश्रम्भः सुहृदो वस् तपस्विनाम् । सम्पृच्छे भव एतस्मिन् क्षेमः केनाञ्जसा भवेत् ॥ 15 ॥
श्लोक 4.22.16
व्यक्तम् आत्मवताम् आत्मा भगवान् आत्मभावनः । स्वानाम् अनुग्रहायेमां सिद्धरूपी चरत्य् अजः ॥ 16 ॥
श्लोक 4.22.17
पृथोस् तत् सूक्तम् आकर्ण्य सारं सुष्ठु मितं मधु । स्मयमान इव प्रीत्या कुमारः प्रत्युवाच ह ॥ 17 ॥
श्लोक 4.22.18
साधु पृष्टं महाराज सर्वभूतहितात्मना । भवता विदुषा चापि साधूनां मतिर् ईदृशी ॥ 18 ॥
श्लोक 4.22.19
सङ्गमः खलु साधूनाम् उभयेषां च सम्मतः । यत्सम्भाषणसम्प्रश्नः सर्वेषां वितनोति शम् ॥ 19 ॥
श्लोक 4.22.20
अस्त्य् एव राजन् भवतो मधुद्विषः पादारविन्दस्य गुणानुवादने । रतिर् दुरापा विधुनोति नैष्ठिकी कामं कषायं मलम् अन्तर्आत्मनः ॥ 20 ॥
श्लोक 4.22.21
शास्त्रेष्व् इयान् एव सुनिश्चितो नृणां क्षेमस्य सध्र्यग्विमृशेषु हेतुः । असङ्ग आत्मव्यतिरिक्त आत्मनि दृढा रतिर् ब्रह्मणि निर्गुणे च या ॥ 21 ॥
श्लोक 4.22.22
सा श्रद्धया भगवद्धर्मचर्यया जिज्ञासयाध्यात्मिकयोगनिष्ठया । योगेश्वरोपासनया च नित्यं पुण्यश्रवःकथया पुण्यया च ॥ 22 ॥
श्लोक 4.22.23
अर्थेन्द्रियारामसगोष्ठ्य्अतृष्णया तत्सम्मतानाम् अपरिग्रहेण च । विविक्तरुच्या परितोष आत्मनि विना हरेर् गुणपीयूषपानात् ॥ 23 ॥
श्लोक 4.22.24
अहिंसया पारमहंस्यचर्यया स्मृत्या मुकुन्दाचरिताग्र्यसीधुना । यमैर् अकामैर् नियमैश् चाप्य् अनिन्दया निरीहया द्वन्द्वतितिक्षया च ॥ 24 ॥
श्लोक 4.22.25
हरेर् मुहुस् तत्परकर्णपूरगुणाभिधानेन विजृम्भमाणया । भक्त्या ह्य् असङ्गः सद्असत्य् अनात्मनि स्यान् निर्गुणे ब्रह्मणि चाञ्जसा रतिः ॥ 25 ॥
श्लोक 4.22.26
यदा रतिर् ब्रह्मणि नैष्ठिकी पुमान् आचार्यवान् ज्ञानविरागरंहसा । दहत्य् अवीर्यं हृदयं जीवकोशं पञ्चात्मकं योनिम् इवोत्थितो ऽग्निः ॥ 26 ॥
श्लोक 4.22.27
दग्धाशयो मुक्तसमस्ततद्गुणो नैवात्मनो बहिर् अन्तर् विचष्टे । परात्मनोर् यद्व्यवधानं पुरस्तात् स्वप्ने यथा पुरुषस् तद्विनाशे ॥ 27 ॥
श्लोक 4.22.28
आत्मानम् इन्द्रियार्थं च परं यद् उभयोर् अपि । सत्य् आशय उपाधौ वै पुमान् पश्यति नान्यदा ॥ 28 ॥
श्लोक 4.22.29
निमित्ते सति सर्वत्र जलादाव् अपि पूरुषः । आत्मनश् च परस्यापि भिदां पश्यति नान्यदा ॥ 29 ॥
श्लोक 4.22.30
इन्द्रियैर् विषयाकृष्टैर् आक्षिप्तं ध्यायतां मनः । चेतनां हरते बुद्धेः स्तम्बस् तोयम् इव ह्रदात् ॥ 30 ॥
