श्रीमद्भागवत पञ्चम स्कन्ध अध्याय 16
श्रीमद्भागवत पञ्चम स्कन्ध अध्याय 16 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 5.16.1
उक्तस् त्वया भूमण्डलायामविशेषो यावद् आदित्यस् तपति यत्र चासौ ज्योतिषां गणैश् चन्द्रमा वा सह दृश्यते ॥ 1 ॥
श्लोक 5.16.2
तत्रापि प्रियव्रतरथचरणपरिखातैः सप्तभिः सप्त सिन्धव उपकॢप्ता यत एतस्याः सप्तद्वीपविशेषविकल्पस् त्वया भगवन् खलु सूचित एतद् एवाखिलम् अहं मानतो लक्षणतश् च सर्वं विजिज्ञासामि ॥ 2 ॥
श्लोक 5.16.3
भगवतो गुणमये स्थूलरूप आवेशितं मनो ह्य् अगुणे ऽपि सूक्ष्मतम आत्मज्योतिषि परे ब्रह्मणि भगवति वासुदेवाख्ये क्षमम् आवेशितुं तद् उ हैतद् गुरो ऽर्हस्य् अनुवर्णयितुम् इति ॥ 3 ॥
श्लोक 5.16.4
न वै महाराज भगवतो मायागुणविभूतेः काष्ठां मनसा वचसा वाधिगन्तुम् अलं विबुधायुषापि पुरुषस् तस्मात् प्राधान्येनैव भूगोलकविशेषं नामरूपमानलक्षणतो व्याख्यास्यामः ॥ 4 ॥
श्लोक 5.16.5
यो वायं द्वीपः कुवलयकमलकोशाभ्यन्तरकोशो नियुतयोजनविशालः समवर्तुलो यथा पुष्करपत्रम् ॥ 5 ॥
श्लोक 5.16.6
यस्मिन् नव वर्षाणि नवयोजनसहस्रायामान्य् अष्टभिर् मर्यादागिरिभिः सुविभक्तानि भवन्ति ॥ 6 ॥
श्लोक 5.16.7
एषां मध्ये इलावृतं नामाभ्यन्तरवर्षं यस्य नाभ्याम् अवस्थितः सर्वतः सौवर्णः कुलगिरिराजो मेरुर् द्वीपायामसमुन्नाहः कर्णिकाभूतः कुवलयकमलस्य मूर्धनि द्वात्रिंशत् सहस्रयोजनविततो मूले षोडशसहस्रं तावत् आन्तर्भूम्यां प्रविष्टः ॥ 7 ॥
श्लोक 5.16.8
उत्तरोत्तरेणेलावृतं नीलः श्वेतः शृङ्गवान् इति त्रयो रम्यकहिरण्मयकुरूणां वर्षाणां मर्यादागिरयः प्राग्आयता उभयतः क्षारोदावधयो द्विसहस्रपृथव एकैकशः पूर्वस्मात् पूर्वस्माद् उत्तर उत्तरो दशांशाधिकांशेन दैर्घ्य एव ह्रसन्ति ॥ 8 ॥
श्लोक 5.16.9
एवं दक्षिणेनेलावृतं निषधो हेमकूटो हिमालय इति प्राग्आयता यथा नीलादयो ऽयुतयोजनोत्सेधा हरिवर्षकिम्पुरुषभारतानां यथासङ्ख्यम् ॥ 9 ॥
श्लोक 5.16.10
तथैवेलावृतम् अपरेण पूर्वेण च माल्यवद्गन्धमादनाव् आनीलनिषधायतौ द्विसहस्रं पप्रथतुः केतुमालभद्राश्वयोः सीमानं विदधाते ॥ 10 ॥
श्लोक 5.16.11
मन्दरो मेरुमन्दरः सुपार्श्वः कुमुद इत्य् अयुतयोजनविस्तारोन्नाहा मेरोश् चतुर्दिशम् अवष्टम्भगिरय उपकॢप्ताः ॥ 11 ॥
श्लोक 5.16.12
चतुर्ष्व् एतेषु चूतजम्बूकदम्बन्यग्रोधाश् चत्वारः पादपप्रवराः पर्वतकेतव इवाधिसहस्रयोजनोन्नाहास् तावद् विटपविततयः शतयोजनपरिणाहाः ॥ 12 ॥
श्लोक 5.16.13
ह्रदाश् चत्वारः पयोमध्व्इक्षुरसमृष्टजला यद्उपस्पर्शिन उपदेवगणा योगैश्वर्याणि स्वाभाविकानि भरतर्षभ धारयन्ति ॥ 13 ॥
श्लोक 5.16.14
देवोद्यानानि च भवन्ति चत्वारि नन्दनं चैत्ररथं वैभ्राजकं सर्वतोभद्रम् इति ॥ 14 ॥
