मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत षष्ठ स्कन्ध अध्याय 9

श्रीमद्भागवत षष्ठ स्कन्ध अध्याय 9 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 6.9.1

तस्यासन् विश्वरूपस्य शिरांसि त्रीणि भारत । सोमपीथं सुरापीथमन्नादमिति शुश्रुम ॥ 1 ॥

श्लोक 6.9.2

स वै बर्हिषि देवेभ्यो भागं प्रत्यक्षमुच्चकैः । अददद्यस्य पितरो देवाः सप्रश्रयं नृप ॥ 2 ॥

श्लोक 6.9.3

स एव हि ददौ भागं परोक्षमसुरान् प्रति । यजमानो ऽवहद्भागं मातृस्नेहवशानुगः ॥ 3 ॥

श्लोक 6.9.4

तद्देवहेलनं तस्य धर्मालीकं सुरेश्वरः । आलक्ष्य तरसा भीतस्तच्छीर्षाण्य् अच्छिनद्रुषा ॥ 4 ॥

श्लोक 6.9.5

सोमपीथं तु यत् तस्य शिर आसीत् कपिञ्जलः । कलविङ्कः सुरापीथमन्नादं यत् स तित्तिरिः ॥ 5 ॥

श्लोक 6.9.6

ब्रह्महत्यामञ्जलिना जग्राह यदपीश्वरः । संवत्सरान्ते तदघं भूतानां स विशुद्धये ॥ 6 ॥

श्लोक 6.9.7

भूम्यम्बुद्रुमयोषिद्भ्यश्चतुर्धा व्यभजद्धरिः । भूमिस्तुरीयं जग्राह खातपूरवरेण वै ॥ 7 ॥

श्लोक 6.9.8

ईरिणं ब्रह्महत्याया रूपं भूमौ प्रदृश्यते । तुर्यं छेदविरोहेण वरेण जगृहुर्द्रुमाः ॥ 8 ॥

श्लोक 6.9.9

तेषां निर्यासरूपेण ब्रह्महत्या प्रदृश्यते । शश्वत्कामवरेणांहस्तुरीयं जगृहुः स्त्रियः ॥ 9 ॥

श्लोक 6.9.10

रजोरूपेण तास्वंहो मासि मासि प्रदृश्यते । द्रव्यभूयोवरेणापस्तुरीयं जगृहुर्मलम् ॥ 10 ॥

श्लोक 6.9.11

तासु बुद्बुदफेनाभ्यां दृष्टं तद्धरति क्षिपन् । हतपुत्रस्ततस्त्वष्टा जुहावेन्द्राय शत्रवे ॥ 11 ॥

श्लोक 6.9.12

इन्द्रशत्रो विवर्धस्व मा चिरं जहि विद्विषम् । अथान्वाहार्यपचनादुत्थितो घोरदर्शनः ॥ 12 ॥

श्लोक 6.9.13

कृतान्त इव लोकानां युगान्तसमये यथा । विष्वग् विवर्धमानं तमिषुमात्रं दिने दिने ॥ 13 ॥

श्लोक 6.9.14

दग्धशैलप्रतीकाशं सन्ध्याभ्रानीकवर्चसम् । तप्तताम्रशिखाश्मश्रुं मध्याह्नार्कोग्रलोचनम् ॥ 14 ॥

श्लोक 6.9.15

देदीप्यमाने त्रिशिखे शूल आरोप्य रोदसी । नृत्यन्तमुन्नदन्तं च चालयन्तं पदा महीम् ॥ 15 ॥

श्लोक 6.9.16

दरीगम्भीरवक्त्रेण पिबता च नभस्तलम् । लिहता जिह्वयर्क्षाणि ग्रसता भुवनत्रयम् ॥ 16 ॥

श्लोक 6.9.17

महता रौद्रदंष्ट्रेण जृम्भमाणं मुहुर्मुहुः । वित्रस्ता दुद्रुवुर्लोका वीक्ष्य सर्वे दिशो दश ॥ 17 ॥

श्लोक 6.9.18

येनावृता इमे लोकास्तपसा त्वाष्ट्रमूर्तिना । स वै वृत्र इति प्रोक्तः पापः परमदारुणः ॥ 18 ॥

श्लोक 6.9.19

तं निजघ्नुरभिद्रुत्य सगणा विबुधर्षभाः । स्वैः स्वैर्दिव्यास्त्रशस्त्रौघैः सो ऽग्रसत् तानि कृत्स्नशः ॥ 19 ॥

श्लोक 6.9.20

ततस्ते विस्मिताः सर्वे विषण्णा ग्रस्ततेजसः । प्रत्यञ्चमादिपुरुषमुपतस्थुः समाहिताः ॥ 20 ॥

श्लोक 6.9.21

वाय्वम्बराग्न्यप्क्षितयस्त्रिलोका ब्रह्मादयो ये वयमुद्विजन्तः । हराम यस्मै बलिमन्तको ऽसौ बिभेति यस्मादरणं ततो नः ॥ 21 ॥

श्लोक 6.9.22

अविस्मितं तं परिपूर्णकामं स्वेनैव लाभेन समं प्रशान्तम् । विनोपसर्पत्य् अपरं हि बालिशः श्वलाङ्गुलेनातितितर्ति सिन्धुम् ॥ 22 ॥

श्लोक 6.9.23

यस्योरुशृङ्गे जगतीं स्वनावं मनुर्यथाबध्य ततार दुर्गम् । स एव नस्त्वाष्ट्रभयाद्दुरन्तात् त्राताश्रितान् वारिचरो ऽपि नूनम् ॥ 23 ॥

श्लोक 6.9.24

पुरा स्वयम्भूरपि संयमाम्भस्य् उदीर्णवातोर्मिरवैः कराले । एको ऽरविन्दात् पतितस्ततार तस्माद्भयाद्येन स नो ऽस्तु पारः ॥ 24 ॥

श्लोक 6.9.25

य एक ईशो निजमायया नः ससर्ज येनानुसृजाम विश्वम् । वयं न यस्यापि पुरः समीहतः पश्याम लिङ्गं पृथग् ईशमानिनः ॥ 25 ॥

श्लोक 6.9.26

यो नः सपत्नैर्भृशमर्द्यमानान् देवर्षितिर्यङ्नृषु नित्य एव । कृतावतारस्तनुभिः स्वमायया कृत्वात्मसात् पाति युगे युगे च ॥ 26 ॥

श्लोक 6.9.27

तमेव देवं वयमात्मदैवतं परं प्रधानं पुरुषं विश्वमन्यम् । व्रजाम सर्वे शरणं शरण्यं स्वानां स नो धास्यति शं महात्मा ॥ 27 ॥

श्लोक 6.9.28

इति तेषां महाराज सुराणामुपतिष्ठताम् । प्रतीच्यां दिश्य् अभूदाविः शङ्खचक्रगदाधरः ॥ 28 ॥

श्लोक 6.9.29

आत्मतुल्यैः षोडशभिर्विना श्रीवत्सकौस्तुभौ । पर्युपासितमुन्निद्र शरदम्बुरुहेक्षणम् ॥ 29 ॥

श्लोक 6.9.30

दृष्ट्वा तमवनौ सर्व ईक