श्रीमद्भागवत चतुर्थ स्कन्ध अध्याय 8
श्रीमद्भागवत चतुर्थ स्कन्ध अध्याय 8 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 4.8.1
सनकाद्या नारदश् च ऋभुर् हंसो ऽरुणिर् यतिः । नैते गृहान् ब्रह्मसुता ह्य् आवसन्न् ऊर्ध्वरेतसः ॥ 1 ॥
श्लोक 4.8.2
मृषाधर्मस्य भार्यासीद् दम्भं मायां च शत्रुहन् । असूत मिथुनं तत् तु निरृतिर् जगृहे ऽप्रजः ॥ 2 ॥
श्लोक 4.8.3
तयोः समभवल् लोभो निकृतिश् च महामते । ताभ्यां क्रोधश् च हिंसा च यद् दुरुक्तिः स्वसा कलिः ॥ 3 ॥
श्लोक 4.8.4
दुरुक्तौ कलिर् आधत्त भयं मृत्युं च सत्तम । तयोश् च मिथुनं जज्ञे यातना निरयस् तथा ॥ 4 ॥
श्लोक 4.8.5
सङ्ग्रहेण मयाख्यातः प्रतिसर्गस् तवानघ । त्रिः श्रुत्वैतत् पुमान् पुण्यं विधुनोत्य् आत्मनो मलम् ॥ 5 ॥
श्लोक 4.8.6
अथातः कीर्तये वंशं पुण्यकीर्तेः कुरूद्वह । स्वायम्भुवस्यापि मनोर् हरेर् अंशांशजन्मनः ॥ 6 ॥
श्लोक 4.8.7
प्रियव्रतोत्तानपादौ शतरूपापतेः सुतौ । वासुदेवस्य कलया रक्षायां जगतः स्थितौ ॥ 7 ॥
श्लोक 4.8.8
जाये उत्तानपादस्य सुनीतिः सुरुचिस् तयोः । सुरुचिः प्रेयसी पत्युर् नेतरा यत्सुतो ध्रुवः ॥ 8 ॥
श्लोक 4.8.9
एकदा सुरुचेः पुत्रम् अङ्कम् आरोप्य लालयन् । उत्तमं नारुरुक्षन्तं ध्रुवं राजाभ्यनन्दत ॥ 9 ॥
श्लोक 4.8.10
तथा चिकीर्षमाणं तं सपत्न्यास् तनयं ध्रुवम् । सुरुचिः शृण्वतो राज्ञः सेर्ष्यम् आहातिगर्विता ॥ 10 ॥
श्लोक 4.8.11
न वत्स नृपतेर् धिष्ण्यं भवान् आरोढुम् अर्हति । न गृहीतो मया यत् त्वं कुक्षाव् अपि नृपात्मजः ॥ 11 ॥
श्लोक 4.8.12
बालो ऽसि बत नात्मानम् अन्यस्त्रीगर्भसम्भृतम् । नूनं वेद भवान् यस्य दुर्लभे ऽर्थे मनोरथः ॥ 12 ॥
श्लोक 4.8.13
तपसाराध्य पुरुषं तस्यैवानुग्रहेण मे । गर्भे त्वं साधयात्मानं यदीच्छसि नृपासनम् ॥ 13 ॥
श्लोक 4.8.14
मातुः सपत्न्याः स दुरुक्तिविद्धः श्वसन् रुषा दण्डहतो यथाहिः । हित्वा मिषन्तं पितरं सन्नवाचं जगाम मातुः प्ररुदन् सकाशम् ॥ 14 ॥
श्लोक 4.8.15
तं निःश्वसन्तं स्फुरिताधरोष्ठं सुनीतिर् उत्सङ्ग उदूह्य बालम् । निशम्य तत्पौरमुखान् नितान्तं सा विव्यथे यद् गदितं सपत्न्या ॥ 15 ॥
श्लोक 4.8.16
सोत्सृज्य धैर्यं विललाप शोकदावाग्निना दावलतेव बाला । वाक्यं सपत्न्याः स्मरती सरोजश्रिया दृशा बाष्पकलाम् उवाह ॥ 16 ॥
