मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत चतुर्थ स्कन्ध अध्याय 23

श्रीमद्भागवत चतुर्थ स्कन्ध अध्याय 23 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 4.23.1

दृष्ट्वात्मानं प्रवयसम् एकदा वैन्य आत्मवान् । आत्मना वर्धिताशेषस्वानुसर्गः प्रजापतिः ॥ 1 ॥

श्लोक 4.23.2

जगतस् तस्थुषश् चापि वृत्तिदो धर्मभृत् सताम् । निष्पादितेश्वरादेशो यद्अर्थम् इह जज्ञिवान् ॥ 2 ॥

श्लोक 4.23.3

आत्मजेष्व् आत्मजां न्यस्य विरहाद् रुदतीम् इव । प्रजासु विमनःस्व् एकः सदारो ऽगात् तपोवनम् ॥ 3 ॥

श्लोक 4.23.4

तत्राप्य् अदाभ्यनियमो वैखानससुसम्मते । आरब्ध उग्रतपसि यथा स्वविजये पुरा ॥ 4 ॥

श्लोक 4.23.5

कन्दमूलफलाहारः शुष्कपर्णाशनः क्वचित् । अब्भक्षः कतिचित् पक्षान् वायुभक्षस् ततः परम् ॥ 5 ॥

श्लोक 4.23.6

ग्रीष्मे पञ्चतपा वीरो वर्षास्व् आसारषाण् मुनिः । आकण्ठमग्नः शिशिरे उदके स्थण्डिलेशयः ॥ 6 ॥

श्लोक 4.23.7

तितिक्षुर् यतवाग् दान्त ऊर्ध्वरेता जितानिलः । आरिराधयिषुः कृष्णम् अचरत् तप उत्तमम् ॥ 7 ॥

श्लोक 4.23.8

तेन क्रमानुसिद्धेन ध्वस्तकर्ममलाशयः । प्राणायामैः सन्निरुद्धषड्वर्गश् छिन्नबन्धनः ॥ 8 ॥

श्लोक 4.23.9

सनत्कुमारो भगवान् यद् आहाध्यात्मिकं परम् । योगं तेनैव पुरुषम् अभजत् पुरुषर्षभः ॥ 9 ॥

श्लोक 4.23.10

भगवद्धर्मिणः साधोः श्रद्धया यततः सदा । भक्तिर् भगवति ब्रह्मण्य् अनन्यविषयाभवत् ॥ 10 ॥

श्लोक 4.23.11

तस्यानया भगवतः परिकर्मशुद्धसत्त्वात्मनस् तद्अनुसंस्मरणानुपूर्त्या &अम्प्; ज्ञानं विरक्तिमद् अभून् निशितेन येन चिच्छेद संशयपदं निजजीवकोशम् ॥ 11 ॥

श्लोक 4.23.12

छिन्नान्यधीर् अधिगतात्मगतिर् निरीहस् तत् तत्यजे ऽच्छिनद् इदं वयुनेन येन । तावन् न योगगतिभिर् यतिर् अप्रमत्तो यावद् गदाग्रजकथासु रतिं न कुर्यात् ॥ 12 ॥

श्लोक 4.23.13

एवं स वीरप्रवरः संयोज्यात्मानम् आत्मनि । ब्रह्मभूतो दृढं काले तत्याज स्वं कलेवरम् ॥ 13 ॥

श्लोक 4.23.14

सम्पीड्य पायुं पार्ष्णिभ्यां वायुम् उत्सारयञ् छनैः । नाभ्यां कोष्ठेष्व् अवस्थाप्य हृद्उरःकण्ठशीर्षणि ॥ 14 ॥

श्लोक 4.23.15

उत्सर्पयंस् तु तं मूर्ध्नि क्रमेणावेश्य निःस्पृहः । वायुं वायौ क्षितौ कायं तेजस् तेजस्य् अयूयुजत् ॥ 15 ॥

श्लोक 4.23.16

खान्य् आकाशे द्रवं तोये यथास्थानं विभागशः । क्षितिम् अम्भसि तत् तेजस्य् अदो वायौ नभस्य् अमुम् ॥ 16 ॥

श्लोक 4.23.17

इन्द्रियेषु मनस् तानि तन्मात्रेषु यथोद्भवम् । भूतादिनामून्य् उत्कृष्य महत्य् आत्मनि सन्दधे ॥ 17 ॥

श्लोक 4.23.18

तं सर्वगुणविन्यासं जीवे मायामये न्यधात् । तं चानुशयम् आत्मस्थम् असाव् अनुशयी पुमान् । नानवैराग्यवीर्येण स्वरूपस्थो ऽजहात् प्रभुः ॥ 18 ॥

श्लोक 4.23.19

अर्चिर् नाम महाराज्ञी तत्पत्न्य् अनुगता वनम् । सुकुमार्य् अतद्अर्हा च यत्पद्भ्यां स्पर्शनं भुवः ॥ 19 ॥

