श्रीमद्भागवत चतुर्थ स्कन्ध अध्याय 24
श्रीमद्भागवत चतुर्थ स्कन्ध अध्याय 24 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 4.24.1
विजिताश्वो ऽधिराजासीत् पृथुपुत्रः पृथुश्रवाः । यवीयोभ्यो ऽददात् काष्ठा भ्रातृभ्यो भ्रातृवत्सलः ॥ 1 ॥
श्लोक 4.24.2
हर्यक्षायादिशत् प्राचीं धूम्रकेशाय दक्षिणाम् । प्रतीचीं वृकसंज्ञाय तुर्यां द्रविणसे विभुः ॥ 2 ॥
श्लोक 4.24.3
अन्तर्धानगतिं शक्राल् लब्ध्वान्तर्धानसंज्ञितः । अपत्यत्रयम् आधत्त शिखण्डिन्यां सुसम्मतम् ॥ 3 ॥
श्लोक 4.24.4
पावकः पवमानश् च शुचिर् इत्य् अग्नयः पुरा । वसिष्ठशापाद् उत्पन्नाः पुनर् योगगतिं गताः ॥ 4 ॥
श्लोक 4.24.5
अन्तर्धानो नभस्वत्यां हविर्धानम् अविन्दत । य इन्द्रम् अश्वहर्तारं विद्वान् अपि न जघ्निवान् ॥ 5 ॥
श्लोक 4.24.6
राज्ञां वृत्तिं करादानदण्डशुल्कादिदारुणाम् । मन्यमानो दीर्घसत्त्रव्याजेन विससर्ज ह ॥ 6 ॥
श्लोक 4.24.7
तत्रापि हंसं पुरुषं परमात्मानम् आत्मदृक् । यजंस् तल्लोकताम् आप कुशलेन समाधिना ॥ 7 ॥
श्लोक 4.24.8
हविर्धानाद् धविर्धानी विदुरासूत षट् सुतान् । बर्हिषदं गयं शुक्लं कृष्णं सत्यं जितव्रतम् ॥ 8 ॥
श्लोक 4.24.9
बर्हिषत् सुमहाभागो हाविर्धानिः प्रजापतिः । क्रियाकाण्डेषु निष्णातो योगेषु च कुरूद्वह ॥ 9 ॥
श्लोक 4.24.10
यस्येदं देवयजनम् अनुयज्ञं वितन्वतः । प्राचीनाग्रैः कुशैर् आसीद् आस्तृतं वसुधातलम् ॥ 10 ॥
श्लोक 4.24.11
सामुद्रीं देवदेवोक्ताम् उपयेमे शतद्रुतिम् । यां वीक्ष्य चारुसर्वाङ्गीं किशोरीं सुष्ठ्व्अलङ्कृताम् । परिक्रमन्तीम् उद्वाहे चकमे ऽग्निः शुकीम् इव ॥ 11 ॥
श्लोक 4.24.12
विबुधासुरगन्धर्वमुनिसिद्धनरोरगाः । विजिताः सूर्यया दिक्षु क्वणयन्त्यैव नूपुरैः ॥ 12 ॥
श्लोक 4.24.13
प्राचीनबर्हिषः पुत्राः शतद्रुत्यां दशाभवन् । तुल्यनामव्रताः सर्वे धर्मस्नाताः प्रचेतसः ॥ 13 ॥
श्लोक 4.24.14
पित्रादिष्टाः प्रजासर्गे तपसे ऽर्णवम् आविशन् । दशवर्षसहस्राणि तपसार्चंस् तपस्पतिम् ॥ 14 ॥
श्लोक 4.24.15
यद् उक्तं पथि दृष्टेन गिरिशेन प्रसीदता । तद् ध्यायन्तो जपन्तश् च पूजयन्तश् च संयताः ॥ 15 ॥
श्लोक 4.24.16
