मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत पञ्चम स्कन्ध अध्याय 19

श्रीमद्भागवत पञ्चम स्कन्ध अध्याय 19 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 5.19.1

किम्पुरुषे वर्षे भगवन्तम् आदिपुरुषं लक्ष्मणाग्रजं सीताभिरामं रामं तच्चरणसन्निकर्षाभिरतः परमभागवतो हनुमान् सह किम्पुरुषैर् अविरतभक्तिर् उपास्ते ॥ 1 ॥

श्लोक 5.19.2

आर्ष्टिषेणेन सह गन्धर्वैर् अनुगीयमानां परमकल्याणीं भर्तृभगवत्कथां समुपशृणोति स्वयं चेदं गायति ॥ 2 ॥

श्लोक 5.19.3

ॐ नमो भगवते उत्तमश्लोकाय नम आर्यलक्षणशीलव्रताय नम उपशिक्षितात्मन उपासितलोकाय नमः साधुवादनिकषणाय नमो ब्रह्मण्यदेवाय महापुरुषाय महाराजाय नम इति ॥ 3 ॥

श्लोक 5.19.4

यत् तद् विशुद्धानुभवमात्रम् एकं स्वतेजसा ध्वस्तगुणव्यवस्थम् । प्रत्यक् प्रशान्तं सुधियोपलम्भनं ह्य् अनामरूपं निरहं प्रपद्ये ॥ 4 ॥

श्लोक 5.19.5

मर्त्यावतारस् त्व् इह मर्त्यशिक्षणं रक्षोवधायैव न केवलं विभोः । कुतो ऽन्यथा स्याद् रमतः स्व आत्मनः सीताकृतानि व्यसनानीश्वरस्य ॥ 5 ॥

श्लोक 5.19.6

न वै स आत्मात्मवतां सुहृत्तमः सक्तस् त्रिलोक्यां भगवान् वासुदेवः । न स्त्रीकृतं कश्मलम् अश्नुवीत न लक्ष्मणं चापि विहातुम् अर्हति ॥ 6 ॥

श्लोक 5.19.7

न जन्म नूनं महतो न सौभगं न वाङ् न बुद्धिर् नाकृतिस् तोषहेतुः । तैर् यद् विसृष्टान् अपि नो वनौकसश् चकार सख्ये बत लक्ष्मणाग्रजः ॥ 7 ॥

श्लोक 5.19.8

सुरो ऽसुरो वाप्य् अथ वानरो नरः सर्वात्मना यः सुकृतज्ञम् उत्तमम् । भजेत रामं मनुजाकृतिं हरिं य उत्तरान् अनयत् कोसलान् दिवम् इति ॥ 8 ॥

श्लोक 5.19.9

भारते ऽपि वर्षे भगवान् नरनारायणाख्य आकल्पान्तम् उपचितधर्मज्ञानवैराग्यैश्वर्योपशमोपरमात्मोपलम्भनम् अनुग्रहायात्मवताम् अनुकम्पया तपो ऽव्यक्तगतिश् चरति ॥ 9 ॥

श्लोक 5.19.10

तं भगवान् नारदो वर्णाश्रमवतीभिर् भारतीभिः प्रजाभिर् भगवत्प्रोक्ताभ्यां साङ्ख्ययोगाभ्यां भगवद्अनुभावोपवर्णनं सावर्णेर् उपदेक्ष्यमाणः परमभक्तिभावेनोपसरति इदं चाभिगृणाति ॥ 10 ॥

श्लोक 5.19.11

ॐ नमो भगवते उपशमशीलायोपरतानात्म्याय नमो ऽकिञ्चनवित्ताय ऋषिऋषभाय नरनारायणाय परमहंसपरमगुरवे आत्मारामाधिपतये नमो नम इति ॥ 11 ॥

श्लोक 5.19.12

कर्तास्य सर्गादिषु यो न बध्यते न हन्यते देहगतो ऽपि दैहिकैः । द्रष्टुर् न दृग् यस्य गुणैर् विदूष्यते तस्मै नमो ऽसक्तविविक्तसाक्षिणे ॥ 12 ॥

श्लोक 5.19.13

इदं हि योगेश्वर योगनैपुणं हिरण्यगर्भो भगवाञ् जगाद यत् । यद् अन्तकाले त्वयि निर्गुणे मनो भक्त्या दधीतोज्झितदुष्कलेवरः ॥ 13 ॥

श्लोक 5.19.14

यथैहिकामुष्मिककामलम्पटः सुतेषु दारेषु धनेषु चिन्तयन् । शङ्केत विद्वान् कुकलेवरात्ययाद् यस् तस्य यत्नः श्रम एव केवलम् ॥ 14 ॥

श्लोक 5.19.15

तन् नः प्रभो त्वं कुकलेवरार्पितां त्वन्माययाहंममताम् अधोक्षज । भिन्द्याम येनाशु वयं सुदुर्भिदां विधेहि योगं त्वयि नः स्वभावम् इति ॥ 15 ॥

श्लोक 5.19.16

भारते ऽप्य् अस्मिन् वर्षे सरिच्छैलाः सन्ति बहवो मलयो मङ्गलप्रस्थो मैनाकस् त्रिकूट ऋषभः कूटकः कोल्लकः सह्यो देवगिरिर् ऋष्यमूकः श्रीशैलो वेङ्कटो महेन्द्रो वारिधारो विन्ध्यः शुक्तिमान् ऋक्षगिरिः पारियात्रो द्रोणश् चित्रकूटो गोवर्धनो रैवतकः ककुभो नीलो गोकामुख इन्द्रकीलः कामगिरिर् इति चान्ये च शतसहस्रशः शैलास् तेषां नितम्बप्रभवा नदा नद्यश् च सन्त्य् असङ्ख्याताः ॥ 16 ॥

