मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत पञ्चम स्कन्ध अध्याय 8

श्रीमद्भागवत पञ्चम स्कन्ध अध्याय 8 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 5.8.1

एकदा तु महानद्यां कृताभिषेकनैयमिकावश्यको ब्रह्माक्षरम् अभिगृणानो मुहूर्तत्रयम् उदकान्त उपविवेश ॥ 1 ॥

श्लोक 5.8.2

तत्र तदा राजन् हरिणी पिपासया जलाशयाभ्याशम् एकैवोपजगाम ॥ 2 ॥

श्लोक 5.8.3

तया पेपीयमान उदके तावद् एवाविदूरेण नदतो मृगपतेर् उन्नादो लोकभयङ्कर उदपतत् ॥ 3 ॥

श्लोक 5.8.4

तम् उपश्रुत्य सा मृगवधूः प्रकृतिविक्लवा चकितनिरीक्षणा सुतराम् अपि हरिभयाभिनिवेशव्यग्रहृदया पारिप्लवदृष्टिर् अगततृषा भयात् सहसैवोच्चक्राम ॥ 4 ॥

श्लोक 5.8.5

तस्या उत्पतन्त्या अन्तर्वत्न्या उरुभयावगलितो योनिनिर्गतो गर्भः स्रोतसि निपपात ॥ 5 ॥

श्लोक 5.8.6

तत्प्रसवोत्सर्पणभयखेदातुरा स्वगणेन वियुज्यमाना कस्याञ्चिद् दर्यां कृष्णसारसती निपपाताथ च ममार ॥ 6 ॥

श्लोक 5.8.7

तं त्व् एणकुणकं कृपणं स्रोतसानूह्यमानम् अभिवीक्ष्यापविद्धं बन्धुर् इवानुकम्पया राजर्षिर् भरत आदाय मृतमातरम् इत्य् आश्रमपदम् अनयत् ॥ 7 ॥

श्लोक 5.8.8

तस्य ह वा एणकुणक उच्चैर् एतस्मिन् कृतनिजाभिमानस्याहर्अहस् तत्पोषणपालनलालनप्रीणनानुध्यानेनात्मनियमाः सहयमाः पुरुषपरिचर्यादय एकैकशः कतिपयेनाहर्गणेन वियुज्यमानाः किल सर्व एवोदवसन् ॥ 8 ॥

श्लोक 5.8.9

अहो बतायं हरिणकुणकः कृपण ईश्वररथचरणपरिभ्रमणरयेण स्वगणसुहृद्बन्धुभ्यः परिवर्जितः शरणं च मोपसादितो माम् एव मातापितरौ भ्रातृज्ञातीन् यौथिकांश् चैवोपेयाय नान्यं कञ्चन वेद मय्य् अतिविस्रब्धश् चात एव मया मत्परायणस्य पोषणपालनप्रीणनलालनम् अनसूयुनानुष्ठेयं शरण्योपेक्षादोषविदुषा ॥ 9 ॥

श्लोक 5.8.10

नूनं ह्य् आर्याः साधव उपशमशीलाः कृपणसुहृद एवंविधार्थे स्वार्थान् अपि गुरुतरान् उपेक्षन्ते ॥ 10 ॥

श्लोक 5.8.11

इति कृतानुषङ्ग आसनशयनाटनस्नानाशनादिषु सह मृगजहुना स्नेहानुबद्धहृदय आसीत् ॥ 11 ॥

श्लोक 5.8.12

कुशकुसुमसमित्पलाशफलमूलोदकान्य् आहरिष्यमाणो वृकसालावृकादिभ्यो भयम् आशंसमानो यदा सह हरिणकुणकेन वनं समाविशति ॥ 12 ॥

श्लोक 5.8.13

पथिषु च मुग्धभावेन तत्र तत्र विषक्तमतिप्रणयभरहृदयः कार्पण्यात् स्कन्धेनोद्वहति एवम् उत्सङ्ग उरसि चाधायोपलालयन् मुदं परमाम् अवाप ॥ 13 ॥

श्लोक 5.8.14

क्रियायां निर्वर्त्यमानायाम् अन्तराले ऽप्य् उत्थायोत्थाय यदैनम् अभिचक्षीत तर्हि वाव स वर्षपतिः प्रकृतिस्थेन मनसा तस्मा आशिष आशास्ते स्वस्ति स्ताद् वत्स ते सर्वत इति ॥ 14 ॥

श्लोक 5.8.15

अन्यदा भृशम् उद्विग्नमना नष्टद्रविण इव कृपणः सकरुणम् अतितर्षेण हरिणकुणकविरहविह्वलहृदयसन्तापस् तम् एवानुशोचन् किल कश्मलं महद् अभिरम्भित इति होवाच ॥ 15 ॥

श्लोक 5.8.16

अपि बत स वै कृपण एणबालको मृतहरिणीसुतो ऽहो ममानार्यस्य शठकिरातमतेर् अकृतसुकृतस्य कृतविस्रम्भ आत्मप्रत्ययेन तद् अविगणयन् सुजन इवागमिष्यति ॥ 16 ॥

