श्रीमद्भागवत पञ्चम स्कन्ध अध्याय 10
श्रीमद्भागवत पञ्चम स्कन्ध अध्याय 10 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 5.10.1
अथ सिन्धुसौवीरपते रहूगणस्य व्रजत इक्षुमत्यास् तटे तत्कुलपतिना शिबिकावाहपुरुषान्वेषणसमये दैवेनोपसादितः स द्विजवर उपलब्ध एष पीवा युवा संहननाङ्गो गोखरवद् धुरं वोढुम् अलम् इति पूर्वविष्टिगृहीतैः सह गृहीतः प्रसभम् अतद्अर्ह उवाह शिबिकां स महानुभावः ॥ 1 ॥
श्लोक 5.10.2
यदा हि द्विजवरस्येषुमात्रावलोकानुगतेर् न समाहिता पुरुषगतिस् तदा विषमगतां स्वशिबिकां रहूगण उपधार्य पुरुषान् अधिवहत आह हे वोढारः साध्व् अतिक्रमत किम् इति विषमम् उह्यते यानम् इति ॥ 2 ॥
श्लोक 5.10.3
अथ त ईश्वरवचः सोपालम्भम् उपाकर्ण्योपायतुरीयाच् छङ्कितमनसस् तं विज्ञापयां बभूवुः ॥ 3 ॥
श्लोक 5.10.4
न वयं नरदेव प्रमत्ता भवन्नियमानुपथाः साध्व् एव वहामः अयम् अधुनैव नियुक्तो ऽपि न द्रुतं व्रजति नानेन सह वोढुम् उ ह वयं पारयाम इति ॥ 4 ॥
श्लोक 5.10.5
सांसर्गिको दोष एव नूनम् एकस्यापि सर्वेषां सांसर्गिकाणां भवितुम् अर्हतीति निश्चित्य निशम्य कृपणवचो राजा रहूगण उपासितवृद्धो ऽपि निसर्गेण बलात् कृत ईषद्उत्थितमन्युर् अविस्पष्टब्रह्मतेजसं जातवेदसम् इव रजसावृतमतिर् आह ॥ 5 ॥
श्लोक 5.10.6
अहो कष्टं भ्रातर् व्यक्तम् उरुपरिश्रान्तो दीर्घम् अध्वानम् एक एव ऊहिवान् सुचिरं नातिपीवा न संहननाङ्गो जरसा चोपद्रुतो भवान् सखे नो एवापर एते सङ्घट्टिन इति बहुविप्रलब्धो ऽप्य् अविद्यया रचितद्रव्यगुणकर्माशयस्वचरमकलेवरे ऽवस्तुनि संस्थानविशेषे ऽहं ममेत्य् अनध्यारोपितमिथ्याप्रत्ययो ब्रह्मभूतस् तूष्णीं शिबिकां पूर्ववद् उवाह ॥ 6 ॥
श्लोक 5.10.7
अथ पुनः स्वशिबिकायां विषमगतायां प्रकुपित उवाच रहूगणः किम् इदम् अरे त्वं जीवन्मृतो मां कदर्थीकृत्य भर्तृशासनम् अतिचरसि प्रमत्तस्य च ते करोमि चिकित्सां दण्डपाणिर् इव जनताया यथा प्रकृतिं स्वां भजिष्यस इति ॥ 7 ॥
श्लोक 5.10.8
एवं बह्व् अबद्धम् अपि भाषमाणं नरदेवाभिमानं रजसा तमसानुविद्धेन मदेन तिरस्कृताशेषभगवत्प्रियनिकेतं पण्डितमानिनं स भगवान् ब्राह्मणो ब्रह्मभूतसर्वभूतसुहृद्आत्मा योगेश्वरचर्यायां नातिव्युत्पन्नमतिं स्मयमान इव विगतस्मय इदम् आह ॥ 8 ॥
श्लोक 5.10.9
त्वयोदितं व्यक्तम् अविप्रलब्धं भर्तुः स मे स्याद् यदि वीर भारः । गन्तुर् यदि स्याद् अधिगम्यम् अध्वा पीवेति राशौ न विदां प्रवादः ॥ 9 ॥
श्लोक 5.10.10
स्थौल्यं कार्श्यं व्याधय आधयश् च क्षुत् तृड् भयं कलिर् इच्छा जरा च । निद्रा रतिर् मन्युर् अहं मदः शुचो देहेन जातस्य हि मे न सन्ति ॥ 10 ॥
श्लोक 5.10.11
