श्रीमद्भागवत चतुर्थ स्कन्ध अध्याय 29
श्रीमद्भागवत चतुर्थ स्कन्ध अध्याय 29 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 4.29.1
भगवंस् ते वचो ऽस्माभिर् न सम्यग् अवगम्यते । कवयस् तद् विजानन्ति न वयं कर्ममोहिताः ॥ 1 ॥
श्लोक 4.29.2
पुरुषं पुरञ्जनं विद्याद् यद् व्यनक्त्य् आत्मनः पुरम् । एकद्वित्रिचतुष्पादं बहुपादम् अपादकम् ॥ 2 ॥
श्लोक 4.29.3
यो ऽविज्ञाताहृतस् तस्य पुरुषस्य सखेश्वरः । यन् न विज्ञायते पुम्भिर् नामभिर् वा क्रियागुणैः ॥ 3 ॥
श्लोक 4.29.4
यदा जिघृक्षन् पुरुषः कार्त्स्न्येन प्रकृतेर् गुणान् । नवद्वारं द्विहस्ताङ्घ्रि तत्रामनुत साध्व् इति ॥ 4 ॥
श्लोक 4.29.5
बुद्धिं तु प्रमदां विद्यान् ममाहम् इति यत्कृतम् । याम् अधिष्ठाय देहे ऽस्मिन् पुमान् भुङ्क्ते ऽक्षभिर् गुणान् ॥ 5 ॥
श्लोक 4.29.6
सखाय इन्द्रियगणा ज्ञानं कर्म च यत्कृतम् । सख्यस् तद्वृत्तयः प्राणः पञ्चवृत्तिर् यथोरगः ॥ 6 ॥
श्लोक 4.29.7
बृहद्बलं मनो विद्याद् उभयेन्द्रियनायकम् । पञ्चालाः पञ्च विषया यन्मध्ये नवखं पुरम् ॥ 7 ॥
श्लोक 4.29.8
अक्षिणी नासिके कर्णौ मुखं शिश्नगुदाव् इति । द्वे द्वे द्वारौ बहिर् याति यस् तद्इन्द्रियसंयुतः ॥ 8 ॥
श्लोक 4.29.9
अक्षिणी नासिके आस्यम् इति पञ्च पुरः कृताः । दक्षिणा दक्षिणः कर्ण उत्तरा चोत्तरः स्मृतः ॥ 9 ॥
श्लोक 4.29.10
पश्चिमे इत्य् अधो द्वारौ गुदं शिश्नम् इहोच्यते । खद्योताविर्मुखी चात्र नेत्रे एकत्र निर्मिते । रूपं विभ्राजितं ताभ्यां विचष्टे चक्षुषेश्वरः ॥ 10 ॥
श्लोक 4.29.11
नलिनी नालिनी नासे गन्धः सौरभ उच्यते । घ्राणो ऽवधूतो मुख्यास्यं विपणो वाग् रसविद् रसः ॥ 11 ॥
श्लोक 4.29.12
आपणो व्यवहारो ऽत्र चित्रम् अन्धो बहूदनम् । पितृहूर् दक्षिणः कर्ण उत्तरो देवहूः स्मृतः ॥ 12 ॥
श्लोक 4.29.13
प्रवृत्तं च निवृत्तं च शास्त्रं पञ्चालसंज्ञितम् । पितृयानं देवयानं श्रोत्राच् छ्रुतधराद् व्रजेत् ॥ 13 ॥
श्लोक 4.29.14
आसुरी मेढ्रम् अर्वाग्द्वार् व्यवायो ग्रामिणां रतिः । उपस्थो दुर्मदः प्रोक्तो निरृतिर् गुद उच्यते ॥ 14 ॥
श्लोक 4.29.15
वैशसं नरकं पायुर् लुब्धको ऽन्धौ तु मे शृणु । हस्तपादौ पुमांस् ताभ्यां युक्तो याति करोति च ॥ 15 ॥
श्लोक 4.29.16
अन्तःपुरं च हृदयं विषूचिर् मन उच्यते । तत्र मोहं प्रसादं वा हर्षं प्राप्नोति तद्गुणैः ॥ 16 ॥
श्लोक 4.29.17
यथा यथा विक्रियते गुणाक्तो विकरोति वा । तथा तथोपद्रष्टात्मा तद्वृत्तीर् अनुकार्यते ॥ 17 ॥
श्लोक 4.29.18
