श्रीमद्भागवत चतुर्थ स्कन्ध अध्याय 25
श्रीमद्भागवत चतुर्थ स्कन्ध अध्याय 25 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 4.25.1
इति सन्दिश्य भगवान् बार्हिषदैर् अभिपूजितः । पश्यतां राजपुत्राणां तत्रैवान्तर्दधे हरः ॥ 1 ॥
श्लोक 4.25.2
रुद्रगीतं भगवतः स्तोत्रं सर्वे प्रचेतसः । जपन्तस् ते तपस् तेपुर् वर्षाणाम् अयुतं जले ॥ 2 ॥
श्लोक 4.25.3
प्राचीनबर्हिषं क्षत्तः कर्मस्व् आसक्तमानसम् । नारदो ऽध्यात्मतत्त्वज्ञः कृपालुः प्रत्यबोधयत् ॥ 3 ॥
श्लोक 4.25.4
श्रेयस् त्वं कतमद् राजन् कर्मणात्मन ईहसे । दुःखहानिः सुखावाप्तिः श्रेयस् तन् नेह चेष्यते ॥ 4 ॥
श्लोक 4.25.5
न जानामि महाभाग परं कर्मापविद्धधीः । ब्रूहि मे विमलं ज्ञानं येन मुच्येय कर्मभिः ॥ 5 ॥
श्लोक 4.25.6
गृहेषु कूटधर्मेषु पुत्रदारधनार्थधीः । न परं विन्दते मूढो भ्राम्यन् संसारवर्त्मसु ॥ 6 ॥
श्लोक 4.25.7
भो भोः प्रजापते राजन् पशून् पश्य त्वयाध्वरे । संज्ञापिताञ् जीवसङ्घान् निर्घृणेन सहस्रशः ॥ 7 ॥
श्लोक 4.25.8
एते त्वां सम्प्रतीक्षन्ते स्मरन्तो वैशसं तव । सम्परेतम् अयःकूटैश् छिन्दन्त्य् उत्थितमन्यवः ॥ 8 ॥
श्लोक 4.25.9
अत्र ते कथयिष्ये ऽमुम् इतिहासं पुरातनम् । पुरञ्जनस्य चरितं निबोध गदतो मम ॥ 9 ॥
श्लोक 4.25.10
आसीत् पुरञ्जनो नाम राजा राजन् बृहच्छ्रवाः । तस्याविज्ञातनामासीत् सखाविज्ञातचेष्टितः ॥ 10 ॥
श्लोक 4.25.11
सो ऽन्वेषमाणः शरणं बभ्राम पृथिवीं प्रभुः । नानुरूपं यदाविन्दद् अभूत् स विमना इव ॥ 11 ॥
श्लोक 4.25.12
न साधु मेने ताः सर्वा भूतले यावतीः पुरः । कामान् कामयमानो ऽसौ तस्य तस्योपपत्तये ॥ 12 ॥
श्लोक 4.25.13
स एकदा हिमवतो दक्षिणेष्व् अथ सानुषु । ददर्श नवभिर् द्वार्भिः पुरं लक्षितलक्षणाम् ॥ 13 ॥
श्लोक 4.25.14
प्राकारोपवनाट्टालपरिखैर् अक्षतोरणैः । स्वर्णरौप्यायसैः शृङ्गैः सङ्कुलां सर्वतो गृहैः ॥ 14 ॥
श्लोक 4.25.15
नीलस्फटिकवैदूर्यमुक्तामरकतारुणैः । कॢप्तहर्म्यस्थलीं दीप्तां श्रिया भोगवतीम् इव ॥ 15 ॥
श्लोक 4.25.16
सभाचत्वररथ्याभिर् आक्रीडायतनापणैः । चैत्यध्वजपताकाभिर् युक्तां विद्रुमवेदिभिः ॥ 16 ॥
श्लोक 4.25.17
पुर्यास् तु बाह्योपवने दिव्यद्रुमलताकुले । नदद्विहङ्गालिकुलकोलाहलजलाशये ॥ 17 ॥
श्लोक 4.25.18
हिमनिर्झरविप्रुष्मत्कुसुमाकरवायुना । चलत्प्रवालविटपनलिनीतटसम्पदि ॥ 18 ॥
श्लोक 4.25.19
नानारण्यमृगव्रातैर् अनाबाधे मुनिव्रतैः । आहूतं मन्यते पान्थो यत्र कोकिलकूजितैः ॥ 19 ॥
श्लोक 4.25.20
यदृच्छयागतां तत्र ददर्श प्रमदोत्तमाम् । भृत्यैर् दशभिर् आयान्तीम् एकैकशतनायकैः ॥ 20 ॥
श्लोक 4.25.21
अञ्चशीर्षाहिना गुप्तां प्रतीहारेण सर्वतः । अन्वेषमाणाम् ऋषभम् अप्रौढां कामरूपिणीम् ॥ 21 ॥
श्लोक 4.25.22