श्लोक 4.8.17
दीर्घं श्वसन्ती वृजिनस्य पारम् अपश्यती बालकम् आह बाला । मामङ्गलं तात परेषु मंस्था भुङ्क्ते जनो यत् परदुःखदस् तत् ॥ 17 ॥
श्लोक 4.8.18
सत्यं सुरुच्याभिहितं भवान् मे यद् दुर्भगाया उदरे गृहीतः । स्तन्येन वृद्धश् च विलज्जते यां भार्येति वा वोढुम् इडस्पतिर् माम् ॥ 18 ॥
श्लोक 4.8.19
आतिष्ठ तत् तात विमत्सरस् त्वम् उक्तं समात्रापि यद् अव्यलीकम् । आराधयाधोक्षजपादपद्मं यदीच्छसे ऽध्यासनम् उत्तमो यथा ॥ 19 ॥
श्लोक 4.8.20
यस्याङ्घ्रिपद्मं परिचर्य विश्वविभावनायात्तगुणाभिपत्तेः । अजो ऽध्यतिष्ठत् खलु पारमेष्ठ्यं पदं जितात्मश्वसनाभिवन्द्यम् ॥ 20 ॥
श्लोक 4.8.21
तथा मनुर् वो भगवान् पितामहो यम् एकमत्या पुरुदक्षिणैर् मखैः । इष्ट्वाभिपेदे दुरवापम् अन्यतो भौमं सुखं दिव्यम् अथापवर्ग्यम् ॥ 21 ॥
श्लोक 4.8.22
तम् एव वत्साश्रय भृत्यवत्सलं मुमुक्षुभिर् मृग्यपदाब्जपद्धतिम् । अनन्यभावे निजधर्मभाविते मनस्य् अवस्थाप्य भजस्व पूरुषम् ॥ 22 ॥
श्लोक 4.8.23
नान्यं ततः पद्मपलाशलोचनाद् दुःखच्छिदं ते मृगयामि कञ्चन । यो मृग्यते हस्तगृहीतपद्मया श्रियेतरैर् अङ्ग विमृग्यमाणया ॥ 23 ॥
श्लोक 4.8.24
एवं सञ्जल्पितं मातुर् आकर्ण्यार्थागमं वचः । सन्नियम्यात्मनात्मानं निश्चक्राम पितुः पुरात् ॥ 24 ॥
श्लोक 4.8.25
नारदस् तद् उपाकर्ण्य ज्ञात्वा तस्य चिकीर्षितम् । स्पृष्ट्वा मूर्धन्य् अघघ्नेन पाणिना प्राह विस्मितः ॥ 25 ॥
श्लोक 4.8.26
अहो तेजः क्षत्रियाणां मानभङ्गम् अमृष्यताम् । बालो ऽप्य् अयं हृदा धत्ते यत् समातुर् असद्वचः ॥ 26 ॥
श्लोक 4.8.27
नाधुनाप्य् अवमानं ते सम्मानं वापि पुत्रक । लक्षयामः कुमारस्य सक्तस्य क्रीडनादिषु ॥ 27 ॥
श्लोक 4.8.28
विकल्पे विद्यमाने ऽपि न ह्य् असन्तोषहेतवः । पुंसो मोहम् ऋते भिन्ना यल् लोके निजकर्मभिः ॥ 28 ॥
श्लोक 4.8.29
परितुष्येत् ततस् तात तावन्मात्रेण पूरुषः । दैवोपसादितं यावद् वीक्ष्येश्वरगतिं बुधः ॥ 29 ॥
श्लोक 4.8.30
अथ मात्रोपदिष्टेन योगेनावरुरुत्ससि । यत्प्रसादं स वै पुंसां दुराराध्यो मतो मम ॥ 30 ॥
श्लोक 4.8.31
मुनयः पदवीं यस्य निःसङ्गेनोरुजन्मभिः । न विदुर् मृगयन्तो ऽपि तीव्रयोगसमाधिना ॥ 31 ॥
