मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत षष्ठ स्कन्ध अध्याय 11

श्रीमद्भागवत षष्ठ स्कन्ध अध्याय 11 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 6.11.1

त एवं शंसतो धर्मं वचः पत्युरचेतसः । नैवागृह्णन्त सम्भ्रान्ताः पलायनपरा नृप ॥ 1 ॥

श्लोक 6.11.2

विशीर्यमाणां पृतनामासुरीमसुरर्षभः । कालानुकूलैस्त्रिदशैः काल्यमानामनाथवत् ॥ 2 ॥

श्लोक 6.11.3

दृष्ट्वातप्यत सङ्क्रुद्ध इन्द्रशत्रुरमर्षितः । तान् निवार्यौजसा राजन् निर्भर्त्स्येदमुवाच ह ॥ 3 ॥

श्लोक 6.11.4

किं व उच्चरितैर्मातुर्धावद्भिः पृष्ठतो हतैः । न हि भीतवधः श्लाघ्यो न स्वर्ग्यः शूरमानिनाम् ॥ 4 ॥

श्लोक 6.11.5

यदि वः प्रधने श्रद्धा सारं वा क्षुल्लका हृदि । अग्रे तिष्ठत मात्रं मे न चेद्ग्राम्यसुखे स्पृहा ॥ 5 ॥

श्लोक 6.11.6

एवं सुरगणान् क्रुद्धो भीषयन् वपुषा रिपून् । व्यनदत् सुमहाप्राणो येन लोका विचेतसः ॥ 6 ॥

श्लोक 6.11.7

तेन देवगणाः सर्वे वृत्रविस्फोटनेन वै । निपेतुर्मूर्च्छिता भूमौ यथैवाशनिना हताः ॥ 7 ॥

श्लोक 6.11.8

ममर्द पद्भ्यां सुरसैन्यमातुरं निमीलिताक्षं रणरङ्गदुर्मदः । गां कम्पयन्नुद्यतशूल ओजसा नालं वनं यूथपतिर्यथोन्मदः ॥ 8 ॥

श्लोक 6.11.9

विलोक्य तं वज्रधरो ऽत्यमर्षितः स्वशत्रवे ऽभिद्रवते महागदाम् । चिक्षेप तामापततीं सुदुःसहां जग्राह वामेन करेण लीलया ॥ 9 ॥

श्लोक 6.11.10

स इन्द्रशत्रुः कुपितो भृशं तया महेन्द्रवाहं गदयोरुविक्रमः । जघान कुम्भस्थल उन्नदन् मृधे तत् कर्म सर्वे समपूजयन् नृप ॥ 10 ॥

श्लोक 6.11.11

ऐरावतो वृत्रगदाभिमृष्टो विघूर्णितो ऽद्रिः कुलिशाहतो यथा । अपासरद्भिन्नमुखः सहेन्द्रो मुञ्चन्नसृक् सप्तधनुर्भृशार्तः ॥ 11 ॥

श्लोक 6.11.12

न सन्नवाहाय विषण्णचेतसे प्रायुङ्क्त भूयः स गदां महात्मा । इन्द्रो ऽमृतस्यन्दिकराभिमर्श वीतव्यथक्षतवाहो ऽवतस्थे ॥ 12 ॥

श्लोक 6.11.13

स तं नृपेन्द्राहवकाम्यया रिपुं वज्रायुधं भ्रातृहणं विलोक्य । स्मरंश्च तत्कर्म नृशंसमंहः शोकेन मोहेन हसन् जगाद ॥ 13 ॥

श्लोक 6.11.14

दिष्ट्या भवान् मे समवस्थितो रिपुर् यो ब्रह्महा गुरुहा भ्रातृहा च । दिष्ट्यानृणो ऽद्याहमसत्तम त्वया मच्छूलनिर्भिन्नदृषद्धृदाचिरात् ॥ 14 ॥

श्लोक 6.11.15

यो नो ऽग्रजस्यात्मविदो द्विजातेर् गुरोरपापस्य च दीक्षितस्य । विश्रभ्य खड्गेन शिरांस्य् अवृश्चत् पशोरिवाकरुणः स्वर्गकामः ॥ 15 ॥

श्लोक 6.11.16

श्रीह्रीदयाकीर्तिभिरुज्झितं त्वां स्वकर्मणा पुरुषादैश्च गर्ह्यम् । कृच्छ्रेण मच्छूलविभिन्नदेहम् अस्पृष्टवह्निं समदन्ति गृध्राः ॥ 16 ॥

श्लोक 6.11.17

अन्ये ऽनु ये त्वेह नृशंसमज्ञा यदुद्यतास्त्राः प्रहरन्ति मह्यम् । तैर्भूतनाथान् सगणान् निशात त्रिशूलनिर्भिन्नगलैर्यजामि ॥ 17 ॥

श्लोक 6.11.18

अथो हरे मे कुलिशेन वीर हर्ता प्रमथ्यैव शिरो यदीह । तत्रानृणो भूतबलिं विधाय मनस्विनां पादरजः प्रपत्स्ये ॥ 18 ॥

श्लोक 6.11.19

सुरेश कस्मान् न हिनोषि वज्रं पुरः स्थिते वैरिणि मय्य् अमोघम् । मा संशयिष्ठा न गदेव वज्रः स्यान् निष्फलः कृपणार्थेव याच्ञा ॥ 19 ॥

श्लोक 6.11.20

नन्वेष वज्रस्तव शक्र तेजसा हरेर्दधीचेस्तपसा च तेजितः । तेनैव शत्रुं जहि विष्णुयन्त्रितो यतो हरिर्विजयः श्रीर्गुणास्ततः ॥ 20 ॥

श्लोक 6.11.21

अहं समाधाय मनो यथाह नः सङ्कर्षणस्तच्चरणारविन्दे । त्वद्वज्ररंहोलुलितग्राम्यपाशो गतिं मुनेर्याम्य् अपविद्धलोकः ॥ 21 ॥

श्लोक 6.11.22

पुंसां किलैकान्तधियां स्वकानां याः सम्पदो दिवि भूमौ रसायाम् । न राति यद्द्वेष उद्वेग आधिर् मदः कलिर्व्यसनं सम्प्रयासः ॥ 22 ॥

श्लोक 6.11.23

त्रैवर्गिकायासविघातमस्मत् पतिर्विधत्ते पुरुषस्य शक्र । ततो ऽनुमेयो भगवत्प्रसादो यो दुर्लभो ऽकिञ्चनगोचरो ऽन्यैः ॥ 23 ॥

श्लोक 6.11.24

अहं हरे तव पादैकमूल दासानुदासो भवितास्मि भूयः । मनः स्मरेतासुपतेर्गुणांस्ते गृणीत वाक् कर्म करोतु कायः ॥ 24 ॥

श्लोक 6.11.25

न नाकपृष्ठं न च पारमेष्ठ्यं न सार्वभौमं न रसाधिपत्यम् । न योगसिद्धीरपुनर्भवं वा समञ्जस त्वा विरहय्य काङ्क्षे ॥ 25 ॥

श्लोक 6.11.26

अजातपक्षा इव मातरं खगाः स्तन्यं यथा वत्सतराः क्षुधार्ताः । प्रियं प्रियेव व्युषितं विषण्णा मनो ऽरविन्दाक्ष दिदृक्षते त्वाम् ॥ 26 ॥

श्लोक 6.11.27

ममोत्तमश्लोकजनेषु सख्यं संसारचक्रे भ्रमतः स्वकर्मभिः । त्वन्माययात्मात्मजदारगेहेष्व् आसक्तचित्तस्य न नाथ भूयात् ॥ 27 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