देहो रथस् त्व् इन्द्रियाश्वः संवत्सररयो ऽगतिः । द्विकर्मचक्रस् त्रिगुणध्वजः पञ्चासुबन्धुरः ॥ 18 ॥
श्लोक 4.29.19
मनोरश्मिर् बुद्धिसूतो हृन्नीडो द्वन्द्वकूबरः । पञ्चेन्द्रियार्थप्रक्षेपः सप्तधातुवरूथकः ॥ 19 ॥
श्लोक 4.29.20
आकूतिर् विक्रमो बाह्यो मृगतृष्णां प्रधावति । एकादशेन्द्रियचमूः पञ्चसूनाविनोदकृत् ॥ 20 ॥
श्लोक 4.29.21
संवत्सरश् चण्डवेगः कालो येनोपलक्षितः । तस्याहानीह गन्धर्वा गन्धर्व्यो रात्रयः स्मृताः । हरन्त्य् आयुः परिक्रान्त्या षष्ट्य्उत्तरशतत्रयम् ॥ 21 ॥
श्लोक 4.29.22
कालकन्या जरा साक्षाल् लोकस् तां नाभिनन्दति । स्वसारं जगृहे मृत्युः क्षयाय यवनेश्वरः ॥ 22 ॥
श्लोक 4.29.23
आधयो व्याधयस् तस्य सैनिका यवनाश् चराः । भूतोपसर्गाशुरयः प्रज्वारो द्विविधो ज्वरः ॥ 23 ॥
श्लोक 4.29.24
एवं बहुविधैर् दुःखैर् दैवभूतात्मसम्भवैः । क्लिश्यमानः शतं वर्षं देहे देही तमोवृतः ॥ 24 ॥
श्लोक 4.29.25
प्राणेन्द्रियमनोधर्मान् आत्मन्य् अध्यस्य निर्गुणः । शेते कामलवान् ध्यायन् ममाहम् इति कर्मकृत् ॥ 25 ॥
श्लोक 4.29.26
यदात्मानम् अविज्ञाय भगवन्तं परं गुरुम् । पुरुषस् तु विषज्जेत गुणेषु प्रकृतेः स्वदृक् ॥ 26 ॥
श्लोक 4.29.27
गुणाभिमानी स तदा कर्माणि कुरुते ऽवशः । शुक्लं कृष्णं लोहितं वा यथाकर्माभिजायते ॥ 27 ॥
श्लोक 4.29.28
शुक्लात् प्रकाशभूयिष्ठा लोकान् आप्नोति कर्हिचित् । दुःखोदर्कान् क्रियायासांस् तमःशोकोत्कटान् क्वचित् ॥ 28 ॥
श्लोक 4.29.29
क्वचित् पुमान् क्वचिच् च स्त्री क्वचिन् नोभयम् अन्धधीः । देवो मनुष्यस् तिर्यग् वा यथाकर्मगुणं भवः ॥ 29 ॥
श्लोक 4.29.30
क्षुत्परीतो यथा दीनः सारमेयो गृहं गृहम् । चरन् विन्दति यद्दिष्टं दण्डम् ओदनम् एव वा ॥ 30 ॥
श्लोक 4.29.31
तथा कामाशयो जीव उच्चावचपथा भ्रमन् । उपर्य् अधो वा मध्ये वा याति दिष्टं प्रियाप्रियम् ॥ 31 ॥
श्लोक 4.29.32
दुःखेष्व् एकतरेणापि दैवभूतात्महेतुषु । जीवस्य न व्यवच्छेदः स्याच् चेत् तत्तत्प्रतिक्रिया ॥ 32 ॥
श्लोक 4.29.33
यथा हि पुरुषो भारं शिरसा गुरुम् उद्वहन् । तं स्कन्धेन स आधत्ते तथा सर्वाः प्रतिक्रियाः ॥ 33 ॥
श्लोक 4.29.34
नैकान्ततः प्रतीकारः कर्मणां कर्म केवलम् । द्वयं ह्य् अविद्योपसृतं स्वप्ने स्वप्न इवानघ ॥ 34 ॥
श्लोक 4.29.35
अर्थे ह्य् अविद्यमाने ऽपि संसृतिर् न निवर्तते । मनसा लिङ्गरूपेण स्वप्ने विचरतो यथा ॥ 35 ॥
श्लोक 4.29.36
अथात्मनो ऽर्थभूतस्य यतो ऽनर्थपरम्परा । संसृतिस् तद्व्यवच्छेदो भक्त्या परमया गुरौ ॥ 36 ॥
श्लोक 4.29.37
वासुदेवे भगवति भक्तियोगः समाहितः । सध्रीचीनेन वैराग्यं ज्ञानं च जनयिष्यति ॥ 37 ॥
