मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत पञ्चम स्कन्ध अध्याय 20

श्रीमद्भागवत पञ्चम स्कन्ध अध्याय 20 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 5.20.1

अतः परं प्लक्षादीनां प्रमाणलक्षणसंस्थानतो वर्षविभाग उपवर्ण्यते ॥ 1 ॥

श्लोक 5.20.2

जम्बूद्वीपो ऽयं यावत्प्रमाणविस्तारस् तावता क्षारोदधिना परिवेष्टितो यथा मेरुर् जम्ब्व्आख्येन लवणोदधिर् अपि ततो द्विगुणविशालेन प्लक्षाख्येन परिक्षिप्तो यथा परिखा बाह्योपवनेन प्लक्षो जम्बूप्रमाणो द्वीपाख्याकरो हिरण्मय उत्थितो यत्राग्निर् उपास्ते सप्तजिह्वस् तस्याधिपतिः प्रियव्रतात्मज इध्मजिह्वः स्वं द्वीपं सप्तवर्षाणि विभज्य सप्तवर्षनामभ्य आत्मजेभ्य आकलय्य स्वयम् आत्मयोगेनोपरराम ॥ 2 ॥

श्लोक 5.20.3

शिवं यवसं सुभद्रं शान्तं क्षेमम् अमृतम् अभयम् इति वर्षाणि तेषु गिरयो नद्यश् च सप्तैवाभिज्ञाताः ॥ 3 ॥

श्लोक 5.20.4

मणिकूटो वज्रकूट इन्द्रसेनो ज्योतिष्मान् सुपर्णो हिरण्यष्ठीवो मेघमाल इति सेतुशैलाः अरुणा नृम्णाङ्गिरसी सावित्री सुप्तभाता ऋतम्भरा सत्यम्भरा इति महानद्यः यासां जलोपस्पर्शनविधूतरजस्तमसो हंसपतङ्गोर्ध्वायनसत्याङ्गसंज्ञाश् चत्वारो वर्णाः सहस्रायुषो विबुधोपमसन्दर्शनप्रजननाः स्वर्गद्वारं त्रय्या विद्यया भगवन्तं त्रयीमयं सूर्यम् आत्मानं यजन्ते ॥ 4 ॥

श्लोक 5.20.5

प्रत्नस्य विष्णो रूपं यत् सत्यस्यर्तस्य ब्रह्मणः । अमृतस्य च मृत्योश् च सूर्यम् आत्मानम् ईमहीति ॥ 5 ॥

श्लोक 5.20.6

प्लक्षादिषु पञ्चसु पुरुषाणाम् आयुर् इन्द्रियम् ओजः सहो बलं बुद्धिर् विक्रम इति च सर्वेषाम् औत्पत्तिकी सिद्धिर् अविशेषेण वर्तते ॥ 6 ॥

श्लोक 5.20.7

प्लक्षः स्वसमानेनेक्षुरसोदेनावृतो यथा तथा द्वीपो ऽपि शाल्मलो द्विगुणविशालः समानेन सुरोदेनावृतः परिवृङ्क्ते ॥ 7 ॥

श्लोक 5.20.8

यत्र ह वै शाल्मली प्लक्षायामा यस्यां वाव किल निलयम् आहुर् भगवतश् छन्दःस्तुतः पतत्त्रिराजस्य सा द्वीपहूतये उपलक्ष्यते ॥ 8 ॥

श्लोक 5.20.9

तद्द्वीपाधिपतिः प्रियव्रतात्मजो यज्ञबाहुः स्वसुतेभ्यः सप्तभ्यस् तन्नामानि सप्तवर्षाणि व्यभजत् सुरोचनं सौमनस्यं रमणकं देववर्षं पारिभद्रम् आप्यायनम् अविज्ञातम् इति ॥ 9 ॥

श्लोक 5.20.10

तेषु वर्षाद्रयो नद्यश् च सप्तैवाभिज्ञाताः स्वरसः शतशृङ्गो वामदेवः कुन्दो मुकुन्दः पुष्पवर्षः सहस्रश्रुतिर् इति अनुमतिः सिनीवाली सरस्वती कुहू रजनी नन्दा राकेति ॥ 10 ॥