श्लोक 4.8.32
अतो निवर्तताम् एष निर्बन्धस् तव निष्फलः । यतिष्यति भवान् काले श्रेयसां समुपस्थिते ॥ 32 ॥
श्लोक 4.8.33
यस्य यद् दैवविहितं स तेन सुखदुःखयोः । आत्मानं तोषयन् देही तमसः पारम् ऋच्छति ॥ 33 ॥
श्लोक 4.8.34
गुणाधिकान् मुदं लिप्सेद् अनुक्रोशं गुणाधमात् । मैत्रीं समानाद् अन्विच्छेन् न तापैर् अभिभूयते ॥ 34 ॥
श्लोक 4.8.35
सो ऽयं शमो भगवता सुखदुःखहतात्मनाम् । दर्शितः कृपया पुंसां दुर्दर्शो ऽस्मद्विधैस् तु यः ॥ 35 ॥
श्लोक 4.8.36
अथापि मे ऽविनीतस्य क्षात्त्रं घोरम् उपेयुषः । सुरुच्या दुर्वचोबाणैर् न भिन्ने श्रयते हृदि ॥ 36 ॥
श्लोक 4.8.37
पदं त्रिभुवनोत्कृष्टं जिगीषोः साधु वर्त्म मे । ब्रूह्य् अस्मत्पितृभिर् ब्रह्मन्न् अन्यैर् अप्य् अनधिष्ठितम् ॥ 37 ॥
श्लोक 4.8.38
नूनं भवान् भगवतो यो ऽङ्गजः परमेष्ठिनः । वितुदन्न् अटते वीणां हिताय जगतो ऽर्कवत् ॥ 38 ॥
श्लोक 4.8.39
इत्य् उदाहृतम् आकर्ण्य भगवान् नारदस् तदा । प्रीतः प्रत्याह तं बालं सद्वाक्यम् अनुकम्पया ॥ 39 ॥
श्लोक 4.8.40
जनन्याभिहितः पन्थाः स वै निःश्रेयसस्य ते । भगवान् वासुदेवस् तं भज तं प्रवणात्मना ॥ 40 ॥
श्लोक 4.8.41
धर्मार्थकाममोक्षाख्यं य इच्छेच् छ्रेय आत्मनः । एकं ह्य् एव हरेस् तत्र कारणं पादसेवनम् ॥ 41 ॥
श्लोक 4.8.42
तत् तात गच्छ भद्रं ते यमुनायास् तटं शुचि । पुण्यं मधुवनं यत्र सान्निध्यं नित्यदा हरेः ॥ 42 ॥
श्लोक 4.8.43
स्नात्वानुसवनं तस्मिन् कालिन्द्याः सलिले शिवे । कृत्वोचितानि निवसन्न् आत्मनः कल्पितासनः ॥ 43 ॥
श्लोक 4.8.44
प्राणायामेन त्रिवृता प्राणेन्द्रियमनोमलम् । शनैर् व्युदस्याभिध्यायेन् मनसा गुरुणा गुरुम् ॥ 44 ॥
श्लोक 4.8.45
प्रसादाभिमुखं शश्वत् प्रसन्नवदनेक्षणम् । सुनासं सुभ्रुवं चारुकपोलं सुरसुन्दरम् ॥ 45 ॥
श्लोक 4.8.46
तरुणं रमणीयाङ्गम् अरुणोष्ठेक्षणाधरम् । प्रणताश्रयणं नृम्णं शरण्यं करुणार्णवम् ॥ 46 ॥
श्लोक 4.8.47
श्रीवत्साङ्कं घनश्यामं पुरुषं वनमालिनम् । शङ्खचक्रगदापद्मैर् अभिव्यक्तचतुर्भुजम् ॥ 47 ॥
श्लोक 4.8.48
किरीटिनं कुण्डलिनं केयूरवलयान्वितम् । कौस्तुभाभरणग्रीवं पीतकौशेयवाससम् ॥ 48 ॥
श्लोक 4.8.49
