श्रीमद्भागवत पञ्चम स्कन्ध अध्याय 15
श्रीमद्भागवत पञ्चम स्कन्ध अध्याय 15 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 5.15.1
भ्प्_०५.१५.००१।० श्रीशुक उवाच भरतस्यात्मजः सुमतिर् नामाभिहितो यम् उ ह वाव केचित् पाखण्डिन ऋषभपदवीम् अनुवर्तमानं चानार्या अवेदसमाम्नातां देवतां स्वमनीषया पापीयस्या कलौ कल्पयिष्यन्ति ॥ 1 ॥
श्लोक 5.15.2
तस्माद् वृद्धसेनायां देवताजिन्नाम पुत्रो ऽभवत् ॥ 2 ॥
श्लोक 5.15.3
अथासुर्यां तत्तनयो देवद्युम्नस् ततो धेनुमत्यां सुतः परमेष्ठी तस्य सुवर्चलायां प्रतीह उपजातः ॥ 3 ॥
श्लोक 5.15.4
य आत्मविद्याम् आख्याय स्वयं संशुद्धो महापुरुषम् अनुसस्मार ॥ 4 ॥
श्लोक 5.15.5
प्रतीहात् सुवर्चलायां प्रतिहर्त्रादयस् त्रय आसन्न् इज्याकोविदाः सूनवः प्रतिहर्तुः स्तुत्याम् अजभूमानाव् अजनिषाताम् ॥ 5 ॥
श्लोक 5.15.6
भूम्न ऋषिकुल्यायाम् उद्गीथस् ततः प्रस्तावो देवकुल्यायां प्रस्तावान् नियुत्सायां हृदयज आसीद् विभुर् विभो रत्यां च पृथुषेणस् तस्मान् नक्त आकूत्यां जज्ञे नक्ताद् द्रुतिपुत्रो गयो राजर्षिप्रवर उदारश्रवा अजायत साक्षाद् भगवतो विष्णोर् जगद्रिरक्षिषया गृहीतसत्त्वस्य कलात्मवत्त्वादिलक्षणेन महापुरुषतां प्राप्तः ॥ 6 ॥
श्लोक 5.15.7
स वै स्वधर्मेण प्रजापालनपोषणप्रीणनोपलालनानुशासनलक्षणेनेज्यादिना च भगवति महापुरुषे परावरे ब्रह्मणि सर्वात्मनार्पितपरमार्थलक्षणेन ब्रह्मविच्चरणानुसेवयापादितभगवद्भक्तियोगेन चाभीक्ष्णशः परिभावितातिशुद्धमतिर् उपरतानात्म्य आत्मनि स्वयम् उपलभ्यमानब्रह्मात्मानुभवो ऽपि निरभिमान एवावनिम् अजूगुपत् ॥ 7 ॥
श्लोक 5.15.8
तस्येमां गाथां पाण्डवेय पुराविद उपगायन्ति ॥ 8 ॥
श्लोक 5.15.9
गयं नृपः कः प्रतियाति कर्मभिर् यज्वाभिमानी बहुविद् धर्मगोप्ता । समागतश्रीः सदसस्पतिः सतां सत्सेवको ऽन्यो भगवत्कलाम् ऋते ॥ 9 ॥
श्लोक 5.15.10
यम् अभ्यषिञ्चन् परया मुदा सतीः सत्याशिषो दक्षकन्याः सरिद्भिः । यस्य प्रजानां दुदुहे धराशिषो निराशिषो गुणवत्सस्नुतोधाः ॥ 10 ॥
श्लोक 5.15.11
छन्दांस्य् अकामस्य च यस्य कामान् दुदूहुर् आजह्रुर् अथो बलिं नृपाः । प्रत्यञ्चिता युधि धर्मेण विप्रा यदाशिषां षष्ठम् अंशं परेत्य ॥ 11 ॥
श्लोक 5.15.12
यस्याध्वरे भगवान् अध्वरात्मा मघोनि माद्यत्य् उरुसोमपीथे । श्रद्धाविशुद्धाचलभक्तियोगसमर्पितेज्याफलम् आजहार ॥ 12 ॥
श्लोक 5.15.13
यत्प्रीणनाद् बर्हिषि देवतिर्यङ्मनुष्यवीरुत्तृणम् आविरिञ्चात् । प्रीयेत सद्यः स ह विश्वजीवः प्रीतः स्वयं प्रीतिम् अगाद् गयस्य ॥ 13 ॥
श्लोक 5.15.14
गयाद् गयन्त्यां चित्ररथः सुगतिर् अवरोधन इति त्रयः पुत्रा बभूवुश् चित्ररथाद् ऊर्णायां सम्राड् अजनिष्ट तत उत्कलायां मरीचिर् मरीचेर् बिन्दुमत्यां बिन्दुम् आनुदपद्यत तस्मात् सरघायां मधुर् नामाभवन् मधोः सुमनसि वीरव्रतस् ततो भोजायां मन्थुप्रमन्थू जज्ञाते मन्थोः सत्यायां भौवनस् ततो दूषणायां त्वष्टाजनिष्ट त्वष्टुर् विरोचनायां विरजो विरजस्य शतजित्प्रवरं पुत्रशतं कन्या च विषूच्यां किल जातम् ॥ 14 ॥
श्लोक 5.15.15
प्रैयव्रतं वंशम् इमं विरजश् चरमोद्भवः । अकरोद् अत्य्अलं कीर्त्या विष्णुः सुरगणं यथा ॥ 15 ॥