सुनासां सुदतीं बालां सुकपोलां वराननाम् । समविन्यस्तकर्णाभ्यां बिभ्रतीं कुण्डलश्रियम् ॥ 22 ॥
श्लोक 4.25.23
पिशङ्गनीवीं सुश्रोणीं श्यामां कनकमेखलाम् । पद्भ्यां क्वणद्भ्यां चलन्तीं नूपुरैर् देवताम् इव ॥ 23 ॥
श्लोक 4.25.24
स्तनौ व्यञ्जितकैशोरौ समवृत्तौ निरन्तरौ । वस्त्रान्तेन निगूहन्तीं व्रीडया गजगामिनीम् ॥ 24 ॥
श्लोक 4.25.25
ताम् आह ललितं वीरः सव्रीडस्मितशोभनाम् । स्निग्धेनापाङ्गपुङ्खेन स्पृष्टः प्रेमोद्भ्रमद्भ्रुवा ॥ 25 ॥
श्लोक 4.25.26
का त्वं कञ्जपलाशाक्षि कस्यासीह कुतः सति । इमाम् उप पुरीं भीरु किं चिकीर्षसि शंस मे ॥ 26 ॥
श्लोक 4.25.27
क एते ऽनुपथा ये त एकादश महाभटाः । एता वा ललनाः सुभ्रु को ऽयं ते ऽहिः पुरःसरः ॥ 27 ॥
श्लोक 4.25.28
त्वं ह्रीर् भवान्य् अस्य् अथ वाग् रमा पतिं विचिन्वती किं मुनिवद् रहो वने । त्वद्अङ्घ्रिकामाप्तसमस्तकामं क्व पद्मकोशः पतितः कराग्रात् ॥ 28 ॥
श्लोक 4.25.29
नासां वरोर्व् अन्यतमा भुविस्पृक् पुरीम् इमां वीरवरेण साकम् । अर्हस्य् अलङ्कर्तुम् अदभ्रकर्मणा लोकं परं श्रीर् इव यज्ञपुंसा ॥ 29 ॥
श्लोक 4.25.30
यद् एष मापाङ्गविखण्डितेन्द्रियं सव्रीडभावस्मितविभ्रमद्भ्रुवा । त्वयोपसृष्टो भगवान् मनोभवः प्रबाधते ऽथानुगृहाण शोभने ॥ 30 ॥
श्लोक 4.25.31
त्वद्आननं सुभ्रु सुतारलोचनं व्यालम्बिनीलालकवृन्दसंवृतम् । उन्नीय मे दर्शय वल्गुवाचकं यद् व्रीडया नाभिमुखं शुचिस्मिते ॥ 31 ॥
श्लोक 4.25.32
इत्थं पुरञ्जनं नारी याचमानम् अधीरवत् । अभ्यनन्दत तं वीरं हसन्ती वीर मोहिता ॥ 32 ॥
श्लोक 4.25.33
न विदाम वयं सम्यक् कर्तारं पुरुषर्षभ । आत्मनश् च परस्यापि गोत्रं नाम च यत्कृतम् ॥ 33 ॥
श्लोक 4.25.34
इहाद्य सन्तम् आत्मानं विदाम न ततः परम् । येनेयं निर्मिता वीर पुरी शरणम् आत्मनः ॥ 34 ॥
श्लोक 4.25.35
एते सखायः सख्यो मे नरा नार्यश् च मानद । सुप्तायां मयि जागर्ति नागो ऽयं पालयन् पुरीम् ॥ 35 ॥
श्लोक 4.25.36
दिष्ट्यागतो ऽसि भद्रं ते ग्राम्यान् कामान् अभीप्ससे । उद्वहिष्यामि तांस् ते ऽहं स्वबन्धुभिर् अरिन्दम ॥ 36 ॥
श्लोक 4.25.37
इमां त्वम् अधितिष्ठस्व पुरीं नवमुखीं विभो । मयोपनीतान् गृह्णानः कामभोगान् शतं समाः ॥ 37 ॥
श्लोक 4.25.38
कं नु त्वद्अन्यं रमये ह्य् अरतिज्ञम् अकोविदम् । असम्परायाभिमुखम् अश्वस्तनविदं पशुम् ॥ 38 ॥
श्लोक 4.25.39
धर्मो ह्य् अत्रार्थकामौ च प्रजानन्दो ऽमृतं यशः । लोका विशोका विरजा यान् न केवलिनो विदुः ॥ 39 ॥
श्लोक 4.25.40
पितृदेवर्षिमर्त्यानां भूतानाम् आत्मनश् च ह । क्षेम्यं वदन्ति शरणं भवे ऽस्मिन् यद् गृहाश्रमः ॥ 40 ॥
श्लोक 4.25.41
का नाम वीर विख्यातं वदान्यं प्रियदर्शनम् । न वृणीत प्रियं प्राप्तं मादृशी त्वादृशं पतिम् ॥ 41 ॥
श्लोक 4.25.42
