श्रीमद्भागवत पञ्चम स्कन्ध अध्याय 14
श्रीमद्भागवत पञ्चम स्कन्ध अध्याय 14 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 5.14.1
स एष देहात्ममानिनां सत्त्वादिगुणविशेषविकल्पितकुशलाकुशलसमवहारविनिर्मितविविधदेहावलिभिर् वियोगसंयोगाद्य्अनादिसंसारानुभवस्य द्वारभूतेन षड्इन्द्रियवर्गेण तस्मिन् दुर्गाध्ववद् असुगमे ऽध्वन्य् आपतित ईश्वरस्य भगवतो विष्णोर् वशवर्तिन्या मायया जीवलोको ऽयं यथा वणिक्सार्थो ऽर्थपरः स्वदेहनिष्पादितकर्मानुभवः श्मशानवद् अशिवतमायां संसाराटव्यां गतो नाद्यापि विफलबहुप्रतियोगेहस् तत्तापोपशमनीं हरिगुरुचरणारविन्दमधुकरानुपदवीम् अवरुन्धे ॥ 1 ॥
श्लोक 5.14.2
यस्याम् उ ह वा एते षड्इन्द्रियनामानः कर्मणा दस्यव एव ते तद् यथा पुरुषस्य धनं यत् किञ्चिद् धर्मौपयिकं बहुकृच्छ्राधिगतं साक्षात् परमपुरुषाराधनलक्षणो यो ऽसौ धर्मस् तं तु साम्पराय उदाहरन्ति तद्धर्म्यं धनं दर्शनस्पर्शनश्रवणास्वादनावघ्राणसङ्कल्पव्यवसायगृहग्राम्योपभोगेन कुनाथस्याजितात्मनो यथा सार्थस्य विलुम्पन्ति ॥ 2 ॥
श्लोक 5.14.3
अथ च यत्र कौटुम्बिका दारापत्यादयो नाम्ना कर्मणा वृकसृगाला एवानिच्छतो ऽपि कदर्यस्य कुटुम्बिन उरणकवत् संरक्ष्यमाणं मिषतो ऽपि हरन्ति ॥ 3 ॥
श्लोक 5.14.4
यथा ह्य् अनुवत्सरं कृष्यमाणम् अप्य् अदग्धबीजं क्षेत्रं पुनर् एवावपनकाले गुल्मतृणवीरुद्भिर् गह्वरम् इव भवत्य् एवम् एव गृहाश्रमः कर्मक्षेत्रं यस्मिन् न हि कर्माण्य् उत्सीदन्ति यद् अयं कामकरण्ड एष आवसथः ॥ 4 ॥
श्लोक 5.14.5
तत्र गतो दंशमशकसमापसदैर् मनुजैः शलभशकुन्ततस्करमूषकादिभिर् उपरुध्यमानबहिःप्राणः क्वचित् परिवर्तमानो ऽस्मिन्न् अध्वन्य् अविद्याकामकर्मभिर् उपरक्तमनसानुपपन्नार्थं नरलोकं गन्धर्वनगरम् उपपन्नम् इति मिथ्यादृष्टिर् अनुपश्यति ॥ 5 ॥
श्लोक 5.14.6
तत्र च क्वचिद् आतपोदकनिभान् विषयान् उपधावति पानभोजनव्यवायादिव्यसनलोलुपः ॥ 6 ॥
श्लोक 5.14.7
क्वचिच् चाशेषदोषनिषदनं पुरीषविशेषं तद्वर्णगुणनिर्मितमतिः सुवर्णम् उपादित्सत्य् अग्निकामकातर इवोल्मुकपिशाचम् ॥ 7 ॥
श्लोक 5.14.8
अथ कदाचिन् निवासपानीयद्रविणाद्य्अनेकात्मोपजीवनाभिनिवेश एतस्यां संसाराटव्याम् इतस् ततः परिधावति ॥ 8 ॥