श्लोक 4.23.20

अतीव भर्तुर् व्रतधर्मनिष्ठया शुश्रूषया चार्षदेहयात्रया । नाविन्दतार्तिं परिकर्शितापि सा प्रेयस्करस्पर्शनमाननिर्वृतिः ॥ 20 ॥

श्लोक 4.23.21

देहं विपन्नाखिलचेतनादिकं पत्युः पृथिव्या दयितस्य चात्मनः । आलक्ष्य किञ्चिच् च विलप्य सा सती चिताम् अथारोपयद् अद्रिसानुनि ॥ 21 ॥

श्लोक 4.23.22

विधाय कृत्यं ह्रदिनीजलाप्लुता दत्त्वोदकं भर्तुर् उदारकर्मणः । नत्वा दिविस्थांस् त्रिदशांस् त्रिः परीत्य विवेश वह्निं ध्यायती भर्तृपादौ ॥ 22 ॥

श्लोक 4.23.23

विलोक्यानुगतां साध्वीं पृथुं वीरवरं पतिम् । तुष्टुवुर् वरदा देवैर् देवपत्न्यः सहस्रशः ॥ 23 ॥

श्लोक 4.23.24

कुर्वत्यः कुसुमासारं तस्मिन् मन्दरसानुनि । नदत्स्व् अमरतूर्येषु गृणन्ति स्म परस्परम् ॥ 24 ॥

श्लोक 4.23.25

अहो इयं वधूर् धन्या या चैवं भूभुजां पतिम् । सर्वात्मना पतिं भेजे यज्ञेशं श्रीर् वधूर् इव ॥ 25 ॥

श्लोक 4.23.26

सैषा नूनं व्रजत्य् ऊर्ध्वम् अनु वैन्यं पतिं सती । पश्यतास्मान् अतीत्यार्चिर् दुर्विभाव्येन कर्मणा ॥ 26 ॥

श्लोक 4.23.27

तेषां दुरापं किं त्व् अन्यन् मर्त्यानां भगवत्पदम् । भुवि लोलायुषो ये वै नैष्कर्म्यं साधयन्त्य् उत ॥ 27 ॥

श्लोक 4.23.28

स वञ्चितो बतात्मध्रुक् कृच्छ्रेण महता भुवि । लब्ध्वापवर्ग्यं मानुष्यं विषयेषु विषज्जते ॥ 28 ॥

श्लोक 4.23.29

स्तुवतीष्व् अमरस्त्रीषु पतिलोकं गता वधूः । यं वा आत्मविदां धुर्यो वैन्यः प्रापाच्युताश्रयः ॥ 29 ॥

श्लोक 4.23.30

इत्थम्भूतानुभावो ऽसौ पृथुः स भगवत्तमः । कीर्तितं तस्य चरितम् उद्दामचरितस्य ते ॥ 30 ॥

श्लोक 4.23.31

य इदं सुमहत् पुण्यं श्रद्धयावहितः पठेत् । श्रावयेच् छृणुयाद् वापि स पृथोः पदवीम् इयात् ॥ 31 ॥

श्लोक 4.23.32

ब्राह्मणो ब्रह्मवर्चस्वी राजन्यो जगतीपतिः । वैश्यः पठन् विट्पतिः स्याच् छूद्रः सत्तमताम् इयात् ॥ 32 ॥

श्लोक 4.23.33

त्रिः कृत्व इदम् आकर्ण्य नरो नार्य् अथवादृता । अप्रजः सुप्रजतमो निर्धनो धनवत्तमः ॥ 33 ॥

श्लोक 4.23.34

अस्पष्टकीर्तिः सुयशा मूर्खो भवति पण्डितः । इदं स्वस्त्य्अयनं पुंसाम् अमङ्गल्यनिवारणम् ॥ 34 ॥

श्लोक 4.23.35

धन्यं यशस्यम् आयुष्यं स्वर्ग्यं कलिमलापहम् । धर्मार्थकाममोक्षाणां सम्यक् सिद्धिम् अभीप्सुभिः । श्रद्धयैतद् अनुश्राव्यं चतुर्णां कारणं परम् ॥ 35 ॥

श्लोक 4.23.36

विजयाभिमुखो राजा श्रुत्वैतद् अभियाति यान् । बलिं तस्मै हरन्त्य् अग्रे राजानः पृथवे यथा ॥ 36 ॥

श्लोक 4.23.37

मुक्तान्यसङ्गो भगवत्य् अमलां भक्तिम् उद्वहन् । वैन्यस्य चरितं पुण्यं शृणुयाच् छ्रावयेत् पठेत् ॥ 37 ॥

श्लोक 4.23.38

वैचित्रवीर्याभिहितं महन्माहात्म्यसूचकम् । अस्मिन् कृतम् अतिमर्त्यं पार्थवीं गतिम् आप्नुयात् ॥ 38 ॥

श्लोक 4.23.39

अनुदिनम् इदम् आदरेण शृण्वन् पृथुचरितं प्रथयन् विमुक्तसङ्गः । भगवति भवसिन्धुपोतपादे स च निपुणां लभते रतिं मनुष्यः ॥ 39 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