श्रीमद्भागवत पञ्चम स्कन्ध अध्याय 11
श्रीमद्भागवत पञ्चम स्कन्ध अध्याय 11 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 5.11.1
अकोविदः कोविदवादवादान् वदस्य् अथो नातिविदां वरिष्ठः । न सूरयो हि व्यवहारम् एनं तत्त्वावमर्शेन सहामनन्ति ॥ 1 ॥
श्लोक 5.11.2
तथैव राजन्न् उरुगार्हमेधवितानविद्योरुविजृम्भितेषु । न वेदवादेषु हि तत्त्ववादः प्रायेण शुद्धो नु चकास्ति साधुः ॥ 2 ॥
श्लोक 5.11.3
न तस्य तत्त्वग्रहणाय साक्षाद् वरीयसीर् अपि वाचः समासन् । स्वप्ने निरुक्त्या गृहमेधिसौख्यं न यस्य हेयानुमितं स्वयं स्यात् ॥ 3 ॥
श्लोक 5.11.4
यावन् मनो रजसा पूरुषस्य सत्त्वेन वा तमसा वानुरुद्धम् । चेतोभिर् आकूतिभिर् आतनोति निरङ्कुशं कुशलं चेतरं वा ॥ 4 ॥
श्लोक 5.11.5
स वासनात्मा विषयोपरक्तो गुणप्रवाहो विकृतः षोडशात्मा । बिभ्रत् पृथङ्नामभि रूपभेदम् अन्तर्बहिष्ट्वं च पुरैस् तनोति ॥ 5 ॥
श्लोक 5.11.6
दुःखं सुखं व्यतिरिक्तं च तीव्रं कालोपपन्नं फलम् आव्यनक्ति । आलिङ्ग्य मायारचितान्तरात्मा स्वदेहिनं संसृतिचक्रकूटः ॥ 6 ॥
श्लोक 5.11.7
तावान् अयं व्यवहारः सदाविः क्षेत्रज्ञसाक्ष्यो भवति स्थूलसूक्ष्मः । तस्मान् मनो लिङ्गम् अदो वदन्ति गुणागुणत्वस्य परावरस्य ॥ 7 ॥
श्लोक 5.11.8
गुणानुरक्तं व्यसनाय जन्तोः क्षेमाय नैर्गुण्यम् अथो मनः स्यात् । यथा प्रदीपो घृतवर्तिम् अश्नन् शिखाः सधूमा भजति ह्य् अन्यदा स्वम् । पदं तथा गुणकर्मानुबद्धं वृत्तीर् मनः श्रयते ऽन्यत्र तत्त्वम् ॥ 8 ॥
श्लोक 5.11.9
एकादशासन् मनसो हि वृत्तय आकूतयः पञ्च धियो ऽभिमानः । मात्राणि कर्माणि पुरं च तासां वदन्ति हैकादश वीर भूमीः ॥ 9 ॥
श्लोक 5.11.10
गन्धाकृतिस्पर्शरसश्रवांसि विसर्गरत्य्अर्त्य्अभिजल्पशिल्पाः । एकादशं स्वीकरणं ममेति शय्याम् अहं द्वादशम् एक आहुः ॥ 10 ॥
श्लोक 5.11.11
द्रव्यस्वभावाशयकर्मकालैर् एकादशामी मनसो विकाराः । सहस्रशः शतशः कोटिशश् च क्षेत्रज्ञतो न मिथो न स्वतः स्युः ॥ 11 ॥
श्लोक 5.11.12
क्षेत्रज्ञ एता मनसो विभूतीर् जीवस्य मायारचितस्य नित्याः । आविर्हिताः क्वापि तिरोहिताश् च शुद्धो विचष्टे ह्य् अविशुद्धकर्तुः ॥ 12 ॥
श्लोक 5.11.13
क्षेत्रज्ञ आत्मा पुरुषः पुराणः साक्षात् स्वयं ज्योतिर् अजः परेशः । नारायणो भगवान् वासुदेवः स्वमाययात्मन्य् अवधीयमानः ॥ 13 ॥
श्लोक 5.11.14
यथानिलः स्थावरजङ्गमानाम् आत्मस्वरूपेण निविष्ट ईशेत् । एवं परो भगवान् वासुदेवः क्षेत्रज्ञ आत्मेदम् अनुप्रविष्टः ॥ 14 ॥
श्लोक 5.11.15
न यावद् एतां तनुभृन् नरेन्द्र विधूय मायां वयुनोदयेन । विमुक्तसङ्गो जितषट्सपत्नो वेदात्मतत्त्वं भ्रमतीह तावत् ॥ 15 ॥
श्लोक 5.11.16
न यावद् एतन् मन आत्मलिङ्गं संसारतापावपनं जनस्य । यच् छोकमोहामयरागलोभवैरानुबन्धं ममतां विधत्ते ॥ 16 ॥
श्लोक 5.11.17
भ्रातृव्यम् एनं तद् अदभ्रवीर्यम् उपेक्षयाध्येधितम् अप्रमत्तः । गुरोर् हरेश् चरणोपासनास्त्रो जहि व्यलीकं स्वयम् आत्ममोषम् ॥ 17 ॥