श्लोक 5.14.9
क्वचिच् च वात्यौपम्यया प्रमदयारोहम् आरोपितस् तत्कालरजसा रजनीभूत इवासाधुमर्यादो रजस्वलाक्षो ऽपि दिग्देवता अतिरजस्वलमतिर् न विजानाति ॥ 9 ॥
श्लोक 5.14.10
क्वचित् सकृद् अवगतविषयवैतथ्यः स्वयं पराभिध्यानेन विभ्रंशितस्मृतिस् तयैव मरीचितोयप्रायांस् तान् एवाभिधावति ॥ 10 ॥
श्लोक 5.14.11
क्वचिद् उलूकझिल्लीस्वनवद् अतिपरुषरभसाटोपं प्रत्यक्षं परोक्षं वा रिपुराजकुलनिर्भर्त्सितेनातिव्यथितकर्णमूलहृदयः ॥ 11 ॥
श्लोक 5.14.12
स यदा दुग्धपूर्वसुकृतस् तदा कारस्करकाकतुण्डाद्य्अपुण्यद्रुमलताविषोदपानवद् उभयार्थशून्यद्रविणान् जीवन्मृतान् स्वयं जीवन्म्रियमाण उपधावति ॥ 12 ॥
श्लोक 5.14.13
एकदासत्प्रसङ्गान् निकृतमतिर् व्युदकस्रोतःस्खलनवद् उभयतो ऽपि दुःखदं पाखण्डम् अभियाति ॥ 13 ॥
श्लोक 5.14.14
यदा तु परबाधयान्ध आत्मने नोपनमति तदा हि पितृपुत्रबर्हिष्मतः पितृपुत्रान् वा स खलु भक्षयति ॥ 14 ॥
श्लोक 5.14.15
क्वचिद् आसाद्य गृहं दाववत् प्रियार्थविधुरम् असुखोदर्कं शोकाग्निना दह्यमानो भृशं निर्वेदम् उपगच्छति ॥ 15 ॥
श्लोक 5.14.16
क्वचित् कालविषमितराजकुलरक्षसापहृतप्रियतमधनासुः प्रमृतक इव विगतजीवलक्षण आस्ते ॥ 16 ॥
श्लोक 5.14.17
कदाचिन् मनोरथोपगतपितृपितामहाद्य् असत् सद् इति स्वप्ननिर्वृतिलक्षणम् अनुभवति ॥ 17 ॥
श्लोक 5.14.18
क्वचिद् गृहाश्रमकर्मचोदनातिभरगिरिम् आरुरुक्षमाणो लोकव्यसनकर्षितमनाः कण्टकशर्कराक्षेत्रं प्रविशन्न् इव सीदति ॥ 18 ॥
श्लोक 5.14.19
क्वचिच् च दुःसहेन कायाभ्यन्तरवह्निना गृहीतसारः स्वकुटुम्बाय क्रुध्यति ॥ 19 ॥
श्लोक 5.14.20
स एव पुनर् निद्राजगरगृहीतो ऽन्धे तमसि मग्नः शून्यारण्य इव शेते नान्यत्किञ्चन वेद शव इवापविद्धः ॥ 20 ॥
श्लोक 5.14.21
कदाचिद् भग्नमानदंष्ट्रो दुर्जनदन्दशूकैर् अलब्धनिद्राक्षणो व्यथितहृदयेनानुक्षीयमाणविज्ञानो ऽन्धकूपे ऽन्धवत् पतति ॥ 21 ॥
श्लोक 5.14.22
कर्हि स्म चित् काममधुलवान् विचिन्वन् यदा परदारपरद्रव्याण्य् अवरुन्धानो राज्ञा स्वामिभिर् वा निहतः पतत्य् अपारे निरये ॥ 22 ॥
श्लोक 5.14.23
