श्रीमद्भागवत पञ्चम स्कन्ध अध्याय 17
श्रीमद्भागवत पञ्चम स्कन्ध अध्याय 17 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 5.17.1
तत्र भगवतः साक्षाद् यज्ञलिङ्गस्य विष्णोर् विक्रमतो वामपादाङ्गुष्ठनखनिर्भिन्नोर्ध्वाण्डकटाहविवरेणान्तःप्रविष्टा या बाह्यजलधारा तच्चरणपङ्कजावनेजनारुणकिञ्जल्कोपरञ्जिताखिलजगद्अघमलापहोपस्पर्शनामला साक्षाद् भगवत्पदीत्य् अनुपलक्षितवचो ऽभिधीयमानातिमहता कालेन युगसहस्रोपलक्षणेन दिवो मूर्धन्य् अवततार यत् तद् विष्णुपदम् आहुः ॥ 1 ॥
श्लोक 5.17.2
यत्र ह वाव वीरव्रत औत्तानपादिः परमभागवतो ऽस्मत्कुलदेवताचरणारविन्दोदकम् इति याम् अनुसवनम् उत्कृष्यमाणभगवद्भक्तियोगेन दृढं क्लिद्यमानान्तर्हृदय औत्कण्ठ्यविवशामीलितलोचनयुगलकुड्मलविगलितामलबाष्पकलयाभिव्यज्यमानरोमपुलककुलको ऽधुनापि परमादरेण शिरसा बिभर्ति ॥ 2 ॥
श्लोक 5.17.3
ततः सप्त ऋषयस् तत् प्रभावाभिज्ञा यां ननु तपस आत्यन्तिकी सिद्धिर् एतावती भगवति सर्वात्मनि वासुदेवे ऽनुपरतभक्तियोगलाभेनैवोपेक्षितान्यार्थात्मगतयो मुक्तिम् इवागतां मुमुक्षव इव सबहुमानम् अद्यापि जटाजूटैर् उद्वहन्ति ॥ 3 ॥
श्लोक 5.17.4
ततो ऽनेकसहस्रकोटिविमानानीकसङ्कुलदेवयानेनावतर्अन्तीन्दु मण्डलम् आवार्य ब्रह्मसदने निपतति ॥ 4 ॥
श्लोक 5.17.5
तत्र चतुर्धा भिद्यमाना चतुर्भिर् नामभिश् चतुर्दिशम् अभिस्पन्दन्ती नदनदीपतिम् एवाभिनिविशति सीतालकनन्दा चक्षुर् भद्रेति ॥ 5 ॥
श्लोक 5.17.6
सीता तु ब्रह्मसदनात् केसराचलादिगिरिशिखरेभ्यो ऽधो ऽधः प्रस्रवन्ती गन्धमादनमूर्धसु पतित्वान्तरेण भद्राश्ववर्षं प्राच्यां दिशि क्षारसमुद्रम् अभिप्रविशति ॥ 6 ॥
श्लोक 5.17.7
एवं माल्यवच्छिखरान् निष्पतन्ती ततो ऽनुपरतवेगा केतुमालम् अभि चक्षुः प्रतीच्यां दिशि सरित्पतिं प्रविशति ॥ 7 ॥
श्लोक 5.17.8
भद्रा चोत्तरतो मेरुशिरसो निपतिता गिरिशिखराद् गिरिशिखरम् अतिहाय शृङ्गवतः शृङ्गाद् अवस्यन्दमाना उत्तरांस् तु कुरून् अभित उदीच्यां दिशि जलधिम् अभिप्रविशति ॥ 8 ॥
श्लोक 5.17.9
तथैवालकनन्दा दक्षिणेन ब्रह्मसदनाद् बहूनि गिरिकूटान्य् अतिक्रम्य हेमकूटाद् धैमकूटान्य् अतिरभसतररंहसा लुठयन्ती भारतम् अभिवर्षं दक्षिणस्यां दिशि जलधिम् अभिप्रविशति यस्यां स्नानार्थं चागच्छतः पुंसः पदे पदे ऽश्वमेधराजसूयादीनां फलं न दुर्लभम् इति ॥ 9 ॥
श्लोक 5.17.10
अन्ये च नदा नद्यश् च वर्षे वर्षे सन्ति बहुशो मेर्व्आदिगिरिदुहितरः शतशः ॥ 10 ॥
श्लोक 5.17.11
तत्रापि भारतम् एव वर्षं कर्मक्षेत्रम् अन्यान्य् अष्ट वर्षाणि स्वर्गिणां पुण्यशेषोपभोगस्थानानि भौमानि स्वर्गपदानि व्यपदिशन्ति ॥ 11 ॥
