श्रीमद्भागवत पञ्चम स्कन्ध अध्याय 18
श्रीमद्भागवत पञ्चम स्कन्ध अध्याय 18 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 5.18.1
तथा च भद्रश्रवा नाम धर्मसुतस् तत्कुलपतयः पुरुषा भद्राश्ववर्षे साक्षाद् भगवतो वासुदेवस्य प्रियां तनुं धर्ममयीं हयशीर्षाभिधानां परमेण समाधिना सन्निधाप्येदम् अभिगृणन्त उपधावन्ति ॥ 1 ॥
श्लोक 5.18.2
ॐ नमो भगवते धर्मायात्मविशोधनाय नम इति ॥ 2 ॥
श्लोक 5.18.3
अहो विचित्रं भगवद्विचेष्टितं घ्नन्तं जनो ऽयं हि मिषन् न पश्यति । ध्यायन्न् असद् यर्हि विकर्म सेवितुं निर्हृत्य पुत्रं पितरं जिजीविषति ॥ 3 ॥
श्लोक 5.18.4
वदन्ति विश्वं कवयः स्म नश्वरं पश्यन्ति चाध्यात्मविदो विपश्चितः । तथापि मुह्यन्ति तवाज मायया सुविस्मितं कृत्यम् अजं नतो ऽस्मि तम् ॥ 4 ॥
श्लोक 5.18.5
विश्वोद्भवस्थाननिरोधकर्म ते ह्य् अकर्तुर् अङ्गीकृतम् अप्य् अपावृतः । युक्तं न चित्रं त्वयि कार्यकारणे सर्वात्मनि व्यतिरिक्ते च वस्तुतः ॥ 5 ॥
श्लोक 5.18.6
वेदान् युगान्ते तमसा तिरस्कृतान् रसातलाद् यो नृतुरङ्गविग्रहः । प्रत्याददे वै कवये ऽभियाचते तस्मै नमस् ते ऽवितथेहिताय इति ॥ 6 ॥
श्लोक 5.18.7
हरिवर्षे चापि भगवान् नरहरिरूपेणास्ते तद्रूपग्रहणनिमित्तम् उत्तरत्राभिधास्ये तद् दयितं रूपं महापुरुषगुणभाजनो महाभागवतो दैत्यदानवकुलतीर्थीकरणशीलाचरितः प्रह्लादो ऽव्यवधानानन्यभक्तियोगेन सह तद्वर्षपुरुषैर् उपास्ते इदं चोदाहरति ॥ 7 ॥
श्लोक 5.18.8
ॐ नमो भगवते नरसिंहाय नमस् तेजस्तेजसे आविर्आविर्भव वज्रनख वज्रदंष्ट्र कर्माशयान् रन्धय रन्धय तमो ग्रस ग्रस ॐ स्वाहा अभयम् अभयम् आत्मनि भूयिष्ठा ॐ क्ष्रौम् ॥ 8 ॥
श्लोक 5.18.9
स्वस्त्य् अस्तु विश्वस्य खलः प्रसीदतां ध्यायन्तु भूतानि शिवं मिथो धिया । मनश् च भद्रं भजताद् अधोक्षजे आवेश्यतां नो मतिर् अप्य् अहैतुकी ॥ 9 ॥
श्लोक 5.18.10
मागारदारात्मजवित्तबन्धुषु सङ्गो यदि स्याद् भगवत्प्रियेषु नः । यः प्राणवृत्त्या परितुष्ट आत्मवान् सिद्ध्यत्य् अदूरान् न तथेन्द्रियप्रियः ॥ 10 ॥
श्लोक 5.18.11
यत्सङ्गलब्धं निजवीर्यवैभवं तीर्थं मुहुः संस्पृशतां हि मानसम् । हरत्य् अजो ऽन्तः श्रुतिभिर् गतो ऽङ्गजं को वै न सेवेत मुकुन्दविक्रमम् ॥ 11 ॥
श्लोक 5.18.12
यस्यास्ति भक्तिर् भगवत्य् अकिञ्चना सर्वैर् गुणैस् तत्र समासते सुराः । हराव् अभक्तस्य कुतो महद्गुणा मनोरथेनासति धावतो बहिः ॥ 12 ॥
श्लोक 5.18.13
