श्रीमद्भागवत चतुर्थ स्कन्ध अध्याय 27
श्रीमद्भागवत चतुर्थ स्कन्ध अध्याय 27 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 4.27.1
इत्थं पुरञ्जनं सध्र्यग् वशमानीय विभ्रमैः । पुरञ्जनी महाराज रेमे रमयती पतिम् ॥ 1 ॥
श्लोक 4.27.2
स राजा महिषीं राजन् सुस्नातां रुचिराननाम् । कृतस्वस्त्ययनां तृप्ताम् अभ्यनन्दद् उपागताम् ॥ 2 ॥
श्लोक 4.27.3
तयोपगूढः परिरब्धकन्धरो रहो ऽनुमन्त्रैर् अपकृष्टचेतनः । न कालरंहो बुबुधे दुरत्ययं दिवा निशेति प्रमदापरिग्रहः ॥ 3 ॥
श्लोक 4.27.4
शयान उन्नद्धमदो महामना महार्हतल्पे महिषीभुजोपधिः । ताम् एव वीरो मनुते परं यतस् तमोऽभिभूतो न निजं परं च यत् ॥ 4 ॥
श्लोक 4.27.5
तयैवं रममाणस्य कामकश्मलचेतसः । क्षणार्धम् इव राजेन्द्र व्यतिक्रान्तं नवं वयः ॥ 5 ॥
श्लोक 4.27.6
तस्याम् अजनयत् पुत्रान् पुरञ्जन्यां पुरञ्जनः । शतान्य् एकादश विराड् आयुषो ऽर्धम् अथात्यगात् ॥ 6 ॥
श्लोक 4.27.7
दुहितॄर् दशोत्तरशतं पितृमातृयशस्करीः । शीलौदार्यगुणोपेताः पौरञ्जन्यः प्रजापते ॥ 7 ॥
श्लोक 4.27.8
स पञ्चालपतिः पुत्रान् पितृवंशविवर्धनान् । दारैः संयोजयाम् आस दुहितॄः सदृशैर् वरैः ॥ 8 ॥
श्लोक 4.27.9
पुत्राणां चाभवन् पुत्रा एकैकस्य शतं शतम् । यैर् वै पौरञ्जनो वंशः पञ्चालेषु समेधितः ॥ 9 ॥
श्लोक 4.27.10
तेषु तद्रिक्थहारेषु गृहकोशानुजीविषु । निरूढेन ममत्वेन विषयेष्व् अन्वबध्यत ॥ 10 ॥
श्लोक 4.27.11
ईजे च क्रतुभिर् घोरैर् दीक्षितः पशुमारकैः । देवान् पितॄन् भूतपतीन् नानाकामो यथा भवान् ॥ 11 ॥
श्लोक 4.27.12
युक्तेष्व् एवं प्रमत्तस्य कुटुम्बासक्तचेतसः । आससाद स वै कालो यो ऽप्रियः प्रिययोषिताम् ॥ 12 ॥
श्लोक 4.27.13
चण्डवेग इति ख्यातो गन्धर्वाधिपतिर् नृप । गन्धर्वास् तस्य बलिनः षष्ट्य्उत्तरशतत्रयम् ॥ 13 ॥
श्लोक 4.27.14
गन्धर्व्यस् तादृशीर् अस्य मैथुन्यश् च सितासिताः । परिवृत्त्या विलुम्पन्ति सर्वकामविनिर्मिताम् ॥ 14 ॥
श्लोक 4.27.15
ते चण्डवेगानुचराः पुरञ्जनपुरं यदा । हर्तुम् आरेभिरे तत्र प्रत्यषेधत् प्रजागरः ॥ 15 ॥
श्लोक 4.27.16
स सप्तभिः शतैर् एको विंशत्या च शतं समाः । पुरञ्जनपुराध्यक्षो गन्धर्वैर् युयुधे बली ॥ 16 ॥
श्लोक 4.27.17
क्षीयमाणे स्वसम्बन्धे एकस्मिन् बहुभिर् युधा । चिन्तां परां जगामार्तः सराष्ट्रपुरबान्धवः ॥ 17 ॥
श्लोक 4.27.18
स एव पुर्यां मधुभुक् पञ्चालेषु स्वपार्षदैः । उपनीतं बलिं गृह्णन् स्त्रीजितो नाविदद् भयम् ॥ 18 ॥
श्लोक 4.27.19
कालस्य दुहिता काचित् त्रिलोकीं वरम् इच्छती । पर्यटन्ती न बर्हिष्मन् प्रत्यनन्दत कश्चन ॥ 19 ॥
श्लोक 4.27.20
दौर्भाग्येनात्मनो लोके विश्रुता दुर्भगेति सा । या तुष्टा राजर्षये तु वृतादात् पूरवे वरम् ॥ 20 ॥
श्लोक 4.27.21
कदाचिद् अटमाना सा ब्रह्मलोकान् महीं गतम् । वव्रे बृहद्व्रतं मां तु जानती काममोहिता ॥ 21 ॥
श्लोक 4.27.22
मयि संरभ्य विपुलमदाच् छापं सुदुःसहम् । स्थातुम् अर्हसि नैकत्र मद्याच्ञाविमुखो मुने ॥ 22 ॥
श्लोक 4.27.23
ततो विहतसङ्कल्पा कन्यका यवनेश्वरम् । मयोपदिष्टम् आसाद्य वव्रे नाम्ना भयं पतिम् ॥ 23 ॥
श्लोक 4.27.24
ऋषभं यवनानां त्वां वृणे वीरेप्सितं पतिम् । सङ्कल्पस् त्वयि भूतानां कृतः किल न रिष्यति ॥ 24 ॥
श्लोक 4.27.25
द्वाव् इमाव् अनुशोचन्ति बालाव् असद्अवग्रहौ । यल् लोकशास्त्रोपनतं न राति न तद् इच्छति ॥ 25 ॥
श्लोक 4.27.26
अथो भजस्व मां भद्र भजन्तीं मे दयां कुरु । एतावान् पौरुषो धर्मो यद् आर्तान् अनुकम्पते ॥ 26 ॥
श्लोक 4.27.27
कालकन्योदितवचो निशम्य यवनेश्वरः । चिकीर्षुर् देवगुह्यं स सस्मितं ताम् अभाषत ॥ 27 ॥
श्लोक 4.27.28
मया निरूपितस् तुभ्यं पतिर् आत्मसमाधिना । नाभिनन्दति लोको ऽयं त्वाम् अभद्राम् असम्मताम् ॥ 28 ॥
श्लोक 4.27.29
त्वम् अव्यक्तगतिर् भुङ्क्ष्व लोकं कर्मविनिर्मितम् । या हि मे पृतनायुक्ता प्रजानाशं प्रणेष्यसि ॥ 29 ॥
श्लोक 4.27.30
प्रज्वारो ऽयं मम भ्राता त्वं च मे भगिनी भव । चराम्य् उभाभ्यां लोके ऽस्मिन्न् अव्यक्तो भीमसैनिकः ॥ 30 ॥