श्लोक 4.22.31
भ्रश्यत्य् अनुस्मृतिश् चित्तं ज्ञानभ्रंशः स्मृतिक्षये । तद्रोधं कवयः प्राहुर् आत्मापह्नवम् आत्मनः ॥ 31 ॥
श्लोक 4.22.32
नातः परतरो लोके पुंसः स्वार्थव्यतिक्रमः । यद्अध्य् अन्यस्य प्रेयस्त्वम् आत्मनः स्वव्यतिक्रमात् ॥ 32 ॥
श्लोक 4.22.33
अर्थेन्द्रियार्थाभिध्यानं सर्वार्थापह्नवो नृणाम् । भ्रंशितो ज्ञानविज्ञानाद् येनाविशति मुख्यताम् ॥ 33 ॥
श्लोक 4.22.34
न कुर्यात् कर्हिचित् सङ्गं तमस् तीव्रं तितीरिषुः । धर्मार्थकाममोक्षाणां यद् अत्यन्तविघातकम् ॥ 34 ॥
श्लोक 4.22.35
तत्रापि मोक्ष एवार्थ आत्यन्तिकतयेष्यते । त्रैवर्ग्यो ऽर्थो यतो नित्यं कृतान्तभयसंयुतः ॥ 35 ॥
श्लोक 4.22.36
परे ऽवरे च ये भावा गुणव्यतिकराद् अनु । न तेषां विद्यते क्षेमम् ईशविध्वंसिताशिषाम् ॥ 36 ॥
श्लोक 4.22.37
तत् त्वं नरेन्द्र जगताम् अथ तस्थूषां च देहेन्द्रियासुधिषणात्मभिर् आवृतानाम् &अम्प्; यः क्षेत्रवित्तपतया हृदि विश्वग् आविः प्रत्यक् चकास्ति भगवांस् तम् अवेहि सो ऽस्मि ॥ 37 ॥
श्लोक 4.22.38
यस्मिन्न् इदं सद्असद्आत्मतया विभाति माया विवेकविधुति स्रजि वाहिबुद्धिः । तं नित्यमुक्तपरिशुद्धविशुद्धतत्त्वं प्रत्यूढकर्मकलिलप्रकृतिं प्रपद्ये ॥ 38 ॥
श्लोक 4.22.39
यत्पादपङ्कजपलाशविलासभक्त्या कर्माशयं ग्रथितम् उद्ग्रथयन्ति सन्तः । तद्वन् न रिक्तमतयो यतयो ऽपि रुद्धस्रोतोगणास् तम् अरणं भज वासुदेवम् ॥ 39 ॥
श्लोक 4.22.40
कृच्छ्रो महान् इह भवार्णवम् अप्लवेशां षड्वर्गनक्रम् असुखेन तितीर्षन्ति । तत् त्वं हरेर् भगवतो भजनीयम् अङ्घ्रिं कृत्वोडुपं व्यसनम् उत्तर दुस्तरार्णम् ॥ 40 ॥
श्लोक 4.22.41
स एवं ब्रह्मपुत्रेण कुमारेणात्ममेधसा । दर्शितात्मगतिः सम्यक् प्रशस्योवाच तं नृपः ॥ 41 ॥
श्लोक 4.22.42
कृतो मे ऽनुग्रहः पूर्वं हरिणार्तानुकम्पिना । तम् आपादयितुं ब्रह्मन् भगवन् यूयम् आगताः ॥ 42 ॥
श्लोक 4.22.43
निष्पादितश् च कार्त्स्न्येन भगवद्भिर् घृणालुभिः । साधूच्छिष्टं हि मे सर्वम् आत्मना सह किं ददे ॥ 43 ॥
श्लोक 4.22.44
प्राणा दाराः सुता ब्रह्मन् गृहाश् च सपरिच्छदाः । राज्यं बलं मही कोश इति सर्वं निवेदितम् ॥ 44 ॥
श्लोक 4.22.45
सैनापत्यं च राज्यं च दण्डनेतृत्वम् एव च । सर्व लोकाधिपत्यं च वेदशास्त्रविद् अर्हति ॥ 45 ॥
श्लोक 4.22.46
स्वम् एव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च । तस्यैवानुग्रहेणान्नं भुञ्जते क्षत्रियादयः ॥ 46 ॥
