मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत पञ्चम स्कन्ध अध्याय 24

श्रीमद्भागवत पञ्चम स्कन्ध अध्याय 24 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 5.24.1

अधस्तात् सवितुर् योजनायुते स्वर्भानुर् नक्षत्रवच् चरतीत्य् एके यो ऽसाव् अमरत्वं ग्रहत्वं चालभत भगवद्अनुकम्पया स्वयम् असुरापसदः सैंहिकेयो ह्य् अतद्अर्हस् तस्य तात जन्म कर्माणि चोपरिष्टाद् वक्ष्यामः ॥ 1 ॥

श्लोक 5.24.2

यद् अदस् तरणेर् मण्डलं प्रतपतस् तद् विस्तरतो योजनायुतम् आचक्षते द्वादशसहस्रं सोमस्य त्रयोदशसहस्रं राहोर् यः पर्वणि तद्व्यवधानकृद् वैरानुबन्धः सूर्याचन्द्रमसाव् अभिधावति ॥ 2 ॥

श्लोक 5.24.3

तन् निशम्योभयत्रापि भगवता रक्षणाय प्रयुक्तं सुदर्शनं नाम भागवतं दयितम् अस्त्रं तत् तेजसा दुर्विषहं मुहुः परिवर्तमानम् अभ्यवस्थितो मुहूर्तम् उद्विजमानश् चकितहृदय आराद् एव निवर्तते तद् उपरागम् इति वदन्ति लोकाः ॥ 3 ॥

श्लोक 5.24.4

ततो ऽधस्तात् सिद्धचारणविद्याधराणां सदनानि तावन् मात्र एव ॥ 4 ॥

श्लोक 5.24.5

ततो ऽधस्ताद् यक्षरक्षःपिशाचप्रेतभूतगणानां विहाराजिरम् अन्तरिक्षं यावद् वायुः प्रवाति यावन् मेघा उपलभ्यन्ते ॥ 5 ॥

श्लोक 5.24.6

ततो ऽधस्ताच् छतयोजनान्तर इयं पृथिवी यावद् धंसभासश्येनसुपर्णादयः पतत्त्रिप्रवरा उत्पतन्तीति ॥ 6 ॥

श्लोक 5.24.7

उपवर्णितं भूमेर् यथासन्निवेशावस्थानम् अवनेर् अप्य् अधस्तात् सप्त भूविवरा एकैकशो योजनायुतान्तरेणायामविस्तारेणोपकॢप्ता अतलं वितलं सुतलं तलातलं महातलं रसातलं पातालम् इति ॥ 7 ॥

श्लोक 5.24.8

एतेषु हि बिलस्वर्गेषु स्वर्गाद् अप्य् अधिककामभोगैश्वर्यानन्दभूतिविभूतिभिः सुसमृद्धभवनोद्यानाक्रीडविहारेषु दैत्यदानवकाद्रवेया नित्यप्रमुदितानुरक्तकलत्रापत्यबन्धुसुहृद्अनुचरा गृहपतय ईश्वराद् अप्य् अप्रतिहतकामा मायाविनोदा निवसन्ति ॥ 8 ॥

श्लोक 5.24.9

येषु महाराज मयेन मायाविना विनिर्मिताः पुरो नानामणिप्रवरप्रवेकविरचितविचित्रभवनप्राकारगोपुरसभाचैत्यचत्वरायतनादिभिर् नागासुरमिथुनपारावतशुकसारिकाकीर्णकृत्रिमभूमिभिर् विवरेश्वरगृहोत्तमैः समलङ्कृताश् चकासति ॥ 9 ॥

श्लोक 5.24.10

उद्यानानि चातितरां मनइन्द्रियानन्दिभिः कुसुमफलस्तबकसुभगकिसलयावनतरुचिरविटपविटपिनां लताङ्गालिङ्गितानां श्रीभिः समिथुनविविधविहङ्गमजलाशयानाम् अमलजलपूर्णानां झषकुलोल्लङ्घनक्षुभितनीरनीरजकुमुदकुवलयकह्लारनीलोत्पललोहितशतपत्रादिवनेषु कृतनिकेतनानाम् एकविहाराकुलमधुरविविधस्वनादिभिर् इन्द्रियोत्सवैर् अमरलोकश्रियम् अतिशयितानि ॥ 10 ॥