अथ च तस्माद् उभयथापि हि कर्मास्मिन्न् आत्मनः संसारावपनम् उदाहरन्ति ॥ 23 ॥
श्लोक 5.14.24
मुक्तस् ततो यदि बन्धाद् देवदत्त उपाच्छिनत्ति तस्माद् अपि विष्णुमित्र इत्य् अनवस्थितिः ॥ 24 ॥
श्लोक 5.14.25
क्वचिच् च शीतवाताद्य्अनेकाधिदैविकभौतिकात्मीयानां दशानां प्रतिनिवारणे ऽकल्पो दुरन्तचिन्तया विषण्ण आस्ते ॥ 25 ॥
श्लोक 5.14.26
क्वचिन् मिथो व्यवहरन् यत् किञ्चिद् धनम् अन्येभ्यो वा काकिणिकामात्रम् अप्य् अपहरन् यत् किञ्चिद् वा विद्वेषम् एति वित्तशाठ्यात् ॥ 26 ॥
श्लोक 5.14.27
अध्वन्य् अमुष्मिन्न् इम उपसर्गास् तथा सुखदुःखरागद्वेषभयाभिमानप्रमादोन्मादशोकमोहलोभमात्सर्येर्ष्यावमानक्षुत्पिपासाधिव्याधिजन्मजरामरणादयः ॥ 27 ॥
श्लोक 5.14.28
क्वापि देवमायया स्त्रिया भुजलतोपगूढः प्रस्कन्नविवेकविज्ञानो यद्विहारगृहारम्भाकुलहृदयस् तद्आश्रयावसक्तसुतदुहितृकलत्रभाषितावलोकविचेष्टितापहृतहृदय आत्मानम् अजितात्मापारे ऽन्धे तमसि प्रहिणोति ॥ 28 ॥
श्लोक 5.14.29
कदाचिद् ईश्वरस्य भगवतो विष्णोश् चक्रात् परमाण्व्आदिद्विपरार्धापवर्गकालोपलक्षणात् परिवर्तितेन वयसा रंहसा हरत आब्रह्मतृणस्तम्बादीनां भूतानाम् अनिमिषतो मिषतां वित्रस्तहृदयस् तम् एवेश्वरं कालचक्रनिजायुधं साक्षाद् भगवन्तं यज्ञपुरुषम् अनादृत्य पाखण्डदेवताः कङ्कगृध्रबकवटप्राया आर्यसमयपरिहृताः साङ्केत्येनाभिधत्ते ॥ 29 ॥
श्लोक 5.14.30
यदा पाखण्डिभिर् आत्मवञ्चितैस् तैर् उरु वञ्चितो ब्रह्मकुलं समावसंस् तेषां शीलम् उपनयनादिश्रौतस्मार्तकर्मानुष्ठानेन भगवतो यज्ञपुरुषस्याराधनम् एव तद् अरोचयन् शूद्रकुलं भजते निगमाचारे ऽशुद्धितो यस्य मिथुनीभावः कुटुम्बभरणं यथा वानरजातेः ॥ 30 ॥
श्लोक 5.14.31
तत्रापि निरवरोधः स्वैरेण विहरन्न् अतिकृपणबुद्धिर् अन्योन्यमुखनिरीक्षणादिना ग्राम्यकर्मणैव विस्मृतकालावधिः ॥ 31 ॥
श्लोक 5.14.32
क्वचिद् द्रुमवद् ऐहिकार्थेषु गृहेषु रंस्यन् यथा वानरः सुतदारवत्सलो व्यवायक्षणः ॥ 32 ॥
श्लोक 5.14.33
एवम् अध्वन्य् अवरुन्धानो मृत्युगजभयात् तमसि गिरिकन्दरप्राये ॥ 33 ॥
श्लोक 5.14.34
क्वचिच् छीतवाताद्य्अनेकदैविकभौतिकात्मीयानां दुःखानां प्रतिनिवारणे ऽकल्पो दुरन्तविषयविषण्ण आस्ते ॥ 34 ॥