काञ्चीकलापपर्यस्तं लसत्काञ्चननूपुरम् । दर्शनीयतमं शान्तं मनोनयनवर्धनम् ॥ 49 ॥
श्लोक 4.8.50
पद्भ्यां नखमणिश्रेण्या विलसद्भ्यां समर्चताम् । हृत्पद्मकर्णिकाधिष्ण्यम् आक्रम्यात्मन्य् अवस्थितम् ॥ 50 ॥
श्लोक 4.8.51
स्मयमानम् अभिध्यायेत् सानुरागावलोकनम् । नियतेनैकभूतेन मनसा वरदर्षभम् ॥ 51 ॥
श्लोक 4.8.52
एवं भगवतो रूपं सुभद्रं ध्यायतो मनः । निर्वृत्या परया तूर्णं सम्पन्नं न निवर्तते ॥ 52 ॥
श्लोक 4.8.53
जपश् च परमो गुह्यः श्रूयतां मे नृपात्मज । यं सप्तरात्रं प्रपठन् पुमान् पश्यति खेचरान् ॥ 53 ॥
श्लोक 4.8.54
मन्त्रेणानेन देवस्य कुर्याद् द्रव्यमयीं बुधः । सपर्यां विविधैर् द्रव्यैर् देशकालविभागवित् ॥ 54 ॥
श्लोक 4.8.55
सलिलैः शुचिभिर् माल्यैर् वन्यैर् मूलफलादिभिः । शस्ताङ्कुरांशुकैश् चार्चेत् तुलस्या प्रियया प्रभुम् ॥ 55 ॥
श्लोक 4.8.56
लब्ध्वा द्रव्यमयीम् अर्चां क्षित्य्अम्ब्व्आदिषु वार्चयेत् । आभृतात्मा मुनिः शान्तो यतवाङ् मितवन्यभुक् ॥ 56 ॥
श्लोक 4.8.57
स्वेच्छावतारचरितैर् अचिन्त्यनिजमायया । करिष्यत्य् उत्तमश्लोकस् तद् ध्यायेद् धृदयङ्गमम् ॥ 57 ॥
श्लोक 4.8.58
परिचर्या भगवतो यावत्यः पूर्वसेविताः । ता मन्त्रहृदयेनैव प्रयुञ्ज्यान् मन्त्रमूर्तये ॥ 58 ॥
श्लोक 4.8.59
एवं कायेन मनसा वचसा च मनोगतम् । परिचर्यमाणो भगवान् भक्तिमत्परिचर्यया ॥ 59 ॥
श्लोक 4.8.60
पुंसाम् अमायिनां सम्यग् भजतां भाववर्धनः । श्रेयो दिशत्य् अभिमतं यद् धर्मादिषु देहिनाम् ॥ 60 ॥
श्लोक 4.8.61
विरक्तश् चेन्द्रियरतौ भक्तियोगेन भूयसा । तं निरन्तरभावेन भजेताद्धा विमुक्तये ॥ 61 ॥
श्लोक 4.8.62
इत्य् उक्तस् तं परिक्रम्य प्रणम्य च नृपार्भकः । ययौ मधुवनं पुण्यं हरेश् चरणचर्चितम् ॥ 62 ॥
श्लोक 4.8.63
तपोवनं गते तस्मिन् प्रविष्टो ऽन्तःपुरं मुनिः । अर्हितार्हणको राज्ञा सुखासीन उवाच तम् ॥ 63 ॥
श्लोक 4.8.64
राजन् किं ध्यायसे दीर्घं मुखेन परिशुष्यता । किं वा न रिष्यते कामो धर्मो वार्थेन संयुतः ॥ 64 ॥
श्लोक 4.8.65
सुतो मे बालको ब्रह्मन् स्त्रैणेनाकरुणात्मना । निर्वासितः पञ्चवर्षः सह मात्रा महान् कविः ॥ 65 ॥
श्लोक 4.8.66
अप्य् अनाथं वने ब्रह्मन् मा स्मादन्त्य् अर्भकं वृकाः । श्रान्तं शयानं क्षुधितं परिम्लानमुखाम्बुजम् ॥ 66 ॥