श्लोक 5.24.11

यत्र ह वाव न भयम् अहोरात्रादिभिः कालविभागैर् उपलक्ष्यते ॥ 11 ॥

श्लोक 5.24.12

यत्र हि महाहिप्रवरशिरोमणयः सर्वं तमः प्रबाधन्ते ॥ 12 ॥

श्लोक 5.24.13

न वा एतेषु वसतां दिव्यौषधिरसरसायनान्नपानस्नानादिभिर् आधयो व्याधयो वलीपलितजरादयश् च देहवैवर्ण्यदौर्गन्ध्यस्वेदक्लमग्लानिर् इति वयो ऽवस्थाश् च भवन्ति ॥ 13 ॥

श्लोक 5.24.14

न हि तेषां कल्याणानां प्रभवति कुतश्चन मृत्युर् विना भगवत्तेजसश् चक्रापदेशात् ॥ 14 ॥

श्लोक 5.24.15

यस्मिन् प्रविष्टे ऽसुरवधूनां प्रायः पुंसवनानि भयाद् एव स्रवन्ति पतन्ति च ॥ 15 ॥

श्लोक 5.24.16

अथातले मयपुत्रो ऽसुरो बलो निवसति येन ह वा इह सृष्टाः षण्णवतिर् मायाः काश्चनाद्यापि मायाविनो धारयन्ति यस्य च जृम्भमाणस्य मुखतस् त्रयः स्त्रीगणा उदपद्यन्त स्वैरिण्यः कामिन्यः पुंश्चल्य इति या वै बिलायनं प्रविष्टं पुरुषं रसेन हाटकाख्येन साधयित्वा स्वविलासावलोकनानुरागस्मितसंलापोपगूहनादिभिः स्वैरं किल रमयन्ति यस्मिन्न् उपयुक्ते पुरुष ईश्वरो ऽहं सिद्धो ऽहम् इत्य् अयुतमहागजबलम् आत्मानम् अभिमन्यमानः कत्थते मदान्ध इव ॥ 16 ॥

श्लोक 5.24.17

ततो ऽधस्ताद् वितले हरो भगवान् हाटकेश्वरः स्वपार्षदभूतगणावृतः प्रजापतिसर्गोपबृंहणाय भवो भवान्या सह मिथुनीभूत आस्ते यतः प्रवृत्ता सरित्प्रवरा हाटकी नाम भवयोर् वीर्येण यत्र चित्रभानुर् मातरिश्वना समिध्यमान ओजसा पिबति तन् निष्ठ्यूतं हाटकाख्यं सुवर्णं भूषणेनासुरेन्द्रावरोधेषु पुरुषाः सह पुरुषीभिर् धारयन्ति ॥ 17 ॥

श्लोक 5.24.18

ततो ऽधस्तात् सुतले उदारश्रवाः पुण्यश्लोको विरोचनात्मजो बलिर् भगवता महेन्द्रस्य प्रियं चिकीर्षमाणेनादितेर् लब्धकायो भूत्वा वटुवामनरूपेण पराक्षिप्तलोकत्रयो भगवद्अनुकम्पयैव पुनः प्रवेशित इन्द्रादिष्व् अविद्यमानया सुसमृद्धया श्रियाभिजुष्टः स्वधर्मेणाराधयंस् तम् एव भगवन्तम् आराधनीयम् अपगतसाध्वस आस्ते ऽधुनापि ॥ 18 ॥

श्लोक 5.24.19

नो एवैतत् साक्षात्कारो भूमिदानस्य यत् तद् भगवत्य् अशेषजीवनिकायानां जीवभूतात्मभूते परमात्मनि वासुदेवे तीर्थतमे पात्र उपपन्ने परया श्रद्धया परमादरसमाहितमनसा सम्प्रतिपादितस्य साक्षाद् अपवर्गद्वारस्य यद् बिलनिलयैश्वर्यम् ॥ 19 ॥

श्लोक 5.24.20

यस्य ह वाव क्षुतपतनप्रस्खलनादिषु विवशः सकृन् नामाभिगृणन् पुरुषः कर्मबन्धनम् अञ्जसा विधुनोति यस्य हैव प्रतिबाधनं मुमुक्षवो ऽन्यथैवोपलभन्ते ॥ 20 ॥