श्लोक 4.29.38
सो ऽचिराद् एव राजर्षे स्याद् अच्युतकथाश्रयः । शृण्वतः श्रद्दधानस्य नित्यदा स्याद् अधीयतः ॥ 38 ॥
श्लोक 4.29.39
यत्र भागवता राजन् साधवो विशदाशयाः । भगवद्गुणानुकथनश्रवणव्यग्रचेतसः ॥ 39 ॥
श्लोक 4.29.40
तस्मिन् महन्मुखरिता मधुभिच्चरित्रपीयूषशेषसरितः परितः स्रवन्ति । ता ये पिबन्त्य् अवितृषो नृप गाढकर्णैस् तान् न स्पृशन्त्य् अशनतृड्भयशोकमोहाः ॥ 40 ॥
श्लोक 4.29.41
एतैर् उपद्रुतो नित्यं जीवलोकः स्वभावजैः । न करोति हरेर् नूनं कथामृतनिधौ रतिम् ॥ 41 ॥
श्लोक 4.29.42
प्रजापतिपतिः साक्षाद् भगवान् गिरिशो मनुः । दक्षादयः प्रजाध्यक्षा नैष्ठिकाः सनकादयः ॥ 42 ॥
श्लोक 4.29.43
मरीचिर् अत्र्य्अङ्गिरसौ पुलस्त्यः पुलहः क्रतुः । भृगुर् वसिष्ठ इत्य् एते मद्अन्ता ब्रह्मवादिनः ॥ 43 ॥
श्लोक 4.29.44
अद्यापि वाचस्पतयस् तपोविद्यासमाधिभिः । पश्यन्तो ऽपि न पश्यन्ति पश्यन्तं परमेश्वरम् ॥ 44 ॥
श्लोक 4.29.45
शब्दब्रह्मणि दुष्पारे चरन्त उरुविस्तरे । मन्त्रलिङ्गैर् व्यवच्छिन्नं भजन्तो न विदुः परम् ॥ 45 ॥
श्लोक 4.29.46
सर्वेषाम् एव जन्तूनां सततं देहपोषणे । अस्ति प्रज्ञा समायत्ता को विशेषस् तदा नृणाम् ॥ 46 ॥
श्लोक 4.29.47
लब्ध्वेहान्ते मनुष्यत्वं हित्वा देहाद्य्असद्ग्रहम् । आत्मसृत्या विहायेदं जीवात्मा स विशिष्यते ॥ 47 ॥
श्लोक 4.29.46a
यदा यस्यानुगृह्णाति भगवान् आत्मभावितः । स जहाति मतिं लोके वेदे च परिनिष्ठिताम् ॥ 46a ॥
श्लोक 4.29.47a
तस्मात् कर्मसु बर्हिष्मन्न् अज्ञानाद् अर्थकाशिषु । मार्थदृष्टिं कृथाः श्रोत्रस्पर्शिष्व् अस्पृष्टवस्तुषु ॥ 47a ॥
श्लोक 4.29.48
स्वं लोकं न विदुस् ते वै यत्र देवो जनार्दनः । आहुर् धूम्रधियो वेदं सकर्मकम् अतद्विदः ॥ 48 ॥
श्लोक 4.29.49
आस्तीर्य दर्भैः प्राग्अग्रैः कार्त्स्न्येन क्षितिमण्डलम् । स्तब्धो बृहद्वधान् मानी कर्म नावैषि यत् परम् । तत् कर्म हरितोषं यत् सा विद्या तन्मतिर् यया ॥ 49 ॥
श्लोक 4.29.50
हरिर् देहभृताम् आत्मा स्वयं प्रकृतिर् ईश्वरः । तत्पादमूलं शरणं यतः क्षेमो नृणाम् इह ॥ 50 ॥
श्लोक 4.29.51
स वै प्रियतमश् चात्मा यतो न भयम् अण्व् अपि । इति वेद स वै विद्वान् यो विद्वान् स गुरुर् हरिः ॥ 51 ॥
श्लोक 4.29.52
प्रश्न एवं हि सञ्छिन्नो भवतः पुरुषर्षभ । अत्र मे वदतो गुह्यं निशामय सुनिश्चितम् ॥ 52 ॥
श्लोक 4.29.53
क्षुद्रं चरं सुमनसां शरणे मिथित्वा रक्तं षडङ्घ्रिगणसामसु लुब्धकर्णम् &अम्प्; अग्रे वृकान् असुतृपो ऽविगणय्य यान्तं पृष्ठे मृगं मृगय लुब्धकबाणभिन्नम् ॥ 53 ॥
