श्रीमद्भागवत चतुर्थ स्कन्ध अध्याय 7
श्रीमद्भागवत चतुर्थ स्कन्ध अध्याय 7 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 4.7.1
इत्य् अजेनानुनीतेन भवेन परितुष्यता । अभ्यधायि महाबाहो प्रहस्य श्रूयताम् इति ॥ 1 ॥
श्लोक 4.7.2
नाघं प्रजेश बालानां वर्णये नानुचिन्तये । देवमायाभिभूतानां दण्डस् तत्र धृतो मया ॥ 2 ॥
श्लोक 4.7.3
प्रजापतेर् दग्धशीर्ष्णो भवत्व् अजमुखं शिरः । मित्रस्य चक्षुषेक्षेत भागं स्वं बर्हिषो भगः ॥ 3 ॥
श्लोक 4.7.4
पूषा तु यजमानस्य दद्भिर् जक्षतु पिष्टभुक् । देवाः प्रकृतसर्वाङ्गा ये म उच्छेषणं ददुः ॥ 4 ॥
श्लोक 4.7.5
बाहुभ्याम् अश्विनोः पूष्णो हस्ताभ्यां कृतबाहवः । भवन्त्व् अध्वर्यवश् चान्ये बस्तश्मश्रुर् भृगुर् भवेत् ॥ 5 ॥
श्लोक 4.7.6
तदा सर्वाणि भूतानि श्रुत्वा मीढुष्टमोदितम् । परितुष्टात्मभिस् तात साधु साध्व् इत्य् अथाब्रुवन् ॥ 6 ॥
श्लोक 4.7.7
ततो मीढ्वांसम् आमन्त्र्य शुनासीराः सहर्षिभिः । भूयस् तद् देवयजनं समीढ्वद्वेधसो ययुः ॥ 7 ॥
श्लोक 4.7.8
विधाय कार्त्स्न्येन च तद् यद् आह भगवान् भवः । सन्दधुः कस्य कायेन सवनीयपशोः शिरः ॥ 8 ॥
श्लोक 4.7.9
सन्धीयमाने शिरसि दक्षो रुद्राभिवीक्षितः । सद्यः सुप्त इवोत्तस्थौ ददृशे चाग्रतो मृडम् ॥ 9 ॥
श्लोक 4.7.10
तदा वृषध्वजद्वेषकलिलात्मा प्रजापतिः । शिवावलोकाद् अभवच् छरद्ध्रद इवामलः ॥ 10 ॥
श्लोक 4.7.11
भवस्तवाय कृतधीर् नाशक्नोद् अनुरागतः । औत्कण्ठ्याद् बाष्पकलया सम्परेतां सुतां स्मरन् ॥ 11 ॥
श्लोक 4.7.12
कृच्छ्रात् संस्तभ्य च मनः प्रेमविह्वलितः सुधीः । शशंस निर्व्यलीकेन भावेनेशं प्रजापतिः ॥ 12 ॥
श्लोक 4.7.13
भूयान् अनुग्रह अहो भवता कृतो मे दण्डस् त्वया मयि भृतो यद् अपि प्रलब्धः । न ब्रह्मबन्धुषु च वां भगवन्न् अवज्ञा तुभ्यं हरेश् च कुत एव धृतव्रतेषु ॥ 13 ॥
श्लोक 4.7.14
विद्यातपोव्रतधरान् मुखतः स्म विप्रान् ब्रह्मात्मतत्त्वम् अवितुं प्रथमं त्वम् अस्राक् । तद् ब्राह्मणान् परम सर्वविपत्सु पासि पालः पशून् इव विभो प्रगृहीतदण्डः ॥ 14 ॥
श्लोक 4.7.15
यो ऽसौ मयाविदिततत्त्वदृशा सभायां क्षिप्तो दुरुक्तिविशिखैर् विगणय्य तन् माम् । अर्वाक् पतन्तम् अर्हत्तमनिन्दयापाद् दृष्ट्यार्द्रया स भगवान् स्वकृतेन तुष्येत् ॥ 15 ॥
श्लोक 4.7.16
क्षमाप्यैवं स मीढ्वांसं ब्रह्मणा चानुमन्त्रितः । कर्म सन्तानयाम् आस सोपाध्यायर्त्विग्आदिभिः ॥ 16 ॥
श्लोक 4.7.17
