श्रीमद्भागवत पञ्चम स्कन्ध अध्याय 22
श्रीमद्भागवत पञ्चम स्कन्ध अध्याय 22 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 5.22.1
यद् एतद् भगवत आदित्यस्य मेरुं ध्रुवं च प्रदक्षिणेन परिक्रामतो राशीनाम् अभिमुखं प्रचलितं चाप्रदक्षिणं भगवतोपवर्णितम् अमुष्य वयं कथम् अनुमिमीमहीति ॥ 1 ॥
श्लोक 5.22.2
यथा कुलालचक्रेण भ्रमता सह भ्रमतां तद्आश्रयाणां पिपीलिकादीनां गतिर् अन्यैव प्रदेशान्तरेष्व् अप्य् उपलभ्यमानत्वाद् एवं नक्षत्रराशिभिर् उपलक्षितेन कालचक्रेण ध्रुवं मेरुं च प्रदक्षिणेन परिधावता सह परिधावमानानां तद्आश्रयाणां सूर्यादीनां ग्रहाणां गतिर् अन्यैव नक्षत्रान्तरे राश्य्अन्तरे चोपलभ्यमानत्वात् ॥ 2 ॥
श्लोक 5.22.3
स एष भगवान् आदिपुरुष एव साक्षान् नारायणो लोकानां स्वस्तय आत्मानं त्रयीमयं कर्मविशुद्धिनिमित्तं कविभिर् अपि च वेदेन विजिज्ञास्यमानो द्वादशधा विभज्य षट्सु वसन्तादिष्व् ऋतुषु यथोपजोषम् ऋतुगुणान् विदधाति ॥ 3 ॥
श्लोक 5.22.4
तम् एतम् इह पुरुषास् त्रय्या विद्यया वर्णाश्रमाचारानुपथा उच्चावचैः कर्मभिर् आम्नातैर् योगवितानैश् च श्रद्धया यजन्तो ऽञ्जसा श्रेयः समधिगच्छन्ति ॥ 4 ॥
श्लोक 5.22.5
अथ स एष आत्मा लोकानां द्याव्आपृथिव्योर् अन्तरेण नभोवलयस्य कालचक्रगतो द्वादश मासान् भुङ्क्ते राशिसंज्ञान् संवत्सरावयवान् मासः पक्षद्वयं दिवा नक्तं चेति सपादर्क्षद्वयम् उपदिशन्ति यावता षष्ठम् अंशं भुञ्जीत स वै ऋतुर् इत्य् उपदिश्यते संवत्सरावयवः ॥ 5 ॥
श्लोक 5.22.6
अथ च यावतार्धेन नभोवीथ्यां प्रचरति तं कालम् अयनम् आचक्षते ॥ 6 ॥
श्लोक 5.22.7
अथ च यावन् नभोमण्डलं सह द्याव्आपृथिव्योर् मण्डलाभ्यां कार्त्स्न्येन स ह भुञ्जीत तं कालं संवत्सरं परिवत्सरम् इडावत्सरम् अनुवत्सरं वत्सरम् इति भानोर् मान्द्यशैघ्र्यसमगतिभिः समामनन्ति ॥ 7 ॥
श्लोक 5.22.8
एवं चन्द्रमा अर्कगभस्तिभ्य उपरिष्टाल् लक्षयोजनत उपलभ्यमानो ऽर्कस्य संवत्सरभुक्तिं पक्षाभ्यां मासभुक्तिं सपादर्क्षाभ्यां दिनेनैव पक्षभुक्तिम् अग्रचारी द्रुततरगमनो भुङ्क्ते ॥ 8 ॥
श्लोक 5.22.9
अथ चापूर्यमाणाभिश् च कलाभिर् अमराणां क्षीयमाणाभिश् च कलाभिः पित्णाम् अहोरात्राणि पूर्वपक्षापरपक्षाभ्यां वितन्वानः सर्वजीवनिवहप्राणो जीवश् चैकम् एकं नक्षत्रं त्रिंशता मुहूर्तैर् भुङ्क्ते ॥ 9 ॥
श्लोक 5.22.10
य एष षोडशकलः पुरुषो भगवान् मनोमयो ऽन्नमयो ऽमृतमयो देवपितृमनुष्यभूतपशुपक्षिसरीसृपवीरुधां प्राणाप्य् आयनशीलत्वात् सर्वमय इति वर्णयन्ति ॥ 10 ॥
श्लोक 5.22.11
तत उपरिष्टाद् द्विलक्षयोजनतो नक्षत्राणि मेरुं दक्षिणेनैव कालायन ईश्वरयोजितानि सहाभिजिताष्टाविंशतिः ॥ 11 ॥
श्लोक 5.22.12
तत उपरिष्टाद् उशना द्विलक्षयोजनत उपलभ्यते पुरतः पश्चात् सहैव वार्कस्य शैघ्र्यमान्द्यसाम्याभिर् गतिभिर् अर्कवच् चरति लोकानां नित्यदानुकूल एव प्रायेण वर्षयंश् चारेणानुमीयते स वृष्टिविष्टम्भग्रहोपशमनः ॥ 12 ॥
श्लोक 5.22.13
उशनसा बुधो व्याख्यातस् तत उपरिष्टाद् द्विलक्षयोजनतो बुधः सोमसुत उपलभ्यमानः प्रायेण शुभकृद् यदार्काद् व्यतिरिच्येत तदातिवाताभ्रप्रायानावृष्ट्य्आदिभयम् आशंसते ॥ 13 ॥
श्लोक 5.22.14
अत ऊर्ध्वम् अङ्गारको ऽपि योजनलक्षद्वितय उपलभ्यमानस् त्रिभिस् त्रिभिः पक्षैर् एकैकशो राशीन् द्वादशानुभुङ्क्ते यदि न वक्रेणाभिवर्तते प्रायेणाशुभग्रहो ऽघशंसः ॥ 14 ॥
श्लोक 5.22.15
तत उपरिष्टाद् द्विलक्षयोजनान्तरगता भगवान् बृहस्पतिर् एकैकस्मिन् राशौ परिवत्सरं परिवत्सरं चरति यदि न वक्रः स्यात् प्रायेणानुकूलो ब्राह्मणकुलस्य ॥ 15 ॥
श्लोक 5.22.16
तत उपरिष्टाद् योजनलक्षद्वयात् प्रतीयमानः शनैश्चर एकैकस्मिन् राशौ त्रिंशन् मासान् विलम्बमानः सर्वान् एवानुपर्येति तावद्भिर् अनुवत्सरैः प्रायेण हि सर्वेषाम् अशान्तिकरः ॥ 16 ॥
श्लोक 5.22.17
तत उत्तरस्माद् ऋषय एकादशलक्षयोजनान्तर उपलभ्यन्ते य एव लोकानां शम् अनुभावयन्तो भगवतो विष्णोर् यत् परमं पदं प्रदक्षिणं प्रक्रमन्ति ॥ 17 ॥