श्रीमद्भागवत पञ्चम स्कन्ध अध्याय 13
श्रीमद्भागवत पञ्चम स्कन्ध अध्याय 13 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 5.13.1
दुरत्यये ऽध्वन्य् अजया निवेशितो रजस्तमःसत्त्वविभक्तकर्मदृक् । स एष सार्थो ऽर्थपरः परिभ्रमन् भवाटवीं याति न शर्म विन्दति ॥ 1 ॥
श्लोक 5.13.2
यस्याम् इमे षण् नरदेव दस्यवः सार्थं विलुम्पन्ति कुनायकं बलात् । गोमायवो यत्र हरन्ति सार्थिकं प्रमत्तम् आविश्य यथोरणं वृकाः ॥ 2 ॥
श्लोक 5.13.3
प्रभूतवीरुत्तृणगुल्मगह्वरे कठोरदंशैर् मशकैर् उपद्रुतः । क्वचित् तु गन्धर्वपुरं प्रपश्यति क्वचित् क्वचिच् चाशुरयोल्मुकग्रहम् ॥ 3 ॥
श्लोक 5.13.4
निवासतोयद्रविणात्मबुद्धिस् ततस् ततो धावति भो अटव्याम् । क्वचिच् च वात्योत्थितपांसुधूम्रा दिशो न जानाति रजस्वलाक्षः ॥ 4 ॥
श्लोक 5.13.5
अदृश्यझिल्लीस्वनकर्णशूल उलूकवाग्भिर् व्यथितान्तरात्मा । अपुण्यवृक्षान् श्रयते क्षुधार्दितो मरीचितोयान्य् अभिधावति क्वचित् ॥ 5 ॥
श्लोक 5.13.6
क्वचिद् वितोयाः सरितो ऽभियाति परस्परं चालषते निरन्धः । आसाद्य दावं क्वचिद् अग्नितप्तो निर्विद्यते क्व च यक्षैर् हृतासुः ॥ 6 ॥
श्लोक 5.13.7
शूरैर् हृतस्वः क्व च निर्विण्णचेताः शोचन् विमुह्यन्न् उपयाति कश्मलम् । क्वचिच् च गन्धर्वपुरं प्रविष्टः प्रमोदते निर्वृतवन् मुहूर्तम् ॥ 7 ॥
श्लोक 5.13.8
चलन् क्वचित् कण्टकशर्कराङ्घ्रिर् नगारुरुक्षुर् विमना इवास्ते । पदे पदे ऽभ्यन्तरवह्निनार्दितः कौटुम्बिकः क्रुध्यति वै जनाय ॥ 8 ॥
श्लोक 5.13.9
क्वचिन् निगीर्णो ऽजगराहिना जनो नावैति किञ्चिद् विपिने ऽपविद्धः । दष्टः स्म शेते क्व च दन्दशूकैर् अन्धो ऽन्धकूपे पतितस् तमिस्रे ॥ 9 ॥
श्लोक 5.13.10
कर्हि स्म चित् क्षुद्ररसान् विचिन्वंस् तन्मक्षिकाभिर् व्यथितो विमानः । तत्रातिकृच्छ्रात् प्रतिलब्धमानो बलाद् विलुम्पन्त्य् अथ तं ततो ऽन्ये ॥ 10 ॥
श्लोक 5.13.11
क्वचिच् च शीतातपवातवर्षप्रतिक्रियां कर्तुम् अनीश आस्ते । क्वचिन् मिथो विपणन् यच् च किञ्चिद् विद्वेषम् ऋच्छत्य् उत वित्तशाठ्यात् ॥ 11 ॥
श्लोक 5.13.12
क्वचित् क्वचित् क्षीणधनस् तु तस्मिन् शय्यासनस्थानविहारहीनः । याचन् पराद् अप्रतिलब्धकामः पारक्यदृष्टिर् लभते ऽवमानम् ॥ 12 ॥
श्लोक 5.13.13
अन्योन्यवित्तव्यतिषङ्गवृद्धवैरानुबन्धो विवहन् मिथश् च । अध्वन्य् अमुष्मिन्न् उरुकृच्छ्रवित्तबाधोपसर्गैर् विहरन् विपन्नः ॥ 13 ॥