श्लोक 5.17.12
एषु पुरुषाणाम् अयुतपुरुषायुर्वर्षाणां देवकल्पानां नागायुतप्राणानां वज्रसंहननबलवयोमोदप्रमुदितमहासौरतमिथुनव्यवायापवर्गवर्षधृतैकगर्भकलत्राणां तत्र तु त्रेतायुगसमः कालो वर्तते ॥ 12 ॥
श्लोक 5.17.13
यत्र ह देवपतयः स्वैः स्वैर् गणनायकैर् विहितमहार्हणाः सर्वर्तुकुसुमस्तबकफलकिसलयश्रियानम्यमानविटपलताविटपिभिर् उपशुम्भमानरुचिरकाननाश्रमायतनवर्षगिरिद्रोणीषु तथा चामलजलाशयेषु विकचविविधनववनरुहामोदमुदितराजहंसजलकुक्कुटकारण्डवसारसचक्रवाकादिभिर् मधुकरनिकराकृतिभिर् उपकूजितेषु जलक्रीडादिभिर् विचित्रविनोदैः सुललितसुरसुन्दरीणां कामकलिलविलासहासलीलावलोकाकृष्टमनोदृष्टयः स्वैरं विहरन्ति ॥ 13 ॥
श्लोक 5.17.14
नवस्व् अपि वर्षेषु भगवान् नारायणो महापुरुषः पुरुषाणां तद्अनुग्रहायात्मतत्त्वव्यूहेनात्मनाद्यापि सन्निधीयते ॥ 14 ॥
श्लोक 5.17.15
इलावृते तु भगवान् भव एक एव पुमान् न ह्य् अन्यस् तत्रापरो निर्विशति भवान्याः शापनिमित्तज्ञो यत्प्रवेक्ष्यतः स्त्रीभावस् तत् पश्चाद् वक्ष्यामि ॥ 15 ॥
श्लोक 5.17.16
भवानीनाथैः स्त्रीगणार्बुदसहस्रैर् अवरुध्यमानो भगवतश् चतुर्मूर्तेर् महापुरुषस्य तुरीयां तामसीं मूर्तिं प्रकृतिम् आत्मनः सङ्कर्षणसंज्ञाम् आत्मसमाधिरूपेण सन्निधाप्यैतद् अभिगृणन् भव उपधावति ॥ 16 ॥
श्लोक 5.17.17
ॐ नमो भगवते महापुरुषाय सर्वगुणसङ्ख्यानायानन्तायाव्यक्ताय नम इति भजे भजन्यारणपादपङ्कजं भगस्य कृत्स्नस्य परं परायणम् । भक्तेष्व् अलं भावितभूतभावनं भवापहं त्वा भवभावम् ईश्वरम् ॥ 17 ॥
श्लोक 5.17.18
न यस्य मायागुणचित्तवृत्तिभिर् निरीक्षतो ह्य् अण्व् अपि दृष्टिर् अज्यते । ईशे यथा नो ऽजितमन्युरंहसां कस् तं न मन्येत जिगीषुर् आत्मनः ॥ 18 ॥
श्लोक 5.17.19
असद्दृशो यः प्रतिभाति मायया क्षीबेव मध्व्आसवताम्रलोचनः । न नागवध्वो ऽर्हण ईशिरे ह्रिया यत्पादयोः स्पर्शनधर्षितेन्द्रियाः ॥ 19 ॥
श्लोक 5.17.20
यम् आहुर् अस्य स्थितिजन्मसंयमं त्रिभिर् विहीनं यम् अनन्तम् ऋषयः । न वेद सिद्धार्थम् इव क्वचित् स्थितं भूमण्डलं मूर्धसहस्रधामसु ॥ 20 ॥
श्लोक 5.17.21
यस्याद्य आसीद् गुणविग्रहो महान् विज्ञानधिष्ण्यो भगवान् अजः किल । यत्सम्भवो ऽहं त्रिवृता स्वतेजसा वैकारिकं तामसम् ऐन्द्रियं सृजे ॥ 21 ॥
श्लोक 5.17.22
एते वयं यस्य वशे महात्मनः स्थिताः शकुन्ता इव सूत्रयन्त्रिताः । महान् अहं वैकृततामसेन्द्रियाः सृजाम सर्वे यद्अनुग्रहाद् इदम् ॥ 22 ॥
श्लोक 5.17.23
यन्निर्मितां कर्ह्य् अपि कर्मपर्वणीं मायां जनो ऽयं गुणसर्गमोहितः । न वेद निस्तारणयोगम् अञ्जसा तस्मै नमस् ते विलयोदयात्मने ॥ 23 ॥