मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत पञ्चम स्कन्ध अध्याय 12

श्रीमद्भागवत पञ्चम स्कन्ध अध्याय 12 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 5.12.1

नमो नमः कारणविग्रहाय स्वरूपतुच्छीकृतविग्रहाय । नमो ऽवधूत द्विजबन्धुलिङ्गनिगूढनित्यानुभवाय तुभ्यम् ॥ 1 ॥

श्लोक 5.12.2

ज्वरामयार्तस्य यथागदं सत् निदाघदग्धस्य यथा हिमाम्भः । कुदेहमानाहिविदष्टदृष्टेः ब्रह्मन् वचस् ते ऽमृतम् औषधं मे ॥ 2 ॥

श्लोक 5.12.3

तस्माद् भवन्तं मम संशयार्थं प्रक्ष्यामि पश्चाद् अधुना सुबोधम् । अध्यात्मयोगग्रथितं तवोक्तम् आख्याहि कौतूहलचेतसो मे ॥ 3 ॥

श्लोक 5.12.4

यद् आह योगेश्वर दृश्यमानं क्रियाफलं सद्व्यवहारमूलम् । न ह्य् अञ्जसा तत्त्वविमर्शनाय भवान् अमुष्मिन् भ्रमते मनो मे ॥ 4 ॥

श्लोक 5.12.5

अयं जनो नाम चलन् पृथिव्यां यः पार्थिवः पार्थिव कस्य हेतोः । तस्यापि चाङ्घ्र्योर् अधि गुल्फजङ्घाजानूरुमध्योरशिरोधरांसाः ॥ 5 ॥

श्लोक 5.12.6

अंसे ऽधि दार्वी शिबिका च यस्यां सौवीरराजेत्य् अपदेश आस्ते । यस्मिन् भवान् रूढनिजाभिमानो राजास्मि सिन्धुष्व् इति दुर्मदान्धः ॥ 6 ॥

श्लोक 5.12.7

शोच्यान् इमांस् त्वम् अधिकष्टदीनान् विष्ट्या निगृह्णन् निरनुग्रहो ऽसि । जनस्य गोप्तास्मि विकत्थमानो न शोभसे वृद्धसभासु धृष्टः ॥ 7 ॥

श्लोक 5.12.8

यदा क्षिताव् एव चराचरस्य विदाम निष्ठां प्रभवं च नित्यम् । तन् नामतो ऽन्यद् व्यवहारमूलं निरूप्यतां सत्क्रिययानुमेयम् ॥ 8 ॥

श्लोक 5.12.9

एवं निरुक्तं क्षितिशब्दवृत्तम् असन् निधानात् परमाणवो ये । अविद्यया मनसा कल्पितास् ते येषां समूहेन कृतो विशेषः ॥ 9 ॥

श्लोक 5.12.10

एवं कृशं स्थूलम् अणुर् बृहद् यद् असच् च सज् जीवम् अजीवम् अन्यत् । द्रव्यस्वभावाशयकालकर्मनाम्नाजयावेहि कृतं द्वितीयम् ॥ 10 ॥

श्लोक 5.12.11

ज्ञानं विशुद्धं परमार्थम् एकम् अनन्तरं त्व् अबहिर् ब्रह्म सत्यम् । प्रत्यक् प्रशान्तं भगवच्छब्दसंज्ञं यद् वासुदेवं कवयो वदन्ति ॥ 11 ॥

श्लोक 5.12.12

रहूगणैतत् तपसा न याति न चेज्यया निर्वपणाद् गृहाद् वा । न च्छन्दसा नैव जलाग्निसूर्यैर् विना महत्पादरजोऽभिषेकम् ॥ 12 ॥

श्लोक 5.12.13

यत्रोत्तमश्लोकगुणानुवादः प्रस्तूयते ग्राम्यकथाविघातः । निषेव्यमाणो ऽनुदिनं मुमुक्षोर् मतिं सतीं यच्छति वासुदेवे ॥ 13 ॥

श्लोक 5.12.14

अहं पुरा भरतो नाम राजा विमुक्तदृष्टश्रुतसङ्गबन्धः । आराधनं भगवत ईहमानो मृगो ऽभवं मृगसङ्गाद् धतार्थः ॥ 14 ॥

श्लोक 5.12.15

सा मां स्मृतिर् मृगदेहे ऽपि वीर कृष्णार्चनप्रभवा नो जहाति । अथो अहं जनसङ्गाद् असङ्गो विशङ्कमानो ऽविवृतश् चरामि ॥ 15 ॥

श्लोक 5.12.16

तस्मान् नरो ऽसङ्गसुसङ्गजातज्ञानासिनेहैव विवृक्णमोहः । हरिं तद्ईहाकथनश्रुताभ्यां लब्धस्मृतिर् यात्य् अतिपारम् अध्वनः ॥ 16 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