श्लोक 5.20.11

तद्वर्षपुरुषाः श्रुतधरवीर्यधरवसुन्धरेषन्धरसंज्ञा भगवन्तं वेदमयं सोमम् आत्मानं वेदेन यजन्ते ॥ 11 ॥

श्लोक 5.20.12

स्वगोभिः पितृदेवेभ्यो विभजन् कृष्णशुक्लयोः । प्रजानां सर्वासां राजान्धः सोमो न आस्त्व् इति ॥ 12 ॥

श्लोक 5.20.13

एवं सुरोदाद् बहिस् तद्द्विगुणः समानेनावृतो घृतोदेन यथापूर्वः कुशद्वीपो यस्मिन् कुशस्तम्बो देवकृतस् तद्द्वीपाख्याकरो ज्वलन इवापरः स्वशष्परोचिषा दिशो विराजयति ॥ 13 ॥

श्लोक 5.20.14

तद्द्वीपपतिः प्रैयव्रतो राजन् हिरण्यरेता नाम स्वं द्वीपं सप्तभ्यः स्वपुत्रेभ्यो यथाभागं विभज्य स्वयं तप आतिष्ठत वसुवसुदानदृढरुचिनाभिगुप्तस्तुत्यव्रतविविक्तवामदेवनामभ्यः ॥ 14 ॥

श्लोक 5.20.15

तेषां वर्षेषु सीमागिरयो नद्यश् चाभिज्ञाताः सप्त सप्तैव चक्रश् चतुःशृङ्गः कपिलश् चित्रकूटो देवानीक ऊर्ध्वरोमा द्रविण इति रसकुल्या मधुकुल्या मित्रविन्दा श्रुतविन्दा देवगर्भा घृतच्युता मन्त्रमालेति ॥ 15 ॥

श्लोक 5.20.16

यासां पयोभिः कुशद्वीपौकसः कुशलकोविदाभियुक्तकुलकसंज्ञा भगवन्तं जातवेदसरूपिणं कर्मकौशलेन यजन्ते ॥ 16 ॥

श्लोक 5.20.17

परस्य ब्रह्मणः साक्षाज् जातवेदो ऽसि हव्यवाट् । देवानां पुरुषाङ्गानां यज्ञेन पुरुषं यजेति ॥ 17 ॥

श्लोक 5.20.18

तथा घृतोदाद् बहिः क्रौञ्चद्वीपो द्विगुणः स्वमानेन क्षीरोदेन परित उपकॢप्तो वृतो यथा कुशद्वीपो घृतोदेन यस्मिन् क्रौञ्चो नाम पर्वतराजो द्वीपनामनिर्वर्तक आस्ते ॥ 18 ॥

श्लोक 5.20.19

यो ऽसौ गुहप्रहरणोन्मथितनितम्बकुञ्जो ऽपि क्षीरोदेनासिच्यमानो भगवता वरुणेनाभिगुप्तो विभयो बभूव ॥ 19 ॥

श्लोक 5.20.20

तस्मिन्न् अपि प्रैयव्रतो घृतपृष्ठो नामाधिपतिः स्वे द्वीपे वर्षाणि सप्त विभज्य तेषु पुत्रनामसु सप्त रिक्थादान् वर्षपान् निवेश्य स्वयं भगवान् भगवतः परमकल्याणयशस आत्मभूतस्य हरेश् चरणारविन्दम् उपजगाम ॥ 20 ॥

श्लोक 5.20.21

आमो मधुरुहो मेघपृष्ठः सुधामा भ्राजिष्ठो लोहितार्णो वनस्पतिर् इति घृतपृष्ठसुतास् तेषां वर्षगिरयः सप्त सप्तैव नद्यश् चाभिख्याताः शुक्लो वर्धमानो भोजन उपबर्हिणो नन्दो नन्दनः सर्वतोभद्र इति अभया अमृतौघा आर्यका तीर्थवती रूपवती पवित्रवती शुक्लेति ॥ 21 ॥