श्लोक 5.19.17

एतासाम् अपो भारत्यः प्रजा नामभिर् एव पुनन्तीनाम् आत्मना चोपस्पृशन्ति ॥ 17 ॥

श्लोक 5.19.18

चन्द्रवसा ताम्रपर्णी अवटोदा कृतमाला वैहायसी कावेरी वेणी पयस्विनी शर्करावर्ता तुङ्गभद्रा कृष्णावेण्या भीमरथी गोदावरी निर्विन्ध्या पयोष्णी तापी रेवा सुरसा नर्मदा चर्मण्वती सिन्धुर् अन्धः शोणश् च नदौ महानदी वेदस्मृतिर् ऋषिकुल्या त्रिसामा कौशिकी मन्दाकिनी यमुना सरस्वती दृषद्वती गोमती सरयू रोधस्वती सप्तवती सुषोमा शतद्रूश् चन्द्रभागा मरुद्वृधा वितस्ता असिक्नी विश्वेति महानद्यः ॥ 18 ॥

श्लोक 5.19.19

अस्मिन्न् एव वर्षे पुरुषैर् लब्धजन्मभिः शुक्ललोहितकृष्णवर्णेन स्वारब्धेन कर्मणा दिव्यमानुषनारकगतयो बह्व्य आत्मन आनुपूर्व्येण सर्वा ह्य् एव सर्वेषां विधीयन्ते यथावर्णविधानम् अपवर्गश् चापि भवति ॥ 19 ॥

श्लोक 5.19.20

यो ऽसौ भगवति सर्वभूतात्मन्य् अनात्म्ये ऽनिरुक्ते ऽनिलयने परमात्मनि वासुदेवे ऽनन्यनिमित्तभक्तियोगलक्षणो नानागतिनिमित्ताविद्याग्रन्थिरन्धनद्वारेण यदा हि महापुरुषपुरुषप्रसङ्गः ॥ 20 ॥

श्लोक 5.19.21

अहो अमीषां किम् अकारि शोभनं प्रसन्न एषां स्विद् उत स्वयं हरिः । यैर् जन्म लब्धं नृषु भारताजिरे मुकुन्दसेवौपयिकं स्पृहा हि नः ॥ 21 ॥

श्लोक 5.19.22

किं दुष्करैर् नः क्रतुभिस् तपोव्रतैर् दानादिभिर् वा द्युजयेन फल्गुना । न यत्र नारायणपादपङ्कजस्मृतिः प्रमुष्टातिशयेन्द्रियोत्सवात् ॥ 22 ॥

श्लोक 5.19.23

कल्पायुषां स्थानजयात् पुनर्भवात् क्षणायुषां भारतभूजयो वरम् । क्षणेन मर्त्येन कृतं मनस्विनः सन्न्यस्य संयान्त्य् अभयं पदं हरेः ॥ 23 ॥

श्लोक 5.19.24

न यत्र वैकुण्ठकथासुधापगा न साधवो भागवतास् तदाश्रयाः । न यत्र यज्ञेशमखा महोत्सवाः सुरेशलोको ऽपि न वै स सेव्यताम् ॥ 24 ॥

श्लोक 5.19.25

प्राप्ता नृजातिं त्व् इह ये च जन्तवो ज्ञानक्रियाद्रव्यकलापसम्भृताम् । न वै यतेरन्न् अपुनर्भवाय ते भूयो वनौका इव यान्ति बन्धनम् ॥ 25 ॥

श्लोक 5.19.26

यैः श्रद्धया बर्हिषि भागशो हविर् निरुप्तम् इष्टं विधिमन्त्रवस्तुतः । एकः पृथङ्नामभिर् आहुतो मुदा गृह्णाति पूर्णः स्वयम् आशिषां प्रभुः ॥ 26 ॥

श्लोक 5.19.27

सत्यं दिशत्य् अर्थितम् अर्थितो नृणां नैवार्थदो यत् पुनर् अर्थिता यतः । स्वयं विधत्ते भजताम् अनिच्छताम् इच्छापिधानं निजपादपल्लवम् ॥ 27 ॥

श्लोक 5.19.28

यद्य् अत्र नः स्वर्गसुखावशेषितं स्विष्टस्य सूक्तस्य कृतस्य शोभनम् । तेनाजनाभे स्मृतिमज् जन्म नः स्याद् वर्षे हरिर् यद्भजतां शं तनोति ॥ 28 ॥

श्लोक 5.19.29

जम्बूद्वीपस्य च राजन्न् उपद्वीपान् अष्टौ हैक उपदिशन्ति सगरात्मजैर् अश्वान्वेषण इमां महीं परितो निखनद्भिर् उपकल्पितान् ॥ 29 ॥

श्लोक 5.19.30

तद् यथा स्वर्णप्रस्थश् चन्द्रशुक्ल आवर्तनो रमणको मन्दरहरिणः पाञ्चजन्यः सिंहलो लङ्केति ॥ 30 ॥

श्लोक 5.19.31

एवं तव भारतोत्तम जम्बूद्वीपवर्षविभागो यथोपदेशम् उपवर्णित इति ॥ 31 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