श्लोक 4.8.67
अहो मे बत दौरात्म्यं स्त्रीजितस्योपधारय । यो ऽङ्कं प्रेम्णारुरुक्षन्तं नाभ्यनन्दम् असत्तमः ॥ 67 ॥
श्लोक 4.8.68
मा मा शुचः स्वतनयं देवगुप्तं विशाम्पते । तत्प्रभावम् अविज्ञाय प्रावृङ्क्ते यद्यशो जगत् ॥ 68 ॥
श्लोक 4.8.69
सुदुष्करं कर्म कृत्वा लोकपालैर् अपि प्रभुः । ऐष्यत्य् अचिरतो राजन् यशो विपुलयंस् तव ॥ 69 ॥
श्लोक 4.8.70
इति देवर्षिणा प्रोक्तं विश्रुत्य जगतीपतिः । राजलक्ष्मीम् अनादृत्य पुत्रम् एवान्वचिन्तयत् ॥ 70 ॥
श्लोक 4.8.71
तत्राभिषिक्तः प्रयतस् ताम् उपोष्य विभावरीम् । समाहितः पर्यचरद् ऋष्य्आदेशेन पूरुषम् ॥ 71 ॥
श्लोक 4.8.72
त्रिरात्रान्ते त्रिरात्रान्ते कपित्थबदराशनः । आत्मवृत्त्य्अनुसारेण मासं निन्ये ऽर्चयन् हरिम् ॥ 72 ॥
श्लोक 4.8.73
द्वितीयं च तथा मासं षष्ठे षष्ठे ऽर्भको दिने । तृणपर्णादिभिः शीर्णैः कृतान्नो ऽभ्यर्चयन् विभुम् ॥ 73 ॥
श्लोक 4.8.74
तृतीयं चानयन् मासं नवमे नवमे ऽहनि । अब्भक्ष उत्तमश्लोकम् उपाधावत् समाधिना ॥ 74 ॥
श्लोक 4.8.75
चतुर्थम् अपि वै मासं द्वादशे द्वादशे ऽहनि । वायुभक्षो जितश्वासो ध्यायन् देवम् अधारयत् ॥ 75 ॥
श्लोक 4.8.76
पञ्चमे मास्य् अनुप्राप्ते जितश्वासो नृपात्मजः । ध्यायन् ब्रह्म पदैकेन तस्थौ स्थाणुर् इवाचलः ॥ 76 ॥
श्लोक 4.8.77
सर्वतो मन आकृष्य हृदि भूतेन्द्रियाशयम् । ध्यायन् भगवतो रूपं नाद्राक्षीत् किञ्चनापरम् ॥ 77 ॥
श्लोक 4.8.78
आधारं महद्आदीनां प्रधानपुरुषेश्वरम् । ब्रह्म धारयमाणस्य त्रयो लोकाश् चकम्पिरे ॥ 78 ॥
श्लोक 4.8.79
यदैकपादेन स पार्थिवार्भकस् तस्थौ तद्अङ्गुष्ठनिपीडिता मही । ननाम तत्रार्धम् इभेन्द्रधिष्ठिता तरीव सव्येतरतः पदे पदे ॥ 79 ॥
श्लोक 4.8.80
तस्मिन्न् अभिध्यायति विश्वम् आत्मनो द्वारं निरुध्यासुम् अनन्यया धिया । लोका निरुच्छ्वासनिपीडिता भृशं सलोकपालाः शरणं ययुर् हरिम् ॥ 80 ॥
श्लोक 4.8.81
नैवं विदामो भगवन् प्राणरोधं चराचरस्याखिलसत्त्वधाम्नः । विधेहि तन् नो वृजिनाद् विमोक्षं प्राप्ता वयं त्वां शरणं शरण्यम् ॥ 81 ॥
श्लोक 4.8.82
मा भैष्ट बालं तपसो दुरत्ययान् निवर्तयिष्ये प्रतियात स्वधाम । यतो हि वः प्राणनिरोध आसीद् औत्तानपादिर् मयि सङ्गतात्मा ॥ 82 ॥