श्रीमद्भागवत पञ्चम स्कन्ध अध्याय 9
श्रीमद्भागवत पञ्चम स्कन्ध अध्याय 9 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 5.9.1
अथ कस्यचिद् द्विजवरस्याङ्गिरःप्रवरस्य शमदमतपःस्वाध्यायाध्ययनत्यागसन्तोषतितिक्षाप्रश्रयविद्यानसूयात्मज्ञानानन्दयुक्तस्यात्मसदृशश्रुतशीलाचाररूपौदार्यगुणा नव सोदर्या अङ्गजा बभूवुर् मिथुनं च यवीयस्यां भार्यायाम् ॥ 1 ॥
श्लोक 5.9.2
यस् तु तत्र पुमांस् तं परमभागवतं राजर्षिप्रवरं भरतम् उत्सृष्टमृगशरीरं चरमशरीरेण विप्रत्वं गतम् आहुः ॥ 2 ॥
श्लोक 5.9.3
तत्रापि स्वजनसङ्गाच् च भृशम् उद्विजमानो भगवतः कर्मबन्धविध्वंसनश्रवणस्मरणगुणविवरणचरणारविन्दयुगलं मनसा विदधद् आत्मनः प्रतिघातम् आशङ्कमानो भगवद्अनुग्रहेणानुस्मृतस्वपूर्वजन्मावलिर् आत्मानम् उन्मत्तजडान्धबधिरस्वरूपेण दर्शयाम् आस लोकस्य ॥ 3 ॥
श्लोक 5.9.4
तस्यापि ह वा आत्मजस्य विप्रः पुत्रस्नेहानुबद्धमना आसमावर्तनात् संस्कारान् यथोपदेशं विदधान उपनीतस्य च पुनः शौचाचमनादीन् कर्मनियमान् अनभिप्रेतान् अपि समशिक्षयद् अनुशिष्टेन हि भाव्यं पितुः पुत्रेणेति ॥ 4 ॥
श्लोक 5.9.5
स चापि तद् उ ह पितृसन्निधाव् एवासध्रीचीनम् इव स्म करोति छन्दांस्य् अध्यापयिष्यन् सह व्याहृतिभिः सप्रणवशिरस् त्रिपदीं सावित्रीं ग्रैष्मवासन्तिकान् मासान् अधीयानम् अप्य् असमवेतरूपं ग्राहयाम् आस ॥ 5 ॥
श्लोक 5.9.6
एवं स्वतनुज आत्मन्य् अनुरागावेशितचित्तः शौचाध्ययनव्रतनियमगुर्व्अनलशुश्रूषणाद्य्औपकुर्वाणककर्माण्य् अनभियुक्तान्य् अपि समनुशिष्टेन भाव्यम् इत्य् असद्आग्रहः पुत्रम् अनुशास्य स्वयं तावद् अनधिगतमनोरथः कालेनाप्रमत्तेन स्वयं गृह एव प्रमत्त उपसंहृतः ॥ 6 ॥
श्लोक 5.9.7
अथ यवीयसी द्विजसती स्वगर्भजातं मिथुनं सपत्न्या उपन्यस्य स्वयम् अनुसंस्थया पतिलोकम् अगात् ॥ 7 ॥
श्लोक 5.9.8
पितर्य् उपरते भ्रातर एनम् अतत्प्रभावविदस् त्रय्यां विद्यायाम् एव पर्यवसितमतयो न परविद्यायां जडमतिर् इति भ्रातुर् अनुशासननिर्बन्धान् न्यवृत्सन्त ॥ 8 ॥
श्लोक 5.9.9
स च प्राकृतैर् द्विपदपशुभिर् उन्मत्तजडबधिरमूकेत्य् अभिभाष्यमाणो यदा तद्अनुरूपाणि प्रभाषते कर्माणि च कार्यमाणः परेच्छया करोति विष्टितो वेतनतो वा याच्ञ्या यदृच्छया वोपसादितम् अल्पं बहु मृष्टं कदन्नं वाभ्यवहरति परं नेन्द्रियप्रीतिनिमित्तम् नित्यनिवृत्तनिमित्तस्वसिद्धविशुद्धानुभवानन्दस्वात्मलाभाधिगमः सुखदुःखयोर् द्वन्द्वनिमित्तयोर् असम्भावितदेहाभिमानः ॥ 9 ॥
श्लोक 5.9.10