श्लोक 5.13.14
तांस् तान् विपन्नान् स हि तत्र तत्र विहाय जातं परिगृह्य सार्थः । आवर्तते ऽद्यापि न कश्चिद् अत्र वीराध्वनः पारम् उपैति योगम् ॥ 14 ॥
श्लोक 5.13.15
मनस्विनो निर्जितदिग्गजेन्द्रा ममेति सर्वे भुवि बद्धवैराः । मृधे शयीरन् न तु तद् व्रजन्ति यन् न्यस्तदण्डो गतवैरो ऽभियाति ॥ 15 ॥
श्लोक 5.13.16
प्रसज्जति क्वापि लताभुजाश्रयस् तद्आश्रयाव्यक्तपदद्विजस्पृहः । क्वचित् कदाचिद् धरिचक्रतस् त्रसन् सख्यं विधत्ते बककङ्कगृध्रैः ॥ 16 ॥
श्लोक 5.13.17
तैर् वञ्चितो हंसकुलं समाविशन्न् अरोचयन् शीलम् उपैति वानरान् । तज्जातिरासेन सुनिर्वृतेन्द्रियः परस्परोद्वीक्षणविस्मृतावधिः ॥ 17 ॥
श्लोक 5.13.18
द्रुमेषु रंस्यन् सुतदारवत्सलो व्यवायदीनो विवशः स्वबन्धने । क्वचित् प्रमादाद् गिरिकन्दरे पतन् वल्लीं गृहीत्वा गजभीत आस्थितः ॥ 18 ॥
श्लोक 5.13.19
अतः कथञ्चित् स विमुक्त आपदः पुनश् च सार्थं प्रविशत्य् अरिन्दम । अध्वन्य् अमुष्मिन्न् अजया निवेशितो भ्रमञ् जनो ऽद्यापि न वेद कश्चन ॥ 19 ॥
श्लोक 5.13.20
रहूगण त्वम् अपि ह्य् अध्वनो ऽस्य सन्न्यस्तदण्डः कृतभूतमैत्रः । असज्जितात्मा हरिसेवया शितं ज्ञानासिम् आदाय तरातिपारम् ॥ 20 ॥
श्लोक 5.13.21
अहो नृजन्माखिलजन्मशोभनं किं जन्मभिस् त्व् अपरैर् अप्य् अमुष्मिन् । न यद् धृषीकेशयशःकृतात्मनां महात्मनां वः प्रचुरः समागमः ॥ 21 ॥
श्लोक 5.13.22
न ह्य् अद्भुतं त्वच्चरणाब्जरेणुभिर् हतांहसो भक्तिर् अधोक्षजे ऽमला । मौहूर्तिकाद् यस्य समागमाच् च मे दुस्तर्कमूलो ऽपहतो ऽविवेकः ॥ 22 ॥
श्लोक 5.13.23
नमो महद्भ्यो ऽस्तु नमः शिशुभ्यो नमो युवभ्यो नम आवटुभ्यः । ये ब्राह्मणा गाम् अवधूतलिङ्गाश् चरन्ति तेभ्यः शिवम् अस्तु राज्ञाम् ॥ 23 ॥
श्लोक 5.13.24
इत्य् एवम् उत्तरामातः स वै ब्रह्मर्षिसुतः सिन्धुपतय आत्मसतत्त्वं विगणयतः परानुभावः परमकारुणिकतयोपदिश्य रहूगणेन सकरुणम् अभिवन्दितचरण आपूर्णार्णव इव निभृतकरणोर्म्य्आशयो धरणिम् इमां विचचार ॥ 24 ॥
श्लोक 5.13.25
सौवीरपतिर् अपि सुजनसमवगतपरमात्मसतत्त्व आत्मन्य् अविद्याध्यारोपितां च देहात्ममतिं विससर्ज एवं हि नृप भगवद्आश्रिताश्रितानुभावः ॥ 25 ॥
श्लोक 5.13.26
यो ह वा इह बहुविदा महाभागवत त्वयाभिहितः परोक्षेण वचसा जीवलोकभवाध्वा स ह्य् आर्यमनीषया कल्पितविषयोनाञ्जसाव्युत्पन्नलोकसमधिगमः अथ तद् एवैतद् दुरवगमं समवेतानुकल्पेन निर्दिश्यताम् इति ॥ 26 ॥