मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत चतुर्थ स्कन्ध अध्याय 28

श्रीमद्भागवत चतुर्थ स्कन्ध अध्याय 28 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 4.28.1

सैनिका भयनाम्नो ये बर्हिष्मन् दिष्टकारिणः । प्रज्वारकालकन्याभ्यां विचेरुर् अवनीम् इमाम् ॥ 1 ॥

श्लोक 4.28.2

त एकदा तु रभसा पुरञ्जनपुरीं नृप । रुरुधुर् भौमभोगाढ्यां जरत्पन्नगपालिताम् ॥ 2 ॥

श्लोक 4.28.3

कालकन्यापि बुभुजे पुरञ्जनपुरं बलात् । ययाभिभूतः पुरुषः सद्यो निःसारताम् इयात् ॥ 3 ॥

श्लोक 4.28.4

तयोपभुज्यमानां वै यवनाः सर्वतोदिशम् । द्वार्भिः प्रविश्य सुभृशं प्रार्दयन् सकलां पुरीम् ॥ 4 ॥

श्लोक 4.28.5

तस्यां प्रपीड्यमानायाम् अभिमानी पुरञ्जनः । अवापोरुविधांस् तापान् कुटुम्बी ममताकुलः ॥ 5 ॥

श्लोक 4.28.6

कन्योपगूढो नष्टश्रीः कृपणो विषयात्मकः । नष्टप्रज्ञो हृतैश्वर्यो गन्धर्वयवनैर् बलात् ॥ 6 ॥

श्लोक 4.28.7

विशीर्णां स्वपुरीं वीक्ष्य प्रतिकूलान् अनादृतान् । पुत्रान् पौत्रानुगामात्यान् जायां च गतसौहृदाम् ॥ 7 ॥

श्लोक 4.28.8

आत्मानं कन्यया ग्रस्तं पञ्चालान् अरिदूषितान् । दुरन्तचिन्ताम् आपन्नो न लेभे तत्प्रतिक्रियाम् ॥ 8 ॥

श्लोक 4.28.9

कामान् अभिलषन् दीनो यातयामांश् च कन्यया । विगतात्मगतिस्नेहः पुत्रदारांश् च लालयन् ॥ 9 ॥

श्लोक 4.28.10

गन्धर्वयवनाक्रान्तां कालकन्योपमर्दिताम् । हातुं प्रचक्रमे राजा तां पुरीम् अनिकामतः ॥ 10 ॥

श्लोक 4.28.11

भयनाम्नो ऽग्रजो भ्राता प्रज्वारः प्रत्युपस्थितः । ददाह तां पुरीं कृत्स्नां भ्रातुः प्रियचिकीर्षया ॥ 11 ॥

श्लोक 4.28.12

तस्यां सन्दह्यमानायां सपौरः सपरिच्छदः । कौटुम्बिकः कुटुम्बिन्या उपातप्यत सान्वयः ॥ 12 ॥

श्लोक 4.28.13

यवनोपरुद्धायतनो ग्रस्तायां कालकन्यया । पुर्यां प्रज्वारसंसृष्टः पुरपालो ऽन्वतप्यत ॥ 13 ॥

श्लोक 4.28.14

न शेके सो ऽवितुं तत्र पुरुकृच्छ्रोरुवेपथुः । गन्तुम् ऐच्छत् ततो वृक्षकोटराद् इव सानलात् ॥ 14 ॥

श्लोक 4.28.15

शिथिलावयवो यर्हि गन्धर्वैर् हृतपौरुषः । यवनैर् अरिभी राजन्न् उपरुद्धो रुरोद ह ॥ 15 ॥

श्लोक 4.28.16

दुहितॄः पुत्रपौत्रांश् च जामिजामातृपार्षदान् । स्वत्वावशिष्टं यत् किञ्चिद् गृहकोशपरिच्छदम् ॥ 16 ॥

श्लोक 4.28.17

अहं ममेति स्वीकृत्य गृहेषु कुमतिर् गृही । दध्यौ प्रमदया दीनो विप्रयोग उपस्थिते ॥ 17 ॥

श्लोक 4.28.18

लोकान्तरं गतवति मय्य् अनाथा कुटुम्बिनी । वर्तिष्यते कथं त्व् एषा बालकान् अनुशोचती ॥ 18 ॥

श्लोक 4.28.19

न मय्य् अनाशिते भुङ्क्ते नास्नाते स्नाति मत्परा । मयि रुष्टे सुसन्त्रस्ता भर्त्सिते यतवाग् भयात् ॥ 19 ॥

श्लोक 4.28.20

प्रबोधयति माविज्ञं व्युषिते शोककर्शिता । वर्त्मैतद् गृहमेधीयं वीरसूर् अपि नेष्यति ॥ 20 ॥

श्लोक 4.28.21

कथं नु दारका दीना दारकीर् वापरायणाः । वर्तिष्यन्ते मयि गते भिन्ननाव इवोदधौ ॥ 21 ॥