वैष्णवं यज्ञसन्तत्यै त्रिकपालं द्विजोत्तमाः । पुरोडाशं निरवपन् वीरसंसर्गशुद्धये ॥ 17 ॥
श्लोक 4.7.18
अध्वर्युणात्तहविषा यजमानो विशाम्पते । धिया विशुद्धया दध्यौ तथा प्रादुरभूद् धरिः ॥ 18 ॥
श्लोक 4.7.19
तदा स्वप्रभया तेषां द्योतयन्त्या दिशो दश । मुष्णंस् तेज उपानीतस् तार्क्ष्येण स्तोत्रवाजिना ॥ 19 ॥
श्लोक 4.7.20
श्यामो हिरण्यरशनो ऽर्ककिरीटजुष्टो नीलालकभ्रमरमण्डितकुण्डलास्यः &अम्प्; शङ्खाब्जचक्रशरचापगदासिचर्मव्यग्रैर् हिरण्मयभुजैर् इव कर्णिकारः ॥ 20 ॥
श्लोक 4.7.21
वक्षस्य् अधिश्रितवधूर् वनमाल्य् उदारहासावलोककलया रमयंश् च विश्वम् । पार्श्वभ्रमद्व्यजनचामरराजहंसः श्वेतातपत्रशशिनोपरि रज्यमानः ॥ 21 ॥
श्लोक 4.7.22
तम् उपागतम् आलक्ष्य सर्वे सुरगणादयः । प्रणेमुः सहसोत्थाय ब्रह्मेन्द्रत्र्यक्षनायकाः ॥ 22 ॥
श्लोक 4.7.23
तत्तेजसा हतरुचः सन्नजिह्वाः ससाध्वसाः । मूर्ध्ना धृताञ्जलिपुटा उपतस्थुर् अधोक्षजम् ॥ 23 ॥
श्लोक 4.7.24
अप्य् अर्वाग्वृत्तयो यस्य महि त्व् आत्मभुव्आदयः । यथामति गृणन्ति स्म कृतानुग्रहविग्रहम् ॥ 24 ॥
श्लोक 4.7.25
दक्षो गृहीतार्हणसादनोत्तमं यज्ञेश्वरं विश्वसृजां परं गुरुम् &अम्प्; सुनन्दनन्दाद्य्अनुगैर् वृतं मुदा गृणन् प्रपेदे प्रयतः कृताञ्जलिः ॥ 25 ॥
श्लोक 4.7.26
शुद्धं स्वधाम्न्य् उपरताखिलबुद्ध्य्अवस्थं चिन्मात्रम् एकम् अभयं प्रतिषिध्य मायाम् । तिष्ठंस् तयैव पुरुषत्वम् उपेत्य तस्याम् आस्ते भवान् अपरिशुद्ध इवात्मतन्त्रः ॥ 26 ॥
श्लोक 4.7.27
तत्त्वं न ते वयम् अनञ्जन रुद्रशापात् कर्मण्य् अवग्रहधियो भगवन् विदामः । धर्मोपलक्षणम् इदं त्रिवृद् अध्वराख्यं ज्ञातं यद्अर्थम् अधिदैवम् अदो व्यवस्थाः ॥ 27 ॥
श्लोक 4.7.28
उत्पत्त्य्अध्वन्य् अशरण उरुक्लेशदुर्गे ऽन्तकोग्रव्यालान्विष्टे विषयमृगतृष्य् आत्मगेहोरुभारः । द्वन्द्वश्वभ्रे खलमृगभये शोकदावे ऽज्ञसार्थः पादौकस् ते शरणद कदा याति कामोपसृष्टः ॥ 28 ॥
श्लोक 4.7.29
तव वरद वराङ्घ्राव् आशिषेहाखिलार्थे ह्य् अपि मुनिभिर् असक्तैर् आदरेणार्हणीये । यदि रचितधियं माविद्यलोको ऽपविद्धं जपति न गणये तत् त्वत्परानुग्रहेण ॥ 29 ॥
श्लोक 4.7.30
यन् मायया गहनयापहृतात्मबोधा ब्रह्मादयस् तनुभृतस् तमसि स्वपन्तः । नात्मन्श्रितं तव विदन्त्य् अधुनापि तत्त्वं सो ऽयं प्रसीदतु भवान् प्रणतात्मबन्धुः ॥ 30 ॥
श्लोक 4.7.31
नैतत् स्वरूपं भवतो ऽसौ पदार्थभेदग्रहैः पुरुषो यावद् ईक्षेत् । ज्ञानस्य चार्थस्य गुणस्य चाश्रयो मायामयाद् व्यतिरिक्तो मतस् त्वम् ॥ 31 ॥
