श्रीमद्भागवत षष्ठ स्कन्ध अध्याय 10
श्रीमद्भागवत षष्ठ स्कन्ध अध्याय 10 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 6.10.1
इन्द्रमेवं समादिश्य भगवान् विश्वभावनः । पश्यतामनिमेषाणां अत्रैवान्तर्दधे हरिः ॥ 1 ॥
श्लोक 6.10.2
तथाभियाचितो देवैरृषिराथर्वणो महान् । मोदमान उवाचेदं प्रहसन्निव भारत ॥ 2 ॥
श्लोक 6.10.3
अपि वृन्दारका यूयं न जानीथ शरीरिणाम् । संस्थायां यस्त्वभिद्रोहो दुःसहश्चेतनापहः ॥ 3 ॥
श्लोक 6.10.4
जिजीविषूणां जीवानामात्मा प्रेष्ठ इहेप्सितः । क उत्सहेत तं दातुं भिक्षमाणाय विष्णवे ॥ 4 ॥
श्लोक 6.10.5
किं नु तद्दुस्त्यजं ब्रह्मन् पुंसां भूतानुकम्पिनाम् । भवद्विधानां महतां पुण्यश्लोकेड्यकर्मणाम् ॥ 5 ॥
श्लोक 6.10.6
नूनं स्वार्थपरो लोको न वेद परसङ्कटम् । यदि वेद न याचेत नेति नाह यदीश्वरः ॥ 6 ॥
श्लोक 6.10.7
धर्मं वः श्रोतुकामेन यूयं मे प्रत्युदाहृताः । एष वः प्रियमात्मानं त्यजन्तं सन्त्यजाम्य् अहम् ॥ 7 ॥
श्लोक 6.10.8
यो ऽध्रुवेणात्मना नाथा न धर्मं न यशः पुमान् । ईहेत भूतदयया स शोच्यः स्थावरैरपि ॥ 8 ॥
श्लोक 6.10.9
एतावान् अव्ययो धर्मः पुण्यश्लोकैरुपासितः । यो भूतशोकहर्षाभ्यामात्मा शोचति हृष्यति ॥ 9 ॥
श्लोक 6.10.10
अहो दैन्यमहो कष्टं पारक्यैः क्षणभङ्गुरैः । यन् नोपकुर्यादस्वार्थैर्मर्त्यः स्वज्ञातिविग्रहैः ॥ 10 ॥
श्लोक 6.10.11
एवं कृतव्यवसितो दध्यङ्ङ् आथर्वणस्तनुम् । परे भगवति ब्रह्मण्य् आत्मानं सन्नयन् जहौ ॥ 11 ॥
श्लोक 6.10.12
यताक्षासुमनोबुद्धिस्तत्त्वदृग् ध्वस्तबन्धनः । आस्थितः परमं योगं न देहं बुबुधे गतम् ॥ 12 ॥
श्लोक 6.10.13
अथेन्द्रो वज्रमुद्यम्य निर्मितं विश्वकर्मणा । मुनेः शक्तिभिरुत्सिक्तो भगवत्तेजसान्वितः ॥ 13 ॥
श्लोक 6.10.14
वृतो देवगणैः सर्वैर्गजेन्द्रोपर्य् अशोभत । स्तूयमानो मुनिगणैस्त्रैलोक्यं हर्षयन्निव ॥ 14 ॥
श्लोक 6.10.15
वृत्रमभ्यद्रवच् छत्रुमसुरानीकयूथपैः । पर्यस्तमोजसा राजन् क्रुद्धो रुद्र इवान्तकम् ॥ 15 ॥
श्लोक 6.10.16
ततः सुराणामसुरै रणः परमदारुणः । त्रेतामुखे नर्मदायामभवत् प्रथमे युगे ॥ 16 ॥
श्लोक 6.10.17
रुद्रैर्वसुभिरादित्यैरश्विभ्यां पितृवह्निभिः । मरुद्भिरृभुभिः साध्यैर्विश्वेदेवैर्मरुत्पतिम् ॥ 17 ॥
श्लोक 6.10.18