शीतोष्णवातवर्षेषु वृष इवानावृताङ्गः पीनः संहननाङ्गः स्थण्डिलसंवेशनानुन्मर्दनामज्जनरजसा महामणिर् इवानभिव्यक्तब्रह्मवर्चसः कुपटावृतकटिर् उपवीतेनोरुमषिणा द्विजातिर् इति ब्रह्मबन्धुर् इति संज्ञयातज्ज्ञजनावमतो विचचार ॥ 10 ॥
श्लोक 5.9.11
यदा तु परत आहारं कर्मवेतनत ईहमानः स्वभ्रातृभिर् अपि केदारकर्मणि निरूपितस् तद् अपि करोति किन्तु न समं विषमं न्यूनम् अधिकम् इति वेद कणपिण्याकफलीकरणकुल्माषस्थालीपुरीषादीन्य् अप्य् अमृतवद् अभ्यवहरति ॥ 11 ॥
श्लोक 5.9.12
अथ कदाचित् कश्चिद् वृषलपतिर् भद्रकाल्यै पुरुषपशुम् आलभतापत्यकामः ॥ 12 ॥
श्लोक 5.9.13
तस्य ह दैवमुक्तस्य पशोः पदवीं तद्अनुचराः परिधावन्तो निशि निशीथसमये तमसावृतायाम् अनधिगतपशव आकस्मिकेन विधिना केदारान् वीरासनेन मृगवराहादिभ्यः संरक्षमाणम् अङ्गिरःप्रवरसुतम् अपश्यन् ॥ 13 ॥
श्लोक 5.9.14
अथ त एनम् अनवद्यलक्षणम् अवमृश्य भर्तृकर्मनिष्पत्तिं मन्यमाना बद्ध्वा रशनया चण्डिकागृहम् उपनिन्युर् मुदा विकसित् अवदनाः ॥ 14 ॥
श्लोक 5.9.15
अथ पणयस् तं स्वविधिनाभिषिच्याहतेन वाससाच्छाद्य भूषणालेपस्रक्तिलकादिभिर् उपस्कृतं भुक्तवन्तं धूपदीपमाल्यलाजकिसलयाङ्कुरफलोपहारोपेतया वैशससंस्थया महता गीतस्तुतिमृदङ्गपणवघोषेण च पुरुषपशुं भद्रकाल्याः पुरत उपवेशयाम् आसुः ॥ 15 ॥
श्लोक 5.9.16
अथ वृषलराजपणिः पुरुषपशोर् असृग्आसवेन देवीं भद्रकालीं यक्ष्यमाणस् तद्अभिमन्त्रितम् असिम् अतिकरालनिशितम् उपाददे ॥ 16 ॥
श्लोक 5.9.17
इति तेषां वृषलानां रजस्तमःप्रकृतीनां धनमदरजउत्सिक्तमनसां भगवत्कलावीरकुलं कदर्थीकृत्योत्पथेन स्वैरं विहरतां हिंसाविहाराणां कर्मातिदारुणं यद् ब्रह्मभूतस्य साक्षाद् ब्रह्मर्षिसुतस्य निर्वैरस्य सर्वभूतसुहृदः सूनायाम् अप्य् अननुमतम् आलम्भनं तद् उपलभ्य ब्रह्मतेजसातिदुर्विषहेण दन्दह्यमानेन वपुषा सहसोच्चचाट सैव देवी भद्रकाली ॥ 17 ॥
श्लोक 5.9.18
भृशम् अमर्षरोषावेशरभसविलसितभ्रुकुटिविटपकुटिलदंष्ट्रारुणेक्षणाटोपातिभयानकवदना हन्तुकामेवेदं महाट्टहासम् अतिसंरम्भेण विमुञ्चन्ती तत उत्पत्य पापीयसां दुष्टानां तेनैवासिना विवृक्णशीर्ष्णां गलात् स्रवन्तम् असृग्आसवम् अत्युष्णं सह गणेन निपीयातिपानमदविह्वलोच्चैस्तरां स्वपार्षदैः सह जगौ ननर्त च विजहार च शिरःकन्दुकलीलया ॥ 18 ॥
श्लोक 5.9.19
एवम् एव खलु महद्अभिचारातिक्रमः कार्त्स्न्येनात्मने फलति ॥ 19 ॥
श्लोक 5.9.20
न वा एतद् विष्णुदत्त महद्अद्भुतं यद् असम्भ्रमः स्वशिरश्छेदन आपतिते ऽपि विमुक्तदेहाद्य्आत्मभावसुदृढहृदयग्रन्थीनां सर्वसत्त्वसुहृद्आत्मनां निर्वैराणां साक्षाद् भगवतानिमिषारिवरायुधेनाप्रमत्तेन तैस् तैर् भावैः परिरक्ष्यमाणानां तत्पादमूलम् अकुतश्चिद्भयम् उपसृतानां भागवतपरमहंसानाम् ॥ 20 ॥