श्लोक 4.7.32
इदम् अप्य् अच्युत विश्वभावनं वपुर् आनन्दकरं मनोदृशाम् । सुरविद्विट्क्षपणैर् उदायुधैर् भुजदण्डैर् उपपन्नम् अष्टभिः ॥ 32 ॥
श्लोक 4.7.33
यज्ञो ऽयं तव यजनाय केन सृष्टो विध्वस्तः पशुपतिनाद्य दक्षकोपात् । तं नस् त्वं शवशयनाभशान्तमेधं यज्ञात्मन् नलिनरुचा दृशा पुनीहि ॥ 33 ॥
श्लोक 4.7.34
अनन्वितं ते भगवन् विचेष्टितं यद् आत्मना चरसि हि कर्म नाज्यसे । विभूतये यत उपसेदुर् ईश्वरीं न मन्यते स्वयम् अनुवर्ततीं भवान् ॥ 34 ॥
श्लोक 4.7.35
अयं त्वत्कथामृष्टपीयूषनद्यां मनोवारणः क्लेशदावाग्निदग्धः । तृषार्तो ऽवगाढो न सस्मार दावं न निष्क्रामति ब्रह्मसम्पन्नवन् नः ॥ 35 ॥
श्लोक 4.7.36
स्वागतं ते प्रसीदेश तुभ्यं नमः श्रीनिवास श्रिया कान्तया त्राहि नः । त्वाम् ऋते ऽधीश नाङ्गैर् मखः शोभते शीर्षहीनः कबन्धो यथा पुरुषः ॥ 36 ॥
श्लोक 4.7.37
दृष्टः किं नो दृग्भिर् असद्ग्रहैस् त्वं प्रत्यग्द्रष्टा दृश्यते येन विश्वम् । माया ह्य् एषा भवदीया हि भूमन् यस् त्वं षष्ठः पञ्चभिर् भासि भूतैः ॥ 37 ॥
श्लोक 4.7.38
प्रेयान् न ते ऽन्यो ऽस्त्य् अमुतस् त्वयि प्रभो विश्वात्मनीक्षेन् न पृथग् य आत्मनः । अथापि भक्त्येश तयोपधावताम् अनन्यवृत्त्यानुगृहाण वत्सल ॥ 38 ॥
श्लोक 4.7.39
जगद्उद्भवस्थितिलयेषु दैवतो बहुभिद्यमानगुणयात्ममायया । रचितात्मभेदमतये स्वसंस्थया विनिवर्तितभ्रमगुणात्मने नमः ॥ 39 ॥
श्लोक 4.7.40
नमस् ते श्रितसत्त्वाय धर्मादीनां च सूतये । निर्गुणाय च यत्काष्ठां नाहं वेदापरे ऽपि च ॥ 40 ॥
श्लोक 4.7.41
यत्तेजसाहं सुसमिद्धतेजा हव्यं वहे स्वध्वर आज्यसिक्तम् । तं यज्ञियं पञ्चविधं च पञ्चभिः स्विष्टं यजुर्भिः प्रणतो ऽस्मि यज्ञम् ॥ 41 ॥
श्लोक 4.7.42
पुरा कल्पापाये स्वकृतम् उदरीकृत्य विकृतं त्वम् एवाद्यस् तस्मिन् सलिल उरगेन्द्राधिशयने । पुमान् शेषे सिद्धैर् हृदि विमृशिताध्यात्मपदविः स एवाद्याक्ष्णोर् यः पथि चरसि भृत्यान् अवसि नः ॥ 42 ॥
श्लोक 4.7.43
अंशांशास् ते देव मरीच्य्आदय एते ब्रह्मेन्द्राद्या देवगणा रुद्रपुरोगाः । क्रीडाभाण्डं विश्वम् इदं यस्य विभूमन् तस्मै नित्यं नाथ नमस् ते करवाम ॥ 43 ॥
श्लोक 4.7.44
त्वन्माययार्थम् अभिपद्य कलेवरे ऽस्मिन् कृत्वा ममाहम् इति दुर्मतिर् उत्पथैः स्वैः । क्षिप्तो ऽप्य् असद्विषयलालस आत्ममोहं युष्मत्कथामृतनिषेवक उद्व्युदस्येत् ॥ 44 ॥