श्लोक 4.28.22

एवं कृपणया बुद्ध्या शोचन्तम् अतद्अर्हणम् । ग्रहीतुं कृतधीर् एनं भयनामाभ्यपद्यत ॥ 22 ॥

श्लोक 4.28.23

पशुवद् यवनैर् एष नीयमानः स्वकं क्षयम् । अन्वद्रवन्न् अनुपथाः शोचन्तो भृशम् आतुराः ॥ 23 ॥

श्लोक 4.28.24

पुरीं विहायोपगत उपरुद्धो भुजङ्गमः । यदा तम् एवानु पुरी विशीर्णा प्रकृतिं गता ॥ 24 ॥

श्लोक 4.28.25

विकृष्यमाणः प्रसभं यवनेन बलीयसा । नाविन्दत् तमसाविष्टः सखायं सुहृदं पुरः ॥ 25 ॥

श्लोक 4.28.26

तं यज्ञपशवो ऽनेन संज्ञप्ता ये ऽदयालुना । कुठारैश् चिच्छिदुः क्रुद्धाः स्मरन्तो ऽमीवम् अस्य तत् ॥ 26 ॥

श्लोक 4.28.27

अनन्तपारे तमसि मग्नो नष्टस्मृतिः समाः । शाश्वतीर् अनुभूयार्तिं प्रमदासङ्गदूषितः ॥ 27 ॥

श्लोक 4.28.28

ताम् एव मनसा गृह्णन् बभूव प्रमदोत्तमा । अनन्तरं विदर्भस्य राजसिंहस्य वेश्मनि ॥ 28 ॥

श्लोक 4.28.29

उपयेमे वीर्यपणां वैदर्भीं मलयध्वजः । युधि निर्जित्य राजन्यान् पाण्ड्यः परपुरञ्जयः ॥ 29 ॥

श्लोक 4.28.30

तस्यां स जनयां चक्र आत्मजाम् असितेक्षणाम् । यवीयसः सप्त सुतान् सप्त द्रविडभूभृतः ॥ 30 ॥

श्लोक 4.28.31

एकैकस्याभवत् तेषां राजन्न् अर्बुदम् अर्बुदम् । भोक्ष्यते यद्वंशधरैर् मही मन्वन्तरं परम् ॥ 31 ॥

श्लोक 4.28.32

अगस्त्यः प्राग् दुहितरम् उपयेमे धृतव्रताम् । यस्यां दृढच्युतो जात इध्मवाहात्मजो मुनिः ॥ 32 ॥

श्लोक 4.28.33

विभज्य तनयेभ्यः क्ष्मां राजर्षिर् मलयध्वजः । आरिराधयिषुः कृष्णं स जगाम कुलाचलम् ॥ 33 ॥

श्लोक 4.28.34

हित्वा गृहान् सुतान् भोगान् वैदर्भी मदिरेक्षणा । अन्वधावत पाण्ड्येशं ज्योत्स्नेव रजनीकरम् ॥ 34 ॥

श्लोक 4.28.35

तत्र चन्द्रवसा नाम ताम्रपर्णी वटोदका । तत्पुण्यसलिलैर् नित्यम् उभयत्रात्मनो मृजन् ॥ 35 ॥

श्लोक 4.28.36

कन्दाष्टिभिर् मूलफलैः पुष्पपर्णैस् तृणोदकैः । वर्तमानः शनैर् गात्रकर्शनं तप आस्थितः ॥ 36 ॥

श्लोक 4.28.37

शीतोष्णवातवर्षाणि क्षुत्पिपासे प्रियाप्रिये । सुखदुःखे इति द्वन्द्वान्य् अजयत् समदर्शनः ॥ 37 ॥

श्लोक 4.28.38

तपसा विद्यया पक्वकषायो नियमैर् यमैः । युयुजे ब्रह्मण्य् आत्मानं विजिताक्षानिलाशयः ॥ 38 ॥

श्लोक 4.28.39

आस्ते स्थाणुर् इवैकत्र दिव्यं वर्षशतं स्थिरः । वासुदेवे भगवति नान्यद् वेदोद्वहन् रतिम् ॥ 39 ॥

श्लोक 4.28.40

स व्यापकतयात्मानं व्यतिरिक्ततयात्मनि । विद्वान् स्वप्न इवामर्शसाक्षिणं विरराम ह ॥ 40 ॥

श्लोक 4.28.41

साक्षाद् भगवतोक्तेन गुरुणा हरिणा नृप । विशुद्धज्ञानदीपेन स्फुरता विश्वतोमुखम् ॥ 41 ॥

श्लोक 4.28.42

परे ब्रह्मणि चात्मानं परं ब्रह्म तथात्मनि । वीक्षमाणो विहायेक्षाम् अस्माद् उपरराम ह ॥ 42 ॥

श्लोक 4.28.43

पतिं परमधर्मज्ञं वैदर्भी मलयध्वजम् । प्रेम्णा पर्यचरद् धित्वा भोगान् सा पतिदेवता ॥ 43 ॥