श्लोक 4.29.54
अस्यार्थः सुमनःसमधर्मणां स्त्रीणां शरण आश्रमे पुष्पमधुगन्धवत् क्षुद्रतमं काम्यकर्मविपाकजं कामसुखलवं जैह्व्यौपस्थ्यादि विचिन्वन्तं मिथुनीभूय तद्अभिनिवेशितमनसं षडङ्घ्रिगणसामगीतवद् अतिमनोहरवनितादिजनालापेष्व् अतितराम् अतिप्रलोभितकर्णम् अग्रे वृकयूथवद् आत्मन आयुर् हरतो ऽहोरात्रान् तान् काललवविशेषान् अविगणय्य गृहेषु विहरन्तं पृष्ठत एव परोक्षम् अनुप्रवृत्तो लुब्धकः कृतान्तो ऽन्तः शरेण यम् इह पराविध्यति तम् इमम् आत्मानम् अहो राजन् भिन्नहृदयं द्रष्टुम् अर्हसीति ॥ 54 ॥
श्लोक 4.29.55
स त्वं विचक्ष्य मृगचेष्टितम् आत्मनो ऽन्तश् चित्तं नियच्छ हृदि कर्णधुनीं च चित्ते । जह्य् अङ्गनाश्रमम् असत्तमयूथगाथं प्रीणीहि हंसशरणं विरम क्रमेण ॥ 55 ॥
श्लोक 4.29.56
श्रुतम् अन्वीक्षितं ब्रह्मन् भगवान् यद् अभाषत । नैतज् जानन्त्य् उपाध्यायाः किं न ब्रूयुर् विदुर् यदि ॥ 56 ॥
श्लोक 4.29.57
संशयो ऽत्र तु मे विप्र सञ्छिन्नस् तत्कृतो महान् । ऋषयो ऽपि हि मुह्यन्ति यत्र नेन्द्रियवृत्तयः ॥ 57 ॥
श्लोक 4.29.58
कर्माण्य् आरभते येन पुमान् इह विहाय तम् । अमुत्रान्येन देहेन जुष्टानि स यद् अश्नुते ॥ 58 ॥
श्लोक 4.29.59
इति वेदविदां वादः श्रूयते तत्र तत्र ह । कर्म यत् क्रियते प्रोक्तं परोक्षं न प्रकाशते ॥ 59 ॥
श्लोक 4.29.60
येनैवारभते कर्म तेनैवामुत्र तत् पुमान् । भुङ्क्ते ह्य् अव्यवधानेन लिङ्गेन मनसा स्वयम् ॥ 60 ॥
श्लोक 4.29.61
शयानम् इमम् उत्सृज्य श्वसन्तं पुरुषो यथा । कर्मात्मन्य् आहितं भुङ्क्ते तादृशेनेतरेण वा ॥ 61 ॥
श्लोक 4.29.62
ममैते मनसा यद् यद् असाव् अहम् इति ब्रुवन् । गृह्णीयात् तत् पुमान् राद्धं कर्म येन पुनर् भवः ॥ 62 ॥
श्लोक 4.29.63
यथानुमीयते चित्तम् उभयैर् इन्द्रियेहितैः । एवं प्राग्देहजं कर्म लक्ष्यते चित्तवृत्तिभिः ॥ 63 ॥
श्लोक 4.29.64
नानुभूतं क्व चानेन देहेनादृष्टम् अश्रुतम् । कदाचिद् उपलभ्येत यद् रूपं यादृग् आत्मनि ॥ 64 ॥
श्लोक 4.29.65
तेनास्य तादृशं राज लिङ्गिनो देहसम्भवम् । श्रद्धत्स्वाननुभूतो ऽर्थो न मनः स्प्रष्टुम् अर्हति ॥ 65 ॥
श्लोक 4.29.66
मन एव मनुष्यस्य पूर्वरूपाणि शंसति । भविष्यतश् च भद्रं ते तथैव न भविष्यतः ॥ 66 ॥
श्लोक 4.29.67
अदृष्टम् अश्रुतं चात्र क्वचिन् मनसि दृश्यते । यथा तथानुमन्तव्यं देशकालक्रियाश्रयम् ॥ 67 ॥
श्लोक 4.29.68
सर्वे क्रमानुरोधेन मनसीन्द्रियगोचराः । आयान्ति बहुशो यान्ति सर्वे समनसो जनाः ॥ 68 ॥
श्लोक 4.29.69