श्लोक 4.7.45
त्वं क्रतुस् त्वं हविस् त्वं हुताशः स्वयं त्वं हि मन्त्रः समिद्दर्भपात्राणि च । त्वं सदस्यर्त्विजो दम्पती देवता अग्निहोत्रं स्वधा सोम आज्यं पशुः ॥ 45 ॥
श्लोक 4.7.46
त्वं पुरा गां रसाया महासूकरो दंष्ट्रया पद्मिनीं वारणेन्द्रो यथा । स्तूयमानो नदल् लीलया योगिभिर् व्युज्जहर्थ त्रयीगात्र यज्ञक्रतुः ॥ 46 ॥
श्लोक 4.7.47
स प्रसीद त्वम् अस्माकम् आकाङ्क्षतां दर्शनं ते परिभ्रष्टसत्कर्मणाम् । कीर्त्यमाने नृभिर् नाम्नि यज्ञेश ते यज्ञविघ्नाः क्षयं यान्ति तस्मै नमः ॥ 47 ॥
श्लोक 4.7.48
इति दक्षः कविर् यज्ञं भद्र रुद्राभिमर्शितम् । कीर्त्यमाने हृषीकेशे सन्निन्ये यज्ञभावने ॥ 48 ॥
श्लोक 4.7.49
भगवान् स्वेन भागेन सर्वात्मा सर्वभागभुक् । दक्षं बभाष आभाष्य प्रीयमाण इवानघ ॥ 49 ॥
श्लोक 4.7.50
अहं ब्रह्मा च शर्वश् च जगतः कारणं परम् । आत्मेश्वर उपद्रष्टा स्वयन्दृग् अविशेषणः ॥ 50 ॥
श्लोक 4.7.51
आत्ममायां समाविश्य सो ऽहं गुणमयीं द्विज । सृजन् रक्षन् हरन् विश्वं दध्रे संज्ञां क्रियोचिताम् ॥ 51 ॥
श्लोक 4.7.52
तस्मिन् ब्रह्मण्य् अद्वितीये केवले परमात्मनि । ब्रह्मरुद्रौ च भूतानि भेदेनाज्ञो ऽनुपश्यति ॥ 52 ॥
श्लोक 4.7.53
यथा पुमान् न स्वाङ्गेषु शिरःपाण्य्आदिषु क्वचित् । पारक्यबुद्धिं कुरुते एवं भूतेषु मत्परः ॥ 53 ॥
श्लोक 4.7.54
त्रयाणाम् एकभावानां यो न पश्यति वै भिदाम् । सर्वभूतात्मनां ब्रह्मन् स शान्तिम् अधिगच्छति ॥ 54 ॥
श्लोक 4.7.55
एवं भगवतादिष्टः प्रजापतिपतिर् हरिम् । अर्चित्वा क्रतुना स्वेन देवान् उभयतो ऽयजत् ॥ 55 ॥
श्लोक 4.7.56
रुद्रं च स्वेन भागेन ह्य् उपाधावत् समाहितः । कर्मणोदवसानेन सोमपान् इतरान् अपि । उदवस्य सहर्त्विग्भिः सस्नाव् अवभृथं ततः ॥ 56 ॥
श्लोक 4.7.57
तस्मा अप्य् अनुभावेन स्वेनैवावाप्तराधसे । धर्म एव मतिं दत्त्वा त्रिदशास् ते दिवं ययुः ॥ 57 ॥
श्लोक 4.7.58
एवं दाक्षायणी हित्वा सती पूर्वकलेवरम् । जज्ञे हिमवतः क्षेत्रे मेनायाम् इति शुश्रुम ॥ 58 ॥
श्लोक 4.7.59
तम् एव दयितं भूय आवृङ्क्ते पतिम् अम्बिका । अनन्यभावैकगतिं शक्तिः सुप्तेव पूरुषम् ॥ 59 ॥
श्लोक 4.7.60
एतद् भगवतः शम्भोः कर्म दक्षाध्वरद्रुहः । श्रुतं भागवताच् छिष्याद् उद्धवान् मे बृहस्पतेः ॥ 60 ॥
श्लोक 4.7.61
इदं पवित्रं परम् ईशचेष्टितं यशस्यम् आयुष्यम् अघौघमर्षणम् । यो नित्यदाकर्ण्य नरो ऽनुकीर्तयेद् धुनोत्य् अघं कौरव भक्तिभावतः ॥ 61 ॥