श्लोक 5.16.15
येष्व् अमरपरिवृढाः सह सुरललनाललामयूथपतय उपदेवगणैर् उपगीयमानमहिमानः किल विहरन्ति ॥ 15 ॥
श्लोक 5.16.16
मन्दरोत्सङ्ग एकादशशतयोजनोत्तुङ्गदेवचूतशिरसो गिरिशिखरस्थूलानि फलान्य् अमृतकल्पानि पतन्ति ॥ 16 ॥
श्लोक 5.16.17
तेषां विशीर्यमाणानाम् अतिमधुरसुरभिसुगन्धिबहुलारुणरसोदेनारुणोदा नाम नदी मन्दरगिरिशिखरान् निपतन्ती पूर्वेणेलावृतम् उपप्लावयति ॥ 17 ॥
श्लोक 5.16.18
यद्उपजोषणाद् भवान्या अनुचरीणां पुण्यजनवधूनाम् अवयवस्पर्शसुगन्धवातो दशयोजनं समन्ताद् अनुवासयति ॥ 18 ॥
श्लोक 5.16.19
एवं जम्बूफलानाम् अत्युच्चनिपातविशीर्णानाम् अनस्थिप्रायाणाम् इभकायनिभानां रसेन जम्बू नाम नदी मेरुमन्दरशिखराद् अयुतयोजनाद् अवनितले निपतन्ती दक्षिणेनात्मानं यावद् इलावृतम् उपस्यन्दयति ॥ 19 ॥
श्लोक 5.16.20
तावद् उभयोर् अपि रोधसोर् या मृत्तिका तद्रसेनानुविध्यमाना वाय्व्अर्कसंयोगविपाकेन सदामरलोकाभरणं जाम्बूनदं नाम सुवर्णं भवति ॥ 20 ॥
श्लोक 5.16.21
यद् उ ह वाव विबुधादयः सह युवतिभिर् मुकुटकटककटिसूत्राद्य्आभरणरूपेण खलु धारयन्ति ॥ 21 ॥
श्लोक 5.16.22
यस् तु महाकदम्बः सुपार्श्वनिरूढो यास् तस्य कोटरेभ्यो विनिःसृताः पञ्चायामपरिणाहाः पञ्च मधुधाराः सुपार्श्वशिखरात् पतन्त्यो ऽपरेणात्मानम् इलावृतम् अनुमोदयन्ति ॥ 22 ॥
श्लोक 5.16.23
या ह्य् उपयुञ्जानानां मुखनिर्वासितो वायुः समन्ताच् छतयोजनम् अनुवासयति ॥ 23 ॥
श्लोक 5.16.24
एवं कुमुदनिरूढो यः शतवल्शो नाम वटस् तस्य स्कन्धेभ्यो नीचीनाः पयोदधिमधुघृतगुडान्नाद्य्अम्बरशय्यासनाभरणादयः सर्व एव कामदुघा नदाः कुमुदाग्रात् पतन्तस् तम् उत्तरेणेलावृतम् उपयोजयन्ति ॥ 24 ॥
श्लोक 5.16.25
यान् उपजुषाणानां न कदाचिद् अपि प्रजानां वलीपलितक्लमस्वेददौर्गन्ध्यजरामयमृत्युशीतोष्णवैवर्ण्योपसर्गादयस् तापविशेषा भवन्ति यावज् जीवं सुखं निरतिशयम् एव ॥ 25 ॥
श्लोक 5.16.26
कुरङ्गकुररकुसुम्भवैकङ्कत्रिकूटशिशिरपतङ्गरुचकनिषधशिनीवासकपिलशङ्खवैदूर्यजारुधिहंसऋषभनागकालञ्जरनारदादयो विंशतिगिरयो मेरोः कर्णिकाया इव केसरभूता मूलदेशे परित उपकॢप्ताः ॥ 26 ॥
श्लोक 5.16.27
जठरदेवकूटौ मेरुं पूर्वेणाष्टादशयोजनसहस्रम् उदगायतौ द्विसहस्रं पृथुतुङ्गौ भवतः एवम् अपरेण पवनपारियात्रौ दक्षिणेन कैलासकरवीरौ प्राग्आयताव् एवम् उत्तरतस् त्रिशृङ्गमकराव् अष्टभिर् एतैः परिसृतो ऽग्निर् इव परितश् चकास्ति काञ्चनगिरिः ॥ 27 ॥
श्लोक 5.16.28
मेरोर् मूर्धनि भगवत आत्मयोनेर् मध्यत उपकॢप्तां पुरीम् अयुतयोजनसाहस्रीं समचतुरस्रां शातकौम्भीं वदन्ति ॥ 28 ॥
श्लोक 5.16.29
ताम् अनुपरितो लोकपालानाम् अष्टानां यथादिशं यथारूपं तुरीयमानेन पुरो ऽष्टाव् उपकॢप्ताः ॥ 29 ॥