जीवन्मृतत्वं नियमेन राजन् आद्यन्तवद् यद् विकृतस्य दृष्टम् । स्वस्वाम्यभावो ध्रुव ईड्य यत्र तर्ह्य् उच्यते ऽसौ विधिकृत्ययोगः ॥ 11 ॥
श्लोक 5.10.12
विशेषबुद्धेर् विवरं मनाक् च पश्याम यन् न व्यवहारतो ऽन्यत् । क ईश्वरस् तत्र किम् ईशितव्यं तथापि राजन् करवाम किं ते ॥ 12 ॥
श्लोक 5.10.13
उन्मत्तमत्तजडवत् स्वसंस्थां गतस्य मे वीर चिकित्सितेन । अर्थः कियान् भवता शिक्षितेन स्तब्धप्रमत्तस्य च पिष्टपेषः ॥ 13 ॥
श्लोक 5.10.14
एतावद् अनुवादपरिभाषया प्रत्युदीर्य मुनिवर उपशमशील उपरतानात्म्यनिमित्त उपभोगेन कर्मारब्धं व्यपनयन् राजयानम् अपि तथोवाह ॥ 14 ॥
श्लोक 5.10.15
स चापि पाण्डवेय सिन्धुसौवीरपतिस् तत्त्वजिज्ञासायां सम्यक्श्रद्धयाधिकृताधिकारस् तद् धृदयग्रन्थिमोचनं द्विजवच आश्रुत्य बहुयोगग्रन्थसम्मतं त्वरयावरुह्य शिरसा पादमूलम् उपसृतः क्षमापयन् विगतनृपदेवस्मय उवाच ॥ 15 ॥
श्लोक 5.10.16
कस् त्वं निगूढश् चरसि द्विजानां बिभर्षि सूत्रं कतमो ऽवधूतः । कस्यासि कुत्रत्य इहापि कस्मात् क्षेमाय नश् चेद् असि नोत शुक्लः ॥ 16 ॥
श्लोक 5.10.17
नाहं विशङ्के सुरराजवज्रान् न त्र्यक्षशूलान् न यमस्य दण्डात् । नाग्न्य्अर्कसोमानिलवित्तपास्त्राच् छङ्के भृशं ब्रह्मकुलावमानात् ॥ 17 ॥
श्लोक 5.10.18
तद् ब्रूह्य् असङ्गो जडवन् निगूढविज्ञानवीर्यो विचरस्य् अपारः । वचांसि योगग्रथितानि साधो न नः क्षमन्ते मनसापि भेत्तुम् ॥ 18 ॥
श्लोक 5.10.19
अहं च योगेश्वरम् आत्मतत्त्वविदां मुनीनां परमं गुरुं वै । प्रष्टुं प्रवृत्तः किम् इहारणं तत् साक्षाद् धरिं ज्ञानकलावतीर्णम् ॥ 19 ॥
श्लोक 5.10.20
स वै भवा लोकनिरीक्षणार्थम् अव्यक्तलिङ्गो विचरत्य् अपि स्वित् । योगेश्वराणां गतिम् अन्धबुद्धिः कथं विचक्षीत गृहानुबन्धः ॥ 20 ॥
श्लोक 5.10.21
दृष्टः श्रमः कर्मत आत्मनो वै भर्तुर् गन्तुर् भवतश् चानुमन्ये । यथासतोदानयनाद्य्अभावात् समूल इष्टो व्यवहारमार्गः ॥ 21 ॥
श्लोक 5.10.22
स्थाल्य्अग्नितापात् पयसो ऽभितापस् तत्तापतस् तण्डुलगर्भरन्धिः । देहेन्द्रियास्वाशयसन्निकर्षात् तत्संसृतिः पुरुषस्यानुरोधात् ॥ 22 ॥
श्लोक 5.10.23
शास्ताभिगोप्ता नृपतिः प्रजानां यः किङ्करो वै न पिनष्टि पिष्टम् । स्वधर्मम् आराधनम् अच्युतस्य यद् ईहमानो विजहात्य् अघौघम् ॥ 23 ॥
श्लोक 5.10.24
तन् मे भवान् नरदेवाभिमानमदेन तुच्छीकृतसत्तमस्य । कृषीष्ट मैत्रीदृशम् आर्तबन्धो यथा तरे सद्अवध्यानम् अंहः ॥ 24 ॥
श्लोक 5.10.25
न विक्रिया विश्वसुहृत्सखस्य साम्येन वीताभिमतेस् तवापि । महद्विमानात् स्वकृताद् धि मादृङ् नङ्क्ष्यत्य् अदूराद् अपि शूलपाणिः ॥ 25 ॥