श्रीमद्भागवत पञ्चम स्कन्ध अध्याय 23
श्रीमद्भागवत पञ्चम स्कन्ध अध्याय 23 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 5.23.1
अथ तस्मात् परतस् त्रयोदशलक्षयोजनान्तरतो यत् तद् विष्णोः परमं पदम् अभिवदन्ति यत्र ह महाभागवतो ध्रुव औत्तानपादिर् अग्निनेन्द्रेण प्रजापतिना कश्यपेन धर्मेण च समकालयुग्भिः सबहुमानं दक्षिणतः क्रियमाण इदानीम् अपि कल्पजीविनाम् आजीव्य उपास्ते तस्येहानुभाव उपवर्णितः ॥ 1 ॥
श्लोक 5.23.2
स हि सर्वेषां ज्योतिर्गणानां ग्रहनक्षत्रादीनाम् अनिमिषेणाव्यक्तरंहसा भगवता कालेन भ्राम्यमाणानां स्थाणुर् इवावष्टम्भ ईश्वरेण विहितः शश्वद् अवभासते ॥ 2 ॥
श्लोक 5.23.3
यथा मेढीस्तम्भ आक्रमणपशवः संयोजितास् त्रिभिस् त्रिभिः सवनैर् यथास्थानं मण्डलानि चरन्त्य् एवं भगणा ग्रहादय एतस्मिन्न् अन्तर्बहिर्योगेन कालचक्र आयोजिता ध्रुवम् एवावलम्ब्य वायुनोदीर्यमाणा आकल्पान्तं परिचङ् क्रमन्ति नभसि यथा मेघाः श्येनादयो वायुवशाः कर्मसारथयः परिवर्तन्ते एवं ज्योतिर्गणाः प्रकृतिपुरुषसंयोगानुगृहीताः कर्मनिर्मितगतयो भुवि न पतन्ति ॥ 3 ॥
श्लोक 5.23.4
केचनैतज् ज्योतिर्अनीकं शिशुमारसंस्थानेन भगवतो वासुदेवस्य योगधारणायाम् अनुवर्णयन्ति ॥ 4 ॥
श्लोक 5.23.5
यस्य पुच्छाग्रे ऽवाक्शिरसः कुण्डलीभूतदेहस्य ध्रुव उपकल्पितस् तस्य लाङ्गूले प्रजापतिर् अग्निर् इन्द्रो धर्म इति पुच्छमूले धाता विधाता च कट्यां सप्तर्षयः तस्य दक्षिणावर्तकुण्डलीभूतशरीरस्य यान्य् उदगयनानि दक्षिणपार्श्वे तु नक्षत्राण्य् उपकल्पयन्ति दक्षिणायनानि तु सव्ये यथा शिशुमारस्य कुण्डलाभोगसन्निवेशस्य पार्श्वयोर् उभयोर् अप्य् अवयवाः समसङ्ख्या भवन्ति पृष्ठे त्व् अजवीथी आकाशगङ्गा चोदरतः ॥ 5 ॥
श्लोक 5.23.6
पुनर्वसुपुष्यौ दक्षिणवामयोः श्रोण्योर् आर्द्राश्लेषे च दक्षिणवामयोः पश्चिमयोः पादयोर् अभिजिद्उत्तराषाढे दक्षिणवामयोर् नासिकयोर् यथासङ्ख्यं श्रवणपूर्वाषाढे दक्षिणवामयोर् लोचनयोर् धनिष्ठा मूलं च दक्षिणवामयोः कर्णयोर् मघादीन्य् अष्ट नक्षत्राणि दक्षिणायनानि वामपार्श्ववङ्क्रिषु युञ्जीत तथैव मृगशीर्षादीन्य् उदगयनानि दक्षिणपार्श्ववङ्क्रिषु प्रातिलोम्येन प्रयुञ्जीत शतभिषाज्येष्ठे स्कन्धयोर् दक्षिणवामयोर् न्यसेत् ॥ 6 ॥
श्लोक 5.23.7
उत्तराहनाव् अगस्तिर् अधराहनौ यमो मुखेषु चाङ्गारकः शनैश्चर उपस्थे बृहस्पतिः ककुदि वक्षस्य् आदित्यो हृदये नारायणो मनसि चन्द्रो नाभ्याम् उशना स्तनयोर् अश्विनौ बुधः प्राणापानयो राहुर् गले केतवः सर्वाङ्गेषु रोमसु सर्वे तारागणाः ॥ 7 ॥
श्लोक 5.23.8
एतद् उ हैव भगवतो विष्णोः सर्वदेवतामयं रूपम् अहरहः सन्ध्यायां प्रयतो वाग्यतो निरीक्षमाण उपतिष्ठेत नमो ज्योतिर्लोकाय कालायनायानिमिषां पतये महापुरुषायाभिधीमहीति ॥ 8 ॥
श्लोक 5.23.9
ग्रहर्क्षतारामयम् आधिदैविकं पापापहं मन्त्रकृतां त्रिकालम् । नमस्यतः स्मरतो वा त्रिकालं नश्येत तत्कालजम् आशु पापम् ॥ 9 ॥