हरिर् हि साक्षाद् भगवान् शरीरिणाम् आत्मा झषाणाम् इव तोयम् ईप्सितम् । हित्वा महांस् तं यदि सज्जते गृहे तदा महत्त्वं वयसा दम्पतीनाम् ॥ 13 ॥
श्लोक 5.18.14
तस्माद् रजोरागविषादमन्युमानस्पृहाभयदैन्याधिमूलम् । हित्वा गृहं संसृतिचक्रवालं नृसिंहपादं भजताकुतोभयम् इति ॥ 14 ॥
श्लोक 5.18.15
केतुमाले ऽपि भगवान् कामदेवस्वरूपेण लक्ष्म्याः प्रियचिकीर्षया प्रजापतेर् दुहित्णां पुत्राणां तद्वर्षपतीनां पुरुषायुषाहोरात्रपरिसङ्ख्यानानां यासां गर्भा महापुरुषमहास्त्रतेजसोद्वेजितमनसां विध्वस्ता व्यसवः संवत्सरान्ते विनिपतन्ति ॥ 15 ॥
श्लोक 5.18.16
अतीव सुललितगतिविलासविलसितरुचिरहासलेशावलोकलीलया किञ्चिद्उत्तम्भितसुन्दरभ्रूमण्डलसुभगवदनारविन्दश्रिया रमां रमयन्न् इन्द्रियाणि रमयते ॥ 16 ॥
श्लोक 5.18.17
तद् भगवतो मायामयं रूपं परमसमाधियोगेन रमा देवी संवत्सरस्य रात्रिषु प्रजापतेर् दुहितृभिर् उपेताहःसु च तद्भर्तृभिर् उपास्ते इदं चोदाहरति ॥ 17 ॥
श्लोक 5.18.18
ॐ ह्रां ह्रीं ह्रूं ॐ नमो भगवते हृषीकेशाय सर्वगुणविशेषैर् विलक्षितात्मने आकूतीनां चित्तीनां चेतसां विशेषाणां चाधिपतये षोडशकलाय च्छन्दोमयायान्नमयायामृतमयाय सर्वमयाय सहसे ओजसे बलाय कान्ताय कामाय नमस् ते उभयत्र भूयात् ॥ 18 ॥
श्लोक 5.18.19
स्त्रियो व्रतैस् त्वा हृषीकेश्वरं स्वतो ह्य् आराध्य लोके पतिम् आशासते ऽन्यम् । तासां न ते वै परिपान्त्य् अपत्यं प्रियं धनायूंषि यतो ऽस्वतन्त्राः ॥ 19 ॥
श्लोक 5.18.20
स वै पतिः स्याद् अकुतोभयः स्वयं समन्ततः पाति भयातुरं जनम् । स एक एवेतरथा मिथो भयं नैवात्मलाभाद् अधि मन्यते परम् ॥ 20 ॥
श्लोक 5.18.21
या तस्य ते पादसरोरुहार्हणं निकामयेत् साखिलकामलम्पटा । तद् एव रासीप्सितम् ईप्सितो ऽर्चितो यद्भग्नयाच्ञा भगवन् प्रतप्यते ॥ 21 ॥
श्लोक 5.18.22
मत्प्राप्तये ऽजेशसुरासुरादयस् तप्यन्त उग्रं तप ऐन्द्रिये धियः । ऋते भवत्पादपरायणान् न मां विन्दन्त्य् अहं त्वद्धृदया यतो ऽजित ॥ 22 ॥
श्लोक 5.18.23
स त्वं ममाप्य् अच्युत शीर्ष्णि वन्दितं कराम्बुजं यत् त्वद्अधायि सात्वताम् । बिभर्षि मां लक्ष्म वरेण्य मायया क ईश्वरस्येहितम् ऊहितुं विभुर् इति ॥ 23 ॥
श्लोक 5.18.24
रम्यके च भगवतः प्रियतमं मात्स्यम् अवताररूपं तद्वर्षपुरुषस्य मनोः प्राक्प्रदर्शितं स इदानीम् अपि महता भक्तियोगेनाराधयतीदं चोदाहरति ॥ 24 ॥
श्लोक 5.18.25
ॐ नमो भगवते मुख्यतमाय नमः सत्त्वाय प्राणायौजसे सहसे बलाय महामत्स्याय नम इति ॥ 25 ॥