प्रचेतसां गिरित्रेण यथासीत् पथि सङ्गमः । यद् उताह हरः प्रीतस् तन् नो ब्रह्मन् वदार्थवत् ॥ 16 ॥
श्लोक 4.24.17
सङ्गमः खलु विप्रर्षे शिवेनेह शरीरिणाम् । दुर्लभो मुनयो दध्युर् असङ्गाद् यम् अभीप्सितम् ॥ 17 ॥
श्लोक 4.24.18
आत्मारामो ऽपि यस् त्व् अस्य लोककल्पस्य राधसे । शक्त्या युक्तो विचरति घोरया भगवान् भवः ॥ 18 ॥
श्लोक 4.24.19
प्रचेतसः पितुर् वाक्यं शिरसादाय साधवः । दिशं प्रतीचीं प्रययुस् तपस्य् आदृतचेतसः ॥ 19 ॥
श्लोक 4.24.20
ससमुद्रम् उप विस्तीर्णम् अपश्यन् सुमहत् सरः । महन्मन इव स्वच्छं प्रसन्नसलिलाशयम् ॥ 20 ॥
श्लोक 4.24.21
नीलरक्तोत्पलाम्भोजकह्लारेन्दीवराकरम् । हंससारसचक्राह्वकारण्डवनिकूजितम् ॥ 21 ॥
श्लोक 4.24.22
मत्तभ्रमरसौस्वर्यहृष्टरोमलताङ्घ्रिपम् । पद्मकोशरजो दिक्षु विक्षिपत्पवनोत्सवम् ॥ 22 ॥
श्लोक 4.24.23
तत्र गान्धर्वम् आकर्ण्य दिव्यमार्गमनोहरम् । विसिस्म्यू राजपुत्रास् ते मृदङ्गपणवाद्य् अनु ॥ 23 ॥
श्लोक 4.24.24
तर्ह्य् एव सरसस् तस्मान् निष्क्रामन्तं सहानुगम् । उपगीयमानम् अमरप्रवरं विबुधानुगैः ॥ 24 ॥
श्लोक 4.24.25
तप्तहेमनिकायाभं शितिकण्ठं त्रिलोचनम् । प्रसादसुमुखं वीक्ष्य प्रणेमुर् जातकौतुकाः ॥ 25 ॥
श्लोक 4.24.26
स तान् प्रपन्नार्तिहरो भगवान् धर्मवत्सलः । धर्मज्ञान् शीलसम्पन्नान् प्रीतः प्रीतान् उवाच ह ॥ 26 ॥
श्लोक 4.24.27
यूयं वेदिषदः पुत्रा विदितं वश् चिकीर्षितम् । अनुग्रहाय भद्रं व एवं मे दर्शनं कृतम् ॥ 27 ॥
श्लोक 4.24.28
यः परं रंहसः साक्षात् त्रिगुणाज् जीवसंज्ञितात् । भगवन्तं वासुदेवं प्रपन्नः स प्रियो हि मे ॥ 28 ॥
श्लोक 4.24.29
स्वधर्मनिष्ठः शतजन्मभिः पुमान् विरिञ्चताम् एति ततः परं हि माम् । अव्याकृतं भागवतो ऽथ वैष्णवं पदं यथाहं विबुधाः कलात्यये ॥ 29 ॥
श्लोक 4.24.30
अथ भागवता यूयं प्रियाः स्थ भगवान् यथा । न मद् भागवतानां च प्रेयान् अन्यो ऽस्ति कर्हिचित् ॥ 30 ॥
श्लोक 4.24.31
इदं विविक्तं जप्तव्यं पवित्रं मङ्गलं परम् । निःश्रेयसकरं चापि श्रूयतां तद् वदामि वः ॥ 31 ॥
श्लोक 4.24.32
इत्य् अनुक्रोशहृदयो भगवान् आह ताञ् छिवः । बद्धाञ्जलीन् राजपुत्रान् नारायणपरो वचः ॥ 32 ॥