श्लोक 5.20.22

यासाम् अम्भः पवित्रम् अमलम् उपयुञ्जानाः पुरुषऋषभद्रविणदेवकसंज्ञा वर्षपुरुषा आपोमयं देवम् अपां पूर्णेनाञ्जलिना यजन्ते ॥ 22 ॥

श्लोक 5.20.23

आपः पुरुषवीर्याः स्थ पुनन्तीर् भूर्भुवःसुवः । ता नः पुनीतामीवघ्नीः स्पृशताम् आत्मना भुव इति ॥ 23 ॥

श्लोक 5.20.24

एवं पुरस्तात् क्षीरोदात् परित उपवेशितः शाकद्वीपो द्वात्रिंशल्लक्षयोजनायामः समानेन च दधिमण्डोदेन परीतो यस्मिन् शाको नाम महीरुहः स्वक्षेत्रव्यपदेशको यस्य ह महासुरभिगन्धस् तं द्वीपम् अनुवासयति ॥ 24 ॥

श्लोक 5.20.25

तस्यापि प्रैयव्रत एवाधिपतिर् नाम्ना मेधातिथिः सो ऽपि विभज्य सप्त वर्षाणि पुत्रनामानि तेषु स्वात्मजान् पुरोजवमनोजवपवमानधूम्रानीकचित्ररेफबहुरूपविश्वधारसंज्ञान् निधाप्याधिपतीन् स्वयं भगवत्य् अनन्त आवेशितमतिस् तपोवनं प्रविवेश ॥ 25 ॥

श्लोक 5.20.26

एतेषां वर्षमर्यादागिरयो नद्यश् च सप्त सप्तैव ईशान उरुशृङ्गो बलभद्रः शतकेसरः सहस्रस्रोतो देवपालो महानस इति अनघायुर्दा उभयस्पृष्टिर् अपराजिता पञ्चपदी सहस्रस्रुतिर् निजधृतिर् इति ॥ 26 ॥

श्लोक 5.20.27

तद्वर्षपुरुषा ऋतव्रतसत्यव्रतदानव्रतानुव्रतनामानो भगवन्तं वाय्व्आत्मकं प्राणायामविधूतरजस्तमसः परमसमाधिना यजन्ते ॥ 27 ॥

श्लोक 5.20.28

अन्तःप्रविश्य भूतानि यो बिभर्त्य् आत्मकेतुभिः । अन्तर्यामीश्वरः साक्षात् पातु नो यद्वशे स्फुटम् ॥ 28 ॥

श्लोक 5.20.29

एवम् एव दधिमण्डोदात् परतः पुष्करद्वीपस् ततो द्विगुणायामः समन्तत उपकल्पितः समानेन स्वादूदकेन समुद्रेण बहिर् आवृतो यस्मिन् बृहत्पुष्करं ज्वलनशिखामलकनकपत्रायुतायुतं भगवतः कमलासनस्याध्यासनं परिकल्पितम् ॥ 29 ॥

श्लोक 5.20.30

तद्द्वीपमध्ये मानसोत्तरनामैक एवार्वाचीनपराचीनवर्षयोर् मर्यादाचलो ऽयुतयोजनोच्छ्रायायामो यत्र तु चतसृषु दिक्षु चत्वारि पुराणि लोकपालानाम् इन्द्रादीनां यद्उपरिष्टात् सूर्यरथस्य मेरुं परिभ्रमतः संवत्सरात्मकं चक्रं देवानाम् अहोरात्राभ्यां परिभ्रमति ॥ 30 ॥

श्लोक 5.20.31

तद्द्वीपस्याप्य् अधिपतिः प्रैयव्रतो वीतिहोत्रो नामैतस्यात्मजौ रमणकधातकिनामानौ वर्षपती नियुज्य स स्वयं पूर्वजवद्भगवत्कर्मशील एवास्ते ॥ 31 ॥

श्लोक 5.20.32

तद्वर्षपुरुषा भगवन्तं ब्रह्मरूपिणं सकर्मकेण कर्मणाराधयन्तीदं चोदाहरन्ति ॥ 32 ॥

श्लोक 5.20.33

यत् तत् कर्ममयं लिङ्गं ब्रह्मलिङ्गं जनो ऽर्चयेत् । एकान्तम् अद्वयं शान्तं तस्मै भगवते नम इति ॥ 33 ॥