कस्या मनस् ते भुवि भोगिभोगयोः स्त्रिया न सज्जेद् भुजयोर् महाभुज । यो ऽनाथवर्गाधिम् अलं घृणोद्धतस्मितावलोकेन चरत्य् अपोहितुम् ॥ 42 ॥
श्लोक 4.25.43
इति तौ दम्पती तत्र समुद्य समयं मिथः । तां प्रविश्य पुरीं राजन् मुमुदाते शतं समाः ॥ 43 ॥
श्लोक 4.25.44
उपगीयमानो ललितं तत्र तत्र च गायकैः । क्रीडन् परिवृतः स्त्रीभिर् ह्रदिनीम् आविशच् छुचौ ॥ 44 ॥
श्लोक 4.25.45
सप्तोपरि कृता द्वारः पुरस् तस्यास् तु द्वे अधः । पृथग्विषयगत्य्अर्थं तस्यां यः कश्चनेश्वरः ॥ 45 ॥
श्लोक 4.25.46
पञ्च द्वारस् तु पौरस्त्या दक्षिणैका तथोत्तरा । पश्चिमे द्वे अमूषां ते नामानि नृप वर्णये ॥ 46 ॥
श्लोक 4.25.47
खद्योताविर्मुखी च प्राग् द्वाराव् एकत्र निर्मिते । विभ्राजितं जनपदं याति ताभ्यां द्युमत्सखः ॥ 47 ॥
श्लोक 4.25.48
नलिनी नालिनी च प्राग् द्वाराव् एकत्र निर्मिते । अवधूतसखस् ताभ्यां विषयं याति सौरभम् ॥ 48 ॥
श्लोक 4.25.49
मुख्या नाम पुरस्ताद् द्वास् तयापणबहूदनौ । विषयौ याति पुरराड् रसज्ञविपणान्वितः ॥ 49 ॥
श्लोक 4.25.50
पितृहूर् नृप पुर्या द्वार् दक्षिणेन पुरञ्जनः । राष्ट्रं दक्षिणपञ्चालं याति श्रुतधरान्वितः ॥ 50 ॥
श्लोक 4.25.51
देवहूर् नाम पुर्या द्वा उत्तरेण पुरञ्जनः । राष्ट्रम् उत्तरपञ्चालं याति श्रुतधरान्वितः ॥ 51 ॥
श्लोक 4.25.52
आसुरी नाम पश्चाद् द्वास् तया याति पुरञ्जनः । ग्रामकं नाम विषयं दुर्मदेन समन्वितः ॥ 52 ॥
श्लोक 4.25.53
निरृतिर् नाम पश्चाद् द्वास् तया याति पुरञ्जनः । वैशसं नाम विषयं लुब्धकेन समन्वितः ॥ 53 ॥
श्लोक 4.25.54
अन्धाव् अमीषां पौराणां निर्वाक्पेशस्कृताव् उभौ । अक्षण्वताम् अधिपतिस् ताभ्यां याति करोति च ॥ 54 ॥
श्लोक 4.25.55
स यर्ह्य् अन्तःपुरगतो विषूचीनसमन्वितः । मोहं प्रसादं हर्षं वा याति जायात्मजोद्भवम् ॥ 55 ॥
श्लोक 4.25.56
एवं कर्मसु संसक्तः कामात्मा वञ्चितो ऽबुधः । महिषी यद् यद् ईहेत तत् तद् एवान्ववर्तत ॥ 56 ॥
श्लोक 4.25.57
क्वचित् पिबन्त्यां पिबति मदिरां मदविह्वलः । अश्नन्त्यां क्वचिद् अश्नाति जक्षत्यां सह जक्षिति ॥ 57 ॥
श्लोक 4.25.58
क्वचिद् गायति गायन्त्यां रुदत्यां रुदति क्वचित् । क्वचिद् धसन्त्यां हसति जल्पन्त्याम् अनु जल्पति ॥ 58 ॥
श्लोक 4.25.59
क्वचिद् धावति धावन्त्यां तिष्ठन्त्याम् अनु तिष्ठति । अनु शेते शयानायाम् अन्वास्ते क्वचिद् आसतीम् ॥ 59 ॥
श्लोक 4.25.60
क्वचिच् छृणोति शृण्वन्त्यां पश्यन्त्याम् अनु पश्यति । क्वचिज् जिघ्रति जिघ्रन्त्यां स्पृशन्त्यां स्पृशति क्वचित् ॥ 60 ॥
श्लोक 4.25.61
क्वचिच् च शोचतीं जायाम् अनु शोचति दीनवत् । अनु हृष्यति हृष्यन्त्यां मुदिताम् अनु मोदते ॥ 61 ॥
श्लोक 4.25.62
विप्रलब्धो महिष्यैवं सर्वप्रकृतिवञ्चितः । नेच्छन्न् अनुकरोत्य् अज्ञः क्लैब्यात् क्रीडामृगो यथा ॥ 62 ॥