श्लोक 4.24.33
जितं त आत्मविद्वर्यस्वस्तये स्वस्तिर् अस्तु मे । भवताराधसा राद्धं सर्वस्मा आत्मने नमः ॥ 33 ॥
श्लोक 4.24.34
नमः पङ्कजनाभाय भूतसूक्ष्मेन्द्रियात्मने । वासुदेवाय शान्ताय कूटस्थाय स्वरोचिषे ॥ 34 ॥
श्लोक 4.24.35
सङ्कर्षणाय सूक्ष्माय दुरन्तायान्तकाय च । नमो विश्वप्रबोधाय प्रद्युम्नायान्तर्आत्मने ॥ 35 ॥
श्लोक 4.24.36
नमो नमो ऽनिरुद्धाय हृषीकेशेन्द्रियात्मने । नमः परमहंसाय पूर्णाय निभृतात्मने ॥ 36 ॥
श्लोक 4.24.37
स्वर्गापवर्गद्वाराय नित्यं शुचिषदे नमः । नमो हिरण्यवीर्याय चातुर्होत्राय तन्तवे ॥ 37 ॥
श्लोक 4.24.38
नम ऊर्ज इषे त्रय्याः पतये यज्ञरेतसे । तृप्तिदाय च जीवानां नमः सर्वरसात्मने ॥ 38 ॥
श्लोक 4.24.39
सर्वसत्त्वात्मदेहाय विशेषाय स्थवीयसे । नमस् त्रैलोक्यपालाय सह ओजोबलाय च ॥ 39 ॥
श्लोक 4.24.40
अर्थलिङ्गाय नभसे नमो ऽन्तर्बहिर्आत्मने । नमः पुण्याय लोकाय अमुष्मै भूरिवर्चसे ॥ 40 ॥
श्लोक 4.24.41
प्रवृत्ताय निवृत्ताय पितृदेवाय कर्मणे । नमो ऽधर्मविपाकाय मृत्यवे दुःखदाय च ॥ 41 ॥
श्लोक 4.24.42
नमस् त आशिषाम् ईश मनवे कारणात्मने । नमो धर्माय बृहते कृष्णायाकुण्ठमेधसे । पुरुषाय पुराणाय साङ्ख्ययोगेश्वराय च ॥ 42 ॥
श्लोक 4.24.43
शक्तित्रयसमेताय मीढुषे ऽहङ्कृतात्मने । चेतआकूतिरूपाय नमो वाचो विभूतये ॥ 43 ॥
श्लोक 4.24.44
दर्शनं नो दिदृक्षूणां देहि भागवतार्चितम् । रूपं प्रियतमं स्वानां सर्वेन्द्रियगुणाञ्जनम् ॥ 44 ॥
श्लोक 4.24.45
स्निग्धप्रावृड्घनश्यामं सर्वसौन्दर्यसङ्ग्रहम् । चार्व्आयतचतुर्बाहु सुजातरुचिराननम् ॥ 45 ॥
श्लोक 4.24.46
पद्मकोशपलाशाक्षं सुन्दरभ्रु सुनासिकम् । सुद्विजं सुकपोलास्यं समकर्णविभूषणम् ॥ 46 ॥
श्लोक 4.24.47
प्रीतिप्रहसितापाङ्गम् अलकै रूपशोभितम् । लसत्पङ्कजकिञ्जल्कदुकूलं मृष्टकुण्डलम् ॥ 47 ॥
श्लोक 4.24.48
स्फुरत्किरीटवलयहारनूपुरमेखलम् । शङ्खचक्रगदापद्ममालामण्य्उत्तमर्द्धिमत् ॥ 48 ॥
श्लोक 4.24.49
सिंहस्कन्धत्विषो बिभ्रत् सौभगग्रीवकौस्तुभम् । श्रियानपायिन्या क्षिप्तनिकषाश्मोरसोल्लसत् ॥ 49 ॥
श्लोक 4.24.50
पूररेचकसंविग्नवलिवल्गुदलोदरम् । प्रतिसङ्क्रामयद् विश्वं नाभ्यावर्तगभीरया ॥ 50 ॥