दृष्ट्वा वज्रधरं शक्रं रोचमानं स्वया श्रिया । नामृष्यन्नसुरा राजन् मृधे वृत्रपुरःसराः ॥ 18 ॥
श्लोक 6.10.19
नमुचिः शम्बरो ऽनर्वा द्विमूर्धा ऋषभो ऽसुरः । हयग्रीवः शङ्कुशिरा विप्रचित्तिरयोमुखः ॥ 19 ॥
श्लोक 6.10.20
पुलोमा वृषपर्वा च प्रहेतिर्हेतिरुत्कलः । दैतेया दानवा यक्षा रक्षांसि च सहस्रशः ॥ 20 ॥
श्लोक 6.10.21
सुमालिमालिप्रमुखाः कार्तस्वरपरिच्छदाः । प्रतिषिध्येन्द्रसेनाग्रं मृत्योरपि दुरासदम् ॥ 21 ॥
श्लोक 6.10.22
अभ्यर्दयन्नसम्भ्रान्ताः सिंहनादेन दुर्मदाः । गदाभिः परिघैर्बाणैः प्रासमुद्गरतोमरैः ॥ 22 ॥
श्लोक 6.10.23
शूलैः परश्वधैः खड्गैः शतघ्नीभिर्भुशुण्डिभिः । सर्वतो ऽवाकिरन् शस्त्रैरस्त्रैश्च विबुधर्षभान् ॥ 23 ॥
श्लोक 6.10.24
न ते ऽदृश्यन्त सञ्छन्नाः शरजालैः समन्ततः । पुङ्खानुपुङ्खपतितैर्ज्योतींषीव नभोघनैः ॥ 24 ॥
श्लोक 6.10.25
न ते शस्त्रास्त्रवर्षौघा ह्य् आसेदुः सुरसैनिकान् । छिन्नाः सिद्धपथे देवैर्लघुहस्तैः सहस्रधा ॥ 25 ॥
श्लोक 6.10.26
अथ क्षीणास्त्रशस्त्रौघा गिरिशृङ्गद्रुमोपलैः । अभ्यवर्षन् सुरबलं चिच्छिदुस्तांश्च पूर्ववत् ॥ 26 ॥
श्लोक 6.10.27
तान् अक्षतान् स्वस्तिमतो निशाम्य शस्त्रास्त्रपूगैरथ वृत्रनाथाः । द्रुमैर्दृषद्भिर्विविधाद्रिशृङ्गैर् अविक्षतांस्तत्रसुरिन्द्रसैनिकान् ॥ 27 ॥
श्लोक 6.10.28
सर्वे प्रयासा अभवन् विमोघाः कृताः कृता देवगणेषु दैत्यैः । कृष्णानुकूलेषु यथा महत्सु क्षुद्रैः प्रयुक्ता ऊषती रूक्षवाचः ॥ 28 ॥
श्लोक 6.10.29
ते स्वप्रयासं वितथं निरीक्ष्य हरावभक्ता हतयुद्धदर्पाः । पलायनायाजिमुखे विसृज्य पतिं मनस्ते दधुरात्तसाराः ॥ 29 ॥
श्लोक 6.10.30
वृत्रो ऽसुरांस्तान् अनुगान् मनस्वी प्रधावतः प्रेक्ष्य बभाष एतत् । पलायितं प्रेक्ष्य बलं च भग्नं भयेन तीव्रेण विहस्य वीरः ॥ 30 ॥
श्लोक 6.10.31
कालोपपन्नां रुचिरां मनस्विनां जगाद वाचं पुरुषप्रवीरः । हे विप्रचित्ते नमुचे पुलोमन् मयानर्वन् छम्बर मे शृणुध्वम् ॥ 31 ॥
श्लोक 6.10.32
जातस्य मृत्युर्ध्रुव एव सर्वतः प्रतिक्रिया यस्य न चेह कॢप्ता । लोको यशश्चाथ ततो यदि ह्य् अमुं को नाम मृत्युं न वृणीत युक्तम् ॥ 32 ॥
श्लोक 6.10.33
द्वौ सम्मताविह मृत्यू दुरापौ यद्ब्रह्मसन्धारणया जितासुः । कलेवरं योगरतो विजह्याद् यदग्रणीर्वीरशये ऽनिवृत्तः ॥ 33 ॥