श्लोक 5.20.34

ततः परस्ताल् लोकालोकनामाचलो लोकालोकयोर् अन्तराले परित उपक्षिप्तः ॥ 34 ॥

श्लोक 5.20.35

यावन् मानसोत्तरमेर्वोर् अन्तरं तावती भूमिः काञ्चन्य् अन्यादर्शतलोपमा यस्यां प्रहितः पदार्थो न कथञ्चित् पुनः प्रत्युपलभ्यते तस्मात् सर्वसत्त्वपरिहृतासीत् ॥ 35 ॥

श्लोक 5.20.36

लोकालोक इति समाख्या यद् अनेनाचलेन लोकालोकस्यान्तर्वर्तिनावस्थाप्यते ॥ 36 ॥

श्लोक 5.20.37

स लोकत्रयान्ते परित ईश्वरेण विहितो यस्मात् सूर्यादीनां ध्रुवापवर्गाणां ज्योतिर्गणानां गभस्तयो ऽर्वाचीनांस् त्रीन् लोकान् आवितन्वाना न कदाचित् पराचीना भवितुम् उत्सहन्ते तावद् उन्नहनायामः ॥ 37 ॥

श्लोक 5.20.38

एतावान् लोकविन्यासो मानलक्षणसंस्थाभिर् विचिन्तितः कविभिः स तु पञ्चाशत्कोटिगणितस्य भूगोलस्य तुरीयभागो ऽयं लोकालोकाचलः ॥ 38 ॥

श्लोक 5.20.39

तद्उपरिष्टाच् चतसृष्व् आशास्वात्मयोनिनाखिलजगद्गुरुणाधिनिवेशिता ये द्विरदपतय ऋषभः पुष्करचूडो वामनो ऽपराजित इति सकललोकस्थितिहेतवः ॥ 39 ॥

श्लोक 5.20.40

तेषां स्वविभूतीनां लोकपालानां च विविधवीर्योपबृंहणाय भगवान् परममहापुरुषो महाविभूतिपतिर् अन्तर्याम्य् आत्मनो विशुद्धसत्त्वं धर्मज्ञानवैराग्यैश्वर्याद्य्अष्टमहासिद्ध्य्उपलक्षणं विष्वक्सेनादिभिः स्वपार्षदप्रवरैः परिवारितो निजवरायुधोपशोभितैर् निजभुजदण्डैः सन्धारयमाणस् तस्मिन् गिरिवरे समन्तात् सकललोकस्वस्तय आस्ते ॥ 40 ॥

श्लोक 5.20.41

आकल्पम् एवं वेषं गत एष भगवान् आत्मयोगमायया विरचितविविधलोकयात्रागोपीयायेत्य् अर्थः ॥ 41 ॥

श्लोक 5.20.42

यो ऽन्तर्विस्तार एतेन ह्य् अलोकपरिमाणं च व्याख्यातं यद् बहिर् लोकालोकाचलात् ततः परस्ताद् योगेश्वरगतिं विशुद्धाम् उदाहरन्ति ॥ 42 ॥

श्लोक 5.20.43

अण्डमध्यगतः सूर्यो द्याव्आभूम्योर् यद् अन्तरम् । सूर्याण्डगोलयोर् मध्ये कोट्यः स्युः पञ्चविंशतिः ॥ 43 ॥

श्लोक 5.20.44

मृते ऽण्ड एष एतस्मिन् यद् अभूत् ततो मार्तण्ड इति व्यपदेशः हिरण्यगर्भ इति यद् धिरण्याण्डसमुद्भवः ॥ 44 ॥

श्लोक 5.20.45

सूर्येण हि विभज्यन्ते दिशः खं द्यौर् मही भिदा । स्वर्गापवर्गौ नरका रसौकांसि च सर्वशः ॥ 45 ॥

श्लोक 5.20.46

देवतिर्यङ्मनुष्याणां सरीसृपसवीरुधाम् । सर्वजीवनिकायानां सूर्य आत्मा दृग्ईश्वरः ॥ 46 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