श्लोक 4.24.51
श्यामश्रोण्य्अधिरोचिष्णुदुकूलस्वर्णमेखलम् । समचार्व्अङ्घ्रिजङ्घोरुनिम्नजानुसुदर्शनम् ॥ 51 ॥
श्लोक 4.24.52
पदा शरत्पद्मपलाशरोचिषा नखद्युभिर् नो ऽन्तर्अघं विधुन्वता । प्रदर्शय स्वीयम् अपास्तसाध्वसं पदं गुरो मार्गगुरुस् तमोजुषाम् ॥ 52 ॥
श्लोक 4.24.53
एतद् रूपम् अनुध्येयम् आत्मशुद्धिम् अभीप्सताम् । यद्भक्तियोगो ऽभयदः स्वधर्मम् अनुतिष्ठताम् ॥ 53 ॥
श्लोक 4.24.54
भवान् भक्तिमता लभ्यो दुर्लभः सर्वदेहिनाम् । स्वाराज्यस्याप्य् अभिमत एकान्तेनात्मविद्गतिः ॥ 54 ॥
श्लोक 4.24.55
तं दुराराध्यम् आराध्य सताम् अपि दुरापया । एकान्तभक्त्या को वाञ्छेत् पादमूलं विना बहिः ॥ 55 ॥
श्लोक 4.24.56
यत्र निर्विष्टम् अरणं कृतान्तो नाभिमन्यते । विश्वं विध्वंसयन् वीर्यशौर्यविस्फूर्जितभ्रुवा ॥ 56 ॥
श्लोक 4.24.57
क्षणार्धेनापि तुलये न स्वर्गं नापुनर्भवम् । भगवत्सङ्गिसङ्गस्य मर्त्यानां किम् उताशिषः ॥ 57 ॥
श्लोक 4.24.58
अथानघाङ्घ्रेस् तव कीर्तितीर्थयोर् अन्तर्बहिःस्नानविधूतपाप्मनाम् । भूतेष्व् अनुक्रोशसुसत्त्वशीलिनां स्यात् सङ्गमो ऽनुग्रह एष नस् तव ॥ 58 ॥
श्लोक 4.24.59
न यस्य चित्तं बहिर्अर्थविभ्रमं तमोगुहायां च विशुद्धम् आविशत् । यद्भक्तियोगानुगृहीतम् अञ्जसा मुनिर् विचष्टे ननु तत्र ते गतिम् ॥ 59 ॥
श्लोक 4.24.60
यत्रेदं व्यज्यते विश्वं विश्वस्मिन्न् अवभाति यत् । तत् त्वं ब्रह्म परं ज्योतिर् आकाशम् इव विस्तृतम् ॥ 60 ॥
श्लोक 4.24.61
यो माययेदं पुरुरूपयासृजद् बिभर्ति भूयः क्षपयत्य् अविक्रियः । यद्भेदबुद्धिः सद् इवात्मदुःस्थया त्वम् आत्मतन्त्रं भगवन् प्रतीमहि ॥ 61 ॥
श्लोक 4.24.62
क्रियाकलापैर् इदम् एव योगिनः श्रद्धान्विताः साधु यजन्ति सिद्धये । भूतेन्द्रियान्तःकरणोपलक्षितं वेदे च तन्त्रे च त एव कोविदाः ॥ 62 ॥
श्लोक 4.24.63
त्वम् एक आद्यः पुरुषः सुप्तशक्तिस् तया रजःसत्त्वतमो विभिद्यते । महान् अहं खं मरुद् अग्निवार्धराः सुरर्षयो भूतगणा इदं यतः ॥ 63 ॥
श्लोक 4.24.64
सृष्टं स्वशक्त्येदम् अनुप्रविष्टश् चतुर्विधं पुरम् आत्मांशकेन । अथो विदुस् तं पुरुषं सन्तम् अन्तर् भुङ्क्ते हृषीकैर् मधु सारघं यः ॥ 64 ॥