सत्त्वैकनिष्ठे मनसि भगवत्पार्श्ववर्तिनि । तमश् चन्द्रमसीवेदम् उपरज्यावभासते ॥ 69 ॥
श्लोक 4.29.70
नाहं ममेति भावो ऽयं पुरुषे व्यवधीयते । यावद् बुद्धिमनोऽक्षार्थगुणव्यूहो ह्य् अनादिमान् ॥ 70 ॥
श्लोक 4.29.71
सुप्तिमूर्च्छोपतापेषु प्राणायनविघाततः । नेहते ऽहम् इति ज्ञानं मृत्युप्रज्वारयोर् अपि ॥ 71 ॥
श्लोक 4.29.72
गर्भे बाल्ये ऽप्य् अपौष्कल्याद् एकादशविधं तदा । लिङ्गं न दृश्यते यूनः कुह्वां चन्द्रमसो यथा ॥ 72 ॥
श्लोक 4.29.73
अर्थे ह्य् अविद्यमाने ऽपि संसृतिर् न निवर्तते । ध्यायतो विषयान् अस्य स्वप्ने ऽनर्थागमो यथा ॥ 73 ॥
श्लोक 4.29.74
एवं पञ्चविधं लिङ्गं त्रिवृत् षोडश विस्तृतम् । एष चेतनया युक्तो जीव इत्य् अभिधीयते ॥ 74 ॥
श्लोक 4.29.75
अनेन पुरुषो देहान् उपादत्ते विमुञ्चति । हर्षं शोकं भयं दुःखं सुखं चानेन विन्दति ॥ 75 ॥
श्लोक 4.29.76
भक्तिः कृष्णे दया जीवेष्व् अकुण्ठज्ञानम् आत्मनि । यदि स्याद् आत्मनो भूयाद् अपवर्गस् तु संसृतेः ॥ 76 ॥
श्लोक 4.29.76a
यथा तृणजलूकेयं नापयात्य् अपयाति च । न त्यजेन् म्रियमाणो ऽपि प्राग्देहाभिमतिं जनः ॥ 76a ॥
श्लोक 4.29.77
अदृष्टं दृष्टवन् नङ्क्षेद् भूतं स्वप्नवद् अन्यथा । भूतं भवद् भविष्यच् च सुप्तं सर्वरहोरहः ॥ 77 ॥
श्लोक 4.29.77a
यावद् अन्यं न विन्देत व्यवधानेन कर्मणाम् । मन एव मनुष्येन्द्र भूतानां भवभावनम् ॥ 77a ॥
श्लोक 4.29.78
यदाक्षैश् चरितान् ध्यायन् कर्माण्य् आचिनुते ऽसकृत् । सति कर्मण्य् अविद्यायां बन्धः कर्मण्य् अनात्मनः ॥ 78 ॥
श्लोक 4.29.79
अतस् तद् अपवादार्थं भज सर्वात्मना हरिम् । पश्यंस् तद्आत्मकं विश्वं स्थित्य्उत्पत्त्य्अप्यया यतः ॥ 79 ॥
श्लोक 4.29.80
भागवतमुख्यो भगवान् नारदो हंसयोर् गतिम् । प्रदर्श्य ह्य् अमुम् आमन्त्र्य सिद्धलोकं ततो ऽगमत् ॥ 80 ॥
श्लोक 4.29.81
प्राचीनबर्ही राजर्षिः प्रजासर्गाभिरक्षणे । आदिश्य पुत्रान् अगमत् तपसे कपिलाश्रमम् ॥ 81 ॥
श्लोक 4.29.82
तत्रैकाग्रमना धीरो गोविन्दचरणाम्बुजम् । विमुक्तसङ्गो ऽनुभजन् भक्त्या तत्साम्यताम् अगात् ॥ 82 ॥
श्लोक 4.29.83
एतद् अध्यात्मपारोक्ष्यं गीतं देवर्षिणानघ । यः श्रावयेद् यः शृणुयात् स लिङ्गेन विमुच्यते ॥ 83 ॥
श्लोक 4.29.84
एतन् मुकुन्दयशसा भुवनं पुनानं देवर्षिवर्यमुखनिःसृतम् आत्मशौचम् &अम्प्; यः कीर्त्यमानम् अधिगच्छति पारमेष्ठ्यं नास्मिन् भवे भ्रमति मुक्तसमस्तबन्धः ॥ 84 ॥
श्लोक 4.29.85
अध्यात्मपारोक्ष्यम् इदं मयाधिगतम् अद्भुतम् । एवं स्त्रियाश्रमः पुंसश् छिन्नो ऽमुत्र च संशयः ॥ 85 ॥