श्लोक 5.18.26
अन्तर् बहिश् चाखिललोकपालकैर् अदृष्टरूपो विचरस्य् उरुस्वनः । स ईश्वरस् त्वं य इदं वशे ऽनयन् नाम्ना यथा दारुमयीं नरः स्त्रियम् ॥ 26 ॥
श्लोक 5.18.27
यं लोकपालाः किल मत्सरज्वरा हित्वा यतन्तो ऽपि पृथक् समेत्य च । पातुं न शेकुर् द्विपदश् चतुष्पदः सरीसृपं स्थाणु यद् अत्र दृश्यते ॥ 27 ॥
श्लोक 5.18.28
भवान् युगान्तार्णव ऊर्मिमालिनि क्षोणीम् इमाम् ओषधिवीरुधां निधिम् । मया सहोरु क्रमते ऽज ओजसा तस्मै जगत्प्राणगणात्मने नम इति ॥ 28 ॥
श्लोक 5.18.29
हिरण्मये ऽपि भगवान् निवसति कूर्मतनुं बिभ्राणस् तस्य तत् प्रियतमां तनुम् अर्यमा सह वर्षपुरुषैः पितृगणाधिपतिर् उपधावति मन्त्रम् इमं चानुजपति ॥ 29 ॥
श्लोक 5.18.30
ॐ नमो भगवते अकूपाराय सर्वसत्त्वगुणविशेषणायानुपलक्षितस्थानाय नमो वर्ष्मणे नमो भूम्ने नमो नमो ऽवस्थानाय नमस् ते ॥ 30 ॥
श्लोक 5.18.31
यद्रूपम् एतन् निजमाययार्पितम् अर्थस्वरूपं बहुरूपरूपितम् । सङ्ख्या न यस्यास्त्य् अयथोपलम्भनात् तस्मै नमस् ते ऽव्यपदेशरूपिणे ॥ 31 ॥
श्लोक 5.18.32
जरायुजं स्वेदजम् अण्डजोद्भिदं चराचरं देवर्षिपितृभूतम् ऐन्द्रियम् । द्यौः खं क्षितिः शैलसरित्समुद्रद्वीपग्रहर्क्षेत्य् अभिधेय एकः ॥ 32 ॥
श्लोक 5.18.33
यस्मिन्न् असङ्ख्येयविशेषनामरूपाकृतौ कविभिः कल्पितेयम् । सङ्ख्या यया तत्त्वदृशापनीयते तस्मै नमः साङ्ख्यनिदर्शनाय ते इति ॥ 33 ॥
श्लोक 5.18.34
उत्तरेषु च कुरुषु भगवान् यज्ञपुरुषः कृतवराहरूप आस्ते तं तु देवी हैषा भूः सह कुरुभिर् अस्खलितभक्तियोगेनोपधावति इमां च परमाम् उपनिषदम् आवर्तयति ॥ 34 ॥
श्लोक 5.18.35
ॐ नमो भगवते मन्त्रतत्त्वलिङ्गाय यज्ञक्रतवे महाध्वरावयवाय महापुरुषाय नमः कर्मशुक्लाय त्रियुगाय नमस् ते ॥ 35 ॥
श्लोक 5.18.36
यस्य स्वरूपं कवयो विपश्चितो गुणेषु दारुष्व् इव जातवेदसम् । मथ्नन्ति मथ्ना मनसा दिदृक्षवो गूढं क्रियार्थैर् नम ईरितात्मने ॥ 36 ॥
श्लोक 5.18.37
द्रव्यक्रियाहेत्व्अयनेशकर्तृभिर् मायागुणैर् वस्तुनिरीक्षितात्मने । अन्वीक्षयाङ्गातिशयात्मबुद्धिभिर् निरस्तमायाकृतये नमो नमः ॥ 37 ॥
श्लोक 5.18.38
करोति विश्वस्थितिसंयमोदयं यस्येप्सितं नेप्सितम् ईक्षितुर् गुणैः । माया यथायो भ्रमते तद्आश्रयं ग्राव्णो नमस् ते गुणकर्मसाक्षिणे ॥ 38 ॥
श्लोक 5.18.39
प्रमथ्य दैत्यं प्रतिवारणं मृधे यो मां रसाया जगद्आदिसूकरः । कृत्वाग्रदंष्ट्रे निरगाद् उदन्वतः क्रीडन्न् इवेभः प्रणतास्मि तं विभुम् इति ॥ 39 ॥