श्लोक 5.24.21

तद् भक्तानाम् आत्मवतां सर्वेषाम् आत्मन्य् आत्मद आत्मतयैव ॥ 21 ॥

श्लोक 5.24.22

न वै भगवान् नूनम् अमुष्यानुजग्राह यद् उत पुनर् आत्मानुस्मृतिमोषणं मायामयभोगैश्वर्यम् एवातनुतेति ॥ 22 ॥

श्लोक 5.24.23

यत् तद् भगवतानधिगतान्योपायेन याच्ञाच्छलेनापहृतस्वशरीरावशेषितलोकत्रयो वरुणपाशैश् च सम्प्रतिमुक्तो गिरिदर्यां चापविद्ध इति होवाच ॥ 23 ॥

श्लोक 5.24.24

नूनं बतायं भगवान् अर्थेषु न निष्णातो यो ऽसाव् इन्द्रो यस्य सचिवो मन्त्राय वृत एकान्ततो बृहस्पतिस् तम् अतिहाय स्वयम् उपेन्द्रेणात्मानम् अयाचतात्मनश् चाशिषो नो एव तद्दास्यम् अतिगम्भीरवयसः कालस्य मन्वन्तरपरिवृत्तं कियल् लोकत्रयम् इदम् ॥ 24 ॥

श्लोक 5.24.25

यस्यानुदास्यम् एवास्मत्पितामहः किल वव्रे न तु स्वपित्र्यं यद् उताकुतोभयं पदं दीयमानं भगवतः परम् इति भगवतोपरते खलु स्वपितरि ॥ 25 ॥

श्लोक 5.24.26

तस्य महानुभावस्यानुपथम् अमृजितकषायः को वास्मद्विधः परिहीणभगवद्अनुग्रह उपजिगमिषतीति ॥ 26 ॥

श्लोक 5.24.27

तस्यानुचरितम् उपरिष्टाद् विस्तरिष्यते यस्य भगवान् स्वयम् अखिलजगद्गुरुर् नारायणो द्वारि गदापाणिर् अवतिष्ठते निजजनानुकम्पितहृदयो येनाङ्गुष्ठेन पदा दशकन्धरो योजनायुतायुतं दिग्विजय उच्चाटितः ॥ 27 ॥

श्लोक 5.24.28

ततो ऽधस्तात् तलातले मयो नाम दानवेन्द्रस् त्रिपुराधिपतिर् भगवता पुरारिणा त्रिलोकीशं चिकीर्षुणा निर्दग्धस्वपुरत्रयस् तत्प्रसादाल् लब्धपदो मायाविनाम् आचार्यो महादेवेन परिरक्षितो विगतसुदर्शनभयो महीयते ॥ 28 ॥

श्लोक 5.24.29

ततो ऽधस्तान् महातले काद्रवेयाणां सर्पाणां नैकशिरसां क्रोधवशो नाम गणः कुहकतक्षककालियसुषेणादिप्रधाना महाभोगवन्तः पतत्त्रिराजाधिपतेः पुरुषवाहाद् अनवरतम् उद्विजमानाः स्वकलत्रापत्यसुहृत्कुटुम्बसङ्गेन क्वचित् प्रमत्ता विहरन्ति ॥ 29 ॥

श्लोक 5.24.30

ततो ऽधस्ताद् रसातले दैतेया दानवाः पणयो नाम निवातकवचाः कालेया हिरण्यपुरवासिन इति विबुधप्रत्यनीका उत्पत्त्या महौजसो महासाहसिनो भगवतः सकललोकानुभावस्य हरेर् एव तेजसा प्रतिहतबलावलेपा बिलेशया इव वसन्ति ये वै सरमयेन्द्रदूत्या वाग्भिर् मन्त्रवर्णाभिर् इन्द्राद् बिभ्यति ॥ 30 ॥

श्लोक 5.24.31

ततो ऽधस्तात् पाताले नागलोकपतयो वासुकिप्रमुखाः शङ्खकुलिकमहाशङ्खश्वेतधनञ्जयधृतराष्ट्रशङ्खचूडकम्बलाश्वतरदेवदत्तादयो महाभोगिनो महामर्षा निवसन्ति येषाम् उ ह वै पञ्चसप्तदशशतसहस्रशीर्षाणां फणासु विरचिता महामणयो रोचिष्णवः पातालविवरतिमिरनिकरं स्वरोचिषा विधमन्ति ॥ 31 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