श्लोक 4.24.65
स एष लोकान् अतिचण्डवेगो विकर्षसि त्वं खलु कालयानः । भूतानि भूतैर् अनुमेयतत्त्वो घनावलीर् वायुर् इवाविषह्यः ॥ 65 ॥
श्लोक 4.24.66
प्रमत्तम् उच्चैर् इति कृत्यचिन्तया प्रवृद्धलोभं विषयेषु लालसम् । त्वम् अप्रमत्तः सहसाभिपद्यसे क्षुल्लेलिहानो ऽहिर् इवाखुम् अन्तकः ॥ 66 ॥
श्लोक 4.24.67
कस् त्वत्पदाब्जं विजहाति पण्डितो यस् ते ऽवमानव्ययमानकेतनः । विशङ्कयास्मद्गुरुर् अर्चति स्म यद् विनोपपत्तिं मनवश् चतुर्दश ॥ 67 ॥
श्लोक 4.24.68
अथ त्वम् असि नो ब्रह्मन् परमात्मन् विपश्चिताम् । विश्वं रुद्रभयध्वस्तम् अकुतश्चिद्भया गतिः ॥ 68 ॥
श्लोक 4.24.69
इदं जपत भद्रं वो विशुद्धा नृपनन्दनाः । स्वधर्मम् अनुतिष्ठन्तो भगवत्य् अर्पिताशयाः ॥ 69 ॥
श्लोक 4.24.70
तम् एवात्मानम् आत्मस्थं सर्वभूतेष्व् अवस्थितम् । पूजयध्वं गृणन्तश् च ध्यायन्तश् चासकृद् धरिम् ॥ 70 ॥
श्लोक 4.24.71
योगादेशम् उपासाद्य धारयन्तो मुनिव्रताः । समाहितधियः सर्व एतद् अभ्यसतादृताः ॥ 71 ॥
श्लोक 4.24.72
इदम् आह पुरास्माकं भगवान् विश्वसृक्पतिः । भृग्व्आदीनाम् आत्मजानां सिसृक्षुः संसिसृक्षताम् ॥ 72 ॥
श्लोक 4.24.73
ते वयं नोदिताः सर्वे प्रजासर्गे प्रजेश्वराः । अनेन ध्वस्ततमसः सिसृक्ष्मो विविधाः प्रजाः ॥ 73 ॥
श्लोक 4.24.74
अथेदं नित्यदा युक्तो जपन्न् अवहितः पुमान् । अचिराच् छ्रेय आप्नोति वासुदेवपरायणः ॥ 74 ॥
श्लोक 4.24.75
श्रेयसाम् इह सर्वेषां ज्ञानं निःश्रेयसं परम् । सुखं तरति दुष्पारं ज्ञाननौर् व्यसनार्णवम् ॥ 75 ॥
श्लोक 4.24.76
य इमं श्रद्धया युक्तो मद्गीतं भगवत्स्तवम् । अधीयानो दुराराध्यं हरिम् आराधयत्य् असौ ॥ 76 ॥
श्लोक 4.24.77
विन्दते पुरुषो ऽमुष्माद् यद् यद् इच्छत्य् असत्वरम् । मद्गीतगीतात् सुप्रीताच् छ्रेयसाम् एकवल्लभात् ॥ 77 ॥
श्लोक 4.24.78
इदं यः कल्य उत्थाय प्राञ्जलिः श्रद्धयान्वितः । शृणुयाच् छ्रावयेन् मर्त्यो मुच्यते कर्मबन्धनैः ॥ 78 ॥
श्लोक 4.24.79
गीतं मयेदं नरदेवनन्दनाः परस्य पुंसः परमात्मनः स्तवम् । जपन्त एकाग्रधियस् तपो महत् चरध्वम् अन्ते तत आप्स्यथेप्सितम् ॥ 79 ॥