श्लोक 5.8.17

अपि क्षेमेणास्मिन्न् आश्रमोपवने शष्पाणि चरन्तं देवगुप्तं द्रक्ष्यामि ॥ 17 ॥

श्लोक 5.8.18

अपि च न वृकः सालावृको ऽन्यतमो वा नैकचर एकचरो वा भक्षयति ॥ 18 ॥

श्लोक 5.8.19

निम्लोचति ह भगवान् सकलजगत्क्षेमोदयस् त्रय्य्आत्माद्यापि मम न मृगवधून्यास आगच्छति ॥ 19 ॥

श्लोक 5.8.20

अपि स्विद् अकृतसुकृतम् आगत्य मां सुखयिष्यति हरिणराजकुमारो विविधरुचिरदर्शनीयनिजमृगदारकविनोदैर् असन्तोषं स्वानाम् अपनुदन् ॥ 20 ॥

श्लोक 5.8.21

क्ष्वेलिकायां मां मृषासमाधिनामीलितदृशं प्रेमसंरम्भेण चकितचकित आगत्य पृषद्अपरुषविषाणाग्रेण लुठति ॥ 21 ॥

श्लोक 5.8.22

आसादितहविषि बर्हिषि दूषिते मयोपालब्धो भीतभीतः सपद्य् उपरतरास ऋषिकुमारवद् अवहितकरणकलाप आस्ते ॥ 22 ॥

श्लोक 5.8.23

किं वा अरे आचरितं तपस् तपस्विन्यानया यद् इयम् अवनिः सविनयकृष्णसारतनयतनुतरसुभगशिवतमाखरखुरपदपङ्क्तिभिर् द्रविणविधुरातुरस्य कृपणस्य मम द्रविणपदवीं सूचयन्त्य् आत्मानं च सर्वतः कृतकौतुकं द्विजानां स्वर्गापवर्गकामानां देवयजनं करोति ॥ 23 ॥

श्लोक 5.8.24

अपि स्विद् असौ भगवान् उडुपतिर् एनं मृगपतिभयान् मृतमातरं मृगबालकं स्वाश्रमपरिभ्रष्टम् अनुकम्पया कृपणजनवत्सलः परिपाति ॥ 24 ॥

श्लोक 5.8.25

किं वात्मजविश्लेषज्वरदवदहनशिखाभिर् उपतप्यमानहृदयस्थलनलिनीकं माम् उपसृतमृगीतनयं शिशिरशान्तानुरागगुणितनिजवदनसलिलामृतमयगभस्तिभिः स्वधयतीति च ॥ 25 ॥

श्लोक 5.8.26

एवम् अघटमानमनोरथाकुलहृदयो मृगदारकाभासेन स्वारब्धकर्मणा योगारम्भणतो विभ्रंशितः स योगतापसो भगवद्आराधनलक्षणाच् च कथम् इतरथा जात्य्अन्तर एणकुणक आसङ्गः साक्षान् निःश्रेयसप्रतिपक्षतया प्राक्परित्यक्तदुस्त्यजहृदयाभिजातस्य तस्यैवम् अन्तरायविहतयोगारम्भणस्य राजर्षेर् भरतस्य तावन् मृगार्भकपोषणपालनप्रीणनलालनानुषङ्गेणाविगणयत आत्मानम् अहिर् इवाखुबिलं दुरतिक्रमः कालः करालरभस आपद्यत ॥ 26 ॥

श्लोक 5.8.27

तदानीम् अपि पार्श्ववर्तिनम् आत्मजम् इवानुशोचन्तम् अभिवीक्षमाणो मृग एवाभिनिवेशितमना विसृज्य लोकम् इमं सह मृगेण कलेवरं मृतम् अनु न मृतजन्मानुस्मृतिर् इतरवन् मृगशरीरम् अवाप ॥ 27 ॥

श्लोक 5.8.28

तत्रापि ह वा आत्मनो मृगत्वकारणं भगवद्आराधनसमीहानुभावेनानुस्मृत्य भृशम् अनुतप्यमान आह ॥ 28 ॥

श्लोक 5.8.29

अहो कष्टं भ्रष्टो ऽहम् आत्मवताम् अनुपथाद् यद्विमुक्तसमस्तसङ्गस्य विविक्तपुण्यारण्यशरणस्यात्मवत आत्मनि सर्वेषाम् आत्मनां भगवति वासुदेवे तद्अनुश्रवणमननसङ्कीर्तनाराधनानुस्मरणाभियोगेनाशून्यसकलयामेन कालेन समावेशितं समाहितं कार्त्स्न्येन मनस् तत् तु पुनर् ममाबुधस्यारान् मृगसुतम् अनु परिसुस्राव ॥ 29 ॥

श्लोक 5.8.30

इत्य् एवं निगूढनिर्वेदो विसृज्य मृगीं मातरं पुनर् भगवत्क्षेत्रम् उपशमशीलमुनिगणदयितं शालग्रामं पुलस्त्यपुलहाश्रमं कालञ्जरात् प्रत्याजगाम ॥ 30 ॥

श्लोक 5.8.31

तस्मिन्न् अपि कालं प्रतीक्षमाणः सङ्गाच् च भृशम् उद्विग्न आत्मसहचरः शुष्कपर्णतृणवीरुधा वर्तमानो मृगत्वनिमित्तावसानम् एव गणयन् मृगशरीरं तीर्थोदकक्लिन्नम् उत्ससर्ज ॥ 31 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