श्लोक 5.14.35
क्वचिन् मिथो व्यवहरन् यत् किञ्चिद् धनम् उपयाति वित्तशाठ्येन ॥ 35 ॥
श्लोक 5.14.36
क्वचित् क्षीणधनः शय्यासनाशनाद्य्उपभोगविहीनो यावद् अप्रतिलब्धमनोरथोपगतादाने ऽवसितमतिस् ततस् ततो ऽवमानादीनि जनाद् अभिलभते ॥ 36 ॥
श्लोक 5.14.37
एवं वित्तव्यतिषङ्गविवृद्धवैरानुबन्धो ऽपि पूर्ववासनया मिथ उद्वहत्य् अथापवहति ॥ 37 ॥
श्लोक 5.14.38
एतस्मिन् संसाराध्वनि नानाक्लेशोपसर्गबाधित आपन्नविपन्नो यत्र यस् तम् उ ह वावेतरस् तत्र विसृज्य जातं जातम् उपादाय शोचन् मुह्यन् बिभ्यद्विवदन् क्रन्दन् संहृष्यन् गायन् नह्यमानः साधुवर्जितो नैवावर्तते ऽद्यापि यत आरब्ध एष नरलोकसार्थो यम् अध्वनः पारम् उपदिशन्ति ॥ 38 ॥
श्लोक 5.14.39
यद् इदं योगानुशासनं न वा एतद् अवरुन्धते यन् न्यस्तदण्डा मुनय उपशमशीला उपरतात्मानः समवगच्छन्ति ॥ 39 ॥
श्लोक 5.14.40
यद् अपि दिग्इभजयिनो यज्विनो ये वै राजर्षयः किं तु परं मृधे शयीरन्न् अस्याम् एव ममेयम् इति कृतवैरानुबन्धायां विसृज्य स्वयम् उपसंहृताः ॥ 40 ॥
श्लोक 5.14.41
कर्मवल्लीम् अवलम्ब्य तत आपदः कथञ्चिन् नरकाद् विमुक्तः पुनर् अप्य् एवं संसाराध्वनि वर्तमानो नरलोकसार्थम् उपयाति एवम् उपरि गतो ऽपि ॥ 41 ॥
श्लोक 5.14.42
आर्षभस्येह राजर्षेर् मनसापि महात्मनः । नानुवर्त्मार्हति नृपो मक्षिकेव गरुत्मतः ॥ 42 ॥
श्लोक 5.14.43
यो दुस्त्यजान् दारसुतान् सुहृद् राज्यं हृदिस्पृशः । जहौ युवैव मलवद् उत्तमश्लोकलालसः ॥ 43 ॥
श्लोक 5.14.44
यो दुस्त्यजान् क्षितिसुतस्वजनार्थदारान् प्रार्थ्यां श्रियं सुरवरैः सदयावलोकाम् &अम्प्; नैच्छन् नृपस् तद्उचितं महतां मधुद्विट्सेवानुरक्तमनसाम् अभवो ऽपि फल्गुः ॥ 44 ॥
श्लोक 5.14.45
यज्ञाय धर्मपतये विधिनैपुणाय योगाय साङ्ख्यशिरसे प्रकृतीश्वराय । नारायणाय हरये नम इत्य् उदारं हास्यन् मृगत्वम् अपि यः समुदाजहार ॥ 45 ॥
श्लोक 5.14.46
य इदं भागवतसभाजितावदातगुणकर्मणो राजर्षेर् भरतस्यानुचरितं स्वस्त्य्अयनम् आयुष्यं धन्यं यशस्यं स्वर्ग्यापवर्ग्यं वानुशृणोत्य् आख्यास्यत्य् अभिनन्दति च सर्वा एवाशिष आत्मन आशास्ते न काञ्चन परत इति ॥ 46 ॥