श्लोक 4.28.44

चीरवासा व्रतक्षामा वेणीभूतशिरोरुहा । बभाव् उप पतिं शान्ता शिखा शान्तम् इवानलम् ॥ 44 ॥

श्लोक 4.28.45

अजानती प्रियतमं यदोपरतम् अङ्गना । सुस्थिरासनम् आसाद्य यथापूर्वम् उपाचरत् ॥ 45 ॥

श्लोक 4.28.46

यदा नोपलभेताङ्घ्राव् ऊष्माणं पत्युर् अर्चती । आसीत् संविग्नहृदया यूथभ्रष्टा मृगी यथा ॥ 46 ॥

श्लोक 4.28.47

आत्मानं शोचती दीनम् अबन्धुं विक्लवाश्रुभिः । स्तनाव् आसिच्य विपिने सुस्वरं प्ररुरोद सा ॥ 47 ॥

श्लोक 4.28.48

उत्तिष्ठोत्तिष्ठ राजर्षे इमाम् उदधिमेखलाम् । दस्युभ्यः क्षत्रबन्धुभ्यो बिभ्यतीं पातुम् अर्हसि ॥ 48 ॥

श्लोक 4.28.49

एवं विलपन्ती बाला विपिने ऽनुगता पतिम् । पतिता पादयोर् भर्तू रुदत्य् अश्रूण्य् अवर्तयत् ॥ 49 ॥

श्लोक 4.28.50

चितिं दारुमयीं चित्वा तस्यां पत्युः कलेवरम् । आदीप्य चानुमरणे विलपन्ती मनो दधे ॥ 50 ॥

श्लोक 4.28.51

तत्र पूर्वतरः कश्चित् सखा ब्राह्मण आत्मवान् । सान्त्वयन् वल्गुना साम्ना ताम् आह रुदतीं प्रभो ॥ 51 ॥

श्लोक 4.28.52

का त्वं कस्यासि को वायं शयानो यस्य शोचसि । जानासि किं सखायं मां येनाग्रे विचचर्थ ह ॥ 52 ॥

श्लोक 4.28.53

अपि स्मरसि चात्मानम् अविज्ञातसखं सखे । हित्वा मां पदम् अन्विच्छन् भौमभोगरतो गतः ॥ 53 ॥

श्लोक 4.28.54

हंसाव् अहं च त्वं चार्य सखायौ मानसायनौ । अभूताम् अन्तरा वौकः सहस्रपरिवत्सरान् ॥ 54 ॥

श्लोक 4.28.55

स त्वं विहाय मां बन्धो गतो ग्राम्यमतिर् महीम् । विचरन् पदम् अद्राक्षीः कयाचिन् निर्मितं स्त्रिया ॥ 55 ॥

श्लोक 4.28.56

पञ्चारामं नवद्वारम् एकपालं त्रिकोष्ठकम् । षट्कुलं पञ्चविपणं पञ्चप्रकृति स्त्रीधवम् ॥ 56 ॥

श्लोक 4.28.57

पञ्चेन्द्रियार्था आरामा द्वारः प्राणा नव प्रभो । तेजोऽब्अन्नानि कोष्ठानि कुलम् इन्द्रियसङ्ग्रहः ॥ 57 ॥

श्लोक 4.28.58

विपणस् तु क्रियाशक्तिर् भूतप्रकृतिर् अव्यया । शक्त्य्अधीशः पुमांस् त्व् अत्र प्रविष्टो नावबुध्यते ॥ 58 ॥

श्लोक 4.28.59

तस्मिंस् त्वं रामया स्पृष्टो रममाणो ऽश्रुतस्मृतिः । तत्सङ्गाद् ईदृशीं प्राप्तो दशां पापीयसीं प्रभो ॥ 59 ॥

श्लोक 4.28.60

न त्वं विदर्भदुहिता नायं वीरः सुहृत् तव । न पतिस् त्वं पुरञ्जन्या रुद्धो नवमुखे यया ॥ 60 ॥

श्लोक 4.28.61

माया ह्य् एषा मया सृष्टा यत् पुमांसं स्त्रियं सतीम् । मन्यसे नोभयं यद् वै हंसौ पश्यावयोर् गतिम् ॥ 61 ॥

श्लोक 4.28.62

अहं भवान् न चान्यस् त्वं त्वम् एवाहं विचक्ष्व भोः । न नौ पश्यन्ति कवयश् छिद्रं जातु मनाग् अपि ॥ 62 ॥

श्लोक 4.28.63

यथा पुरुष आत्मानम् एकम् आदर्शचक्षुषोः । द्विधाभूतम् अवेक्षेत तथैवान्तरम् आवयोः ॥ 63 ॥

श्लोक 4.28.64

एवं स मानसो हंसो हंसेन प्रतिबोधितः । स्वस्थस् तद्व्यभिचारेण नष्टाम् आप पुनः स्मृतिम् ॥ 64 ॥

श्लोक 4.28.65

बर्हिष्मन्न् एतद् अध्यात्मं पारोक्ष्येण प्रदर्शितम् । यत् परोक्षप्रियो देवो भगवान् विश्वभावनः ॥ 65 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