मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत चतुर्थ स्कन्ध अध्याय 26

श्रीमद्भागवत चतुर्थ स्कन्ध अध्याय 26 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 4.26.1

स एकदा महेष्वासो रथं पञ्चाश्वम् आशुगम् । द्वीषं द्विचक्रम् एकाक्षं त्रिवेणुं पञ्चबन्धुरम् ॥ 1 ॥

श्लोक 4.26.2

एकरश्म्य् एकदमनम् एकनीडं द्विकूबरम् । पञ्चप्रहरणं सप्तवरूथं पञ्चविक्रमम् ॥ 2 ॥

श्लोक 4.26.3

हैमोपस्करम् आरुह्य स्वर्णवर्माक्षयेषुधिः । एकादशचमूनाथः पञ्चप्रस्थम् अगाद् वनम् ॥ 3 ॥

श्लोक 4.26.4

चचार मृगयां तत्र दृप्त आत्तेषुकार्मुकः । विहाय जायाम् अतद्अर्हां मृगव्यसनलालसः ॥ 4 ॥

श्लोक 4.26.5

आसुरीं वृत्तिम् आश्रित्य घोरात्मा निरनुग्रहः । न्यहनन् निशितैर् बाणैर् वनेषु वनगोचरान् ॥ 5 ॥

श्लोक 4.26.6

तीर्थेषु प्रतिदृष्टेषु राजा मेध्यान् पशून् वने । यावद्अर्थम् अलं लुब्धो हन्याद् इति नियम्यते ॥ 6 ॥

श्लोक 4.26.7

य एवं कर्म नियतं विद्वान् कुर्वीत मानवः । कर्मणा तेन राजेन्द्र ज्ञानेन न स लिप्यते ॥ 7 ॥

श्लोक 4.26.8

अन्यथा कर्म कुर्वाणो मानारूढो निबध्यते । गुणप्रवाहपतितो नष्टप्रज्ञो व्रजत्य् अधः ॥ 8 ॥

श्लोक 4.26.9

तत्र निर्भिन्नगात्राणां चित्रवाजैः शिलीमुखैः । विप्लवो ऽभूद् दुःखितानां दुःसहः करुणात्मनाम् ॥ 9 ॥

श्लोक 4.26.10

शशान् वराहान् महिषान् गवयान् रुरुशल्यकान् । मेध्यान् अन्यांश् च विविधान् विनिघ्नन् श्रमम् अध्यगात् ॥ 10 ॥

श्लोक 4.26.11

ततः क्षुत्तृट्परिश्रान्तो निवृत्तो गृहम् एयिवान् । कृतस्नानोचिताहारः संविवेश गतक्लमः ॥ 11 ॥

श्लोक 4.26.12

आत्मानम् अर्हयां चक्रे धूपालेपस्रग्आदिभिः । साध्व्अलङ्कृतसर्वाङ्गो महिष्याम् आदधे मनः ॥ 12 ॥

श्लोक 4.26.13

तृप्तो हृष्टः सुदृप्तश् च कन्दर्पाकृष्टमानसः । न व्यचष्ट वरारोहां गृहिणीं गृहमेधिनीम् ॥ 13 ॥

श्लोक 4.26.14

अन्तःपुरस्त्रियो ऽपृच्छद् विमना इव वेदिषत् । अपि वः कुशलं रामाः सेश्वरीणां यथा पुरा ॥ 14 ॥

श्लोक 4.26.15

न तथैतर्हि रोचन्ते गृहेषु गृहसम्पदः । यदि न स्याद् गृहे माता पत्नी वा पतिदेवता । व्यङ्गे रथ इव प्राज्ञः को नामासीत दीनवत् ॥ 15 ॥

श्लोक 4.26.16

क्व वर्तते सा ललना मज्जन्तं व्यसनार्णवे । या माम् उद्धरते प्रज्ञां दीपयन्ती पदे पदे ॥ 16 ॥

श्लोक 4.26.17

नरनाथ न जानीमस् त्वत्प्रिया यद् व्यवस्यति । भूतले निरवस्तारे शयानां पश्य शत्रुहन् ॥ 17 ॥

श्लोक 4.26.18

पुरञ्जनः स्वमहिषीं निरीक्ष्यावधुतां भुवि । तत्सङ्गोन्मथितज्ञानो वैक्लव्यं परमं ययौ ॥ 18 ॥

श्लोक 4.26.19

सान्त्वयन् श्लक्ष्णया वाचा हृदयेन विदूयता । प्रेयस्याः स्नेहसंरम्भलिङ्गम् आत्मनि नाभ्यगात् ॥ 19 ॥

श्लोक 4.26.20

अनुनिन्ये ऽथ शनकैर् वीरो ऽनुनयकोविदः । पस्पर्श पादयुगलम् आह चोत्सङ्गलालिताम् ॥ 20 ॥

श्लोक 4.26.21

नूनं त्व् अकृतपुण्यास् ते भृत्या येष्व् ईश्वराः शुभे । कृतागःस्व् आत्मसात् कृत्वा शिक्षादण्डं न युञ्जते ॥ 21 ॥

श्लोक 4.26.22

परमो ऽनुग्रहो दण्डो भृत्येषु प्रभुणार्पितः । बालो न वेद तत् तन्वि बन्धुकृत्यम् अमर्षणः ॥ 22 ॥

श्लोक 4.26.23

सा त्वं मुखं सुदति सुभ्र्व् अनुरागभारव्रीडाविलम्बविलसद्धसितावलोकम् । नीलालकालिभिर् उपस्कृतम् उन्नसं नः स्वानां प्रदर्शय मनस्विनि वल्गुवाक्यम् ॥ 23 ॥

श्लोक 4.26.24

तस्मिन् दधे दमम् अहं तव वीरपत्नि यो ऽन्यत्र भूसुरकुलात् कृतकिल्बिषस् तम् । पश्ये न वीतभयम् उन्मुदितं त्रिलोक्याम् अन्यत्र वै मुररिपोर् इतरत्र दासात् ॥ 24 ॥

श्लोक 4.26.25

वक्त्रं न ते वितिलकं मलिनं विहर्षं संरम्भभीमम् अविमृष्टम् अपेतरागम् । पश्ये स्तनाव् अपि शुचोपहतौ सुजातौ बिम्बाधरं विगतकुङ्कुमपङ्करागम् ॥ 25 ॥

श्लोक 4.26.26

तन् मे प्रसीद सुहृदः कृतकिल्बिषस्य स्वैरं गतस्य मृगयां व्यसनातुरस्य । का देवरं वशगतं कुसुमास्त्रवेगविस्रस्तपौंस्नम् उशती न भजेत कृत्ये ॥ 26 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