मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत पञ्चम स्कन्ध अध्याय 21

श्रीमद्भागवत पञ्चम स्कन्ध अध्याय 21 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 5.21.1

एतावान् एव भूवलयस्य सन्निवेशः प्रमाणलक्षणतो व्याख्यातः ॥ 1 ॥

श्लोक 5.21.2

एतेन हि दिवो मण्डलमानं तद्विद उपदिशन्ति यथा द्विदलयोर् निष्पावादीनां ते अन्तरेणान्तरिक्षं तद्उभयसन्धितम् ॥ 2 ॥

श्लोक 5.21.3

यन्मध्यगतो भगवांस् तपतां पतिस् तपन आतपेन त्रिलोकीं प्रतपत्य् अवभासयत्य् आत्मभासा स एष उदगयनदक्षिणायनवैषुवतसंज्ञाभिर् मान्द्यशैघ्र्यसमानाभिर् गतिभिर् आरोहणावरोहणसमानस्थानेषु यथासवनम् अभिपद्यमानो मकरादिषु राशिष्व् अहोरात्राणि दीर्घह्रस्वसमानानि विधत्ते ॥ 3 ॥

श्लोक 5.21.4

यदा मेषतुलयोर् वर्तते तदाहोरात्राणि समानानि भवन्ति यदा वृषभादिषु पञ्चसु च राशिषु चरति तदाहान्य् एव वर्धन्ते ह्रसति च मासि मास्य् एकैका घटिका रात्रिषु ॥ 4 ॥

श्लोक 5.21.5

यदा वृश्चिकादिषु पञ्चसु वर्तते तदाहोरात्राणि विपर्ययाणि भवन्ति ॥ 5 ॥

श्लोक 5.21.6

यावद् दक्षिणायनम् अहानि वर्धन्ते यावद् उदगयनं रात्रयः ॥ 6 ॥

श्लोक 5.21.7

एवं नव कोटय एकपञ्चाशल्लक्षाणि योजनानां मानसोत्तरगिरिपरिवर्तनस्योपदिशन्ति तस्मिन्न् ऐन्द्रीं पुरीं पूर्वस्मान् मेरोर् देवधानीं नाम दक्षिणतो याम्यां संयमनीं नाम पश्चाद् वारुणीं निम्लोचनीं नाम उत्तरतः सौम्यां विभावरीं नाम तासूदयमध्याह्नास्तमयनिशीथानीति भूतानां प्रवृत्तिनिवृत्तिनिमित्तानि समयविशेषेण मेरोश् चतुर्दिशम् ॥ 7 ॥

श्लोक 5.21.8

तत्रत्यानां दिवसमध्यङ्गत एव सदादित्यस् तपति सव्येनाचलं दक्षिणेन करोति ॥ 8 ॥

श्लोक 5.21.9

यत्रोदेति तस्य ह समानसूत्रनिपाते निम्लोचति यत्र क्वचन स्यन्देनाभितपति तस्य हैष समानसूत्रनिपाते प्रस्वापयति तत्र गतं न पश्यन्ति ये तं समनुपश्येरन् ॥ 9 ॥

श्लोक 5.21.10

यदा चैन्द्र्याः पुर्याः प्रचलते पञ्चदशघटिकाभिर् याम्यां सपादकोटिद्वयं योजनानां सार्धद्वादशलक्षाणि साधिकानि चोपयाति ॥ 10 ॥

श्लोक 5.21.11

एवं ततो वारुणीं सौम्याम् ऐन्द्रीं च पुनस् तथान्ये च ग्रहाः सोमादयो नक्षत्रैः सह ज्योतिश्चक्रे समभ्युद्यन्ति सह वा निम्लोचन्ति ॥ 11 ॥

श्लोक 5.21.12

एवं मुहूर्तेन चतुस्त्रिंशल्लक्षयोजनान्य् अष्टशताधिकानि सौरो रथस् त्रयीमयो ऽसौ चतसृषु परिवर्तते पुरीषु ॥ 12 ॥

श्लोक 5.21.13

यस्यैकं चक्रं द्वादशारं षण्नेमि त्रिणाभि संवत्सरात्मकं समामनन्ति तस्याक्षो मेरोर् मूर्धनि कृतो मानसोत्तरे कृतेतरभागो यत्र प्रोतं रविरथचक्रं तैलयन्त्रचक्रवद् भ्रमन् मानसोत्तरगिरौ परिभ्रमति ॥ 13 ॥

श्लोक 5.21.14

तस्मिन्न् अक्षे कृतमूलो द्वितीयो ऽक्षस् तुर्यमानेन सम्मितस् तैलयन्त्राक्षवद् ध्रुवे कृतोपरिभागः ॥ 14 ॥

श्लोक 5.21.15

रथनीडस् तु षट्त्रिंशल्लक्षयोजनायतस् तत्तुरीयभागविशालस् तावान् रविरथयुगो यत्र हयाश् छन्दोनामानः सप्तारुणयोजिता वहन्ति देवम् आदित्यम् ॥ 15 ॥

श्लोक 5.21.16

पुरस्तात् सवितुर् अरुणः पश्चाच् च नियुक्तः सौत्ये कर्मणि किलास्ते ॥ 16 ॥

श्लोक 5.21.17

तथा वालिखिल्या ऋषयो ऽङ्गुष्ठपर्वमात्राः षष्टिसहस्राणि पुरतः सूर्यं सूक्तवाकाय नियुक्ताः संस्तुवन्ति ॥ 17 ॥

श्लोक 5.21.18

तथान्ये च ऋषयो गन्धर्वाप्सरसो नागा ग्रामण्यो यातुधाना देवा इत्य् एकैकशो गणाः सप्त चतुर्दश मासि मासि भगवन्तं सूर्यम् आत्मानं नानानामानं पृथङ्नानानामानः पृथक्कर्मभिर् द्वन्द्वश उपासते ॥ 18 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