श्लोक 4.22.47
यैर् ईदृशी भगवतो गतिर् आत्मवाद एकान्ततो निगमिभिः प्रतिपादिता नः &अम्प्; तुष्यन्त्व् अदभ्रकरुणाः स्वकृतेन नित्यं को नाम तत् प्रतिकरोति विनोदपात्रम् ॥ 47 ॥
श्लोक 4.22.48
त आत्मयोगपतय आदिराजेन पूजिताः । शीलं तदीयं शंसन्तः खे ऽभवन् मिषतां नृणाम् ॥ 48 ॥
श्लोक 4.22.49
वैन्यस् तु धुर्यो महतां संस्थित्याध्यात्मशिक्षया । आप्तकामम् इवात्मानं मेन आत्मन्य् अवस्थितः ॥ 49 ॥
श्लोक 4.22.50
कर्माणि च यथाकालं यथादेशं यथाबलम् । यथोचितं यथावित्तम् अकरोद् ब्रह्मसात्कृतम् ॥ 50 ॥
श्लोक 4.22.51
फलं ब्रह्मणि सन्न्यस्य निर्विषङ्गः समाहितः । कर्माध्यक्षं च मन्वान आत्मानं प्रकृतेः परम् ॥ 51 ॥
श्लोक 4.22.52
गृहेषु वर्तमानो ऽपि स साम्राज्यश्रियान्वितः । नासज्जतेन्द्रियार्थेषु निरहम्मतिर् अर्कवत् ॥ 52 ॥
श्लोक 4.22.53
एवम् अध्यात्मयोगेन कर्माण्य् अनुसमाचरन् । पुत्रान् उत्पादयाम् आस पञ्चार्चिष्य् आत्मसम्मतान् ॥ 53 ॥
श्लोक 4.22.54
विजिताश्वं धूम्रकेशं हर्यक्षं द्रविणं वृकम् । सर्वेषां लोकपालानां दधारैकः पृथुर् गुणान् ॥ 54 ॥
श्लोक 4.22.55
गोपीथाय जगत्सृष्टेः काले स्वे स्वे ऽच्युतात्मकः । मनोवाग्वृत्तिभिः सौम्यैर् गुणैः संरञ्जयन् प्रजाः ॥ 55 ॥
श्लोक 4.22.56
राजेत्य् अधान् नामधेयं सोमराज इवापरः । सूर्यवद् विसृजन् गृह्णन् प्रतपंश् च भुवो वसु ॥ 56 ॥
श्लोक 4.22.57
दुर्धर्षस् तेजसेवाग्निर् महेन्द्र इव दुर्जयः । तितिक्षया धरित्रीव द्यौर् इवाभीष्टदो नृणाम् ॥ 57 ॥
श्लोक 4.22.58
वर्षति स्म यथाकामं पर्जन्य इव तर्पयन् । समुद्र इव दुर्बोधः सत्त्वेनाचलराड् इव ॥ 58 ॥
श्लोक 4.22.59
धर्मराड् इव शिक्षायाम् आश्चर्ये हिमवान् इव । कुवेर इव कोशाढ्यो गुप्तार्थो वरुणो यथा ॥ 59 ॥
श्लोक 4.22.60
मातरिश्वेव सर्वात्मा बलेन महसौजसा । अविषह्यतया देवो भगवान् भूतराड् इव ॥ 60 ॥
श्लोक 4.22.61
कन्दर्प इव सौन्दर्ये मनस्वी मृगराड् इव । वात्सल्ये मनुवन् नृणां प्रभुत्वे भगवान् अजः ॥ 61 ॥
श्लोक 4.22.62
बृहस्पतिर् ब्रह्मवादे आत्मवत्त्वे स्वयं हरिः । भक्त्या गोगुरुविप्रेषु विष्वक्सेनानुवर्तिषु । ह्रिया प्रश्रयशीलाभ्याम् आत्मतुल्यः परोद्यमे ॥ 62 ॥
श्लोक 4.22.63
कीर्त्योर्ध्वगीतया पुम्भिस् त्रैलोक्ये तत्र तत्र ह । प्रविष्टः कर्णरन्ध्रेषु स्त्रीणां रामः सताम् इव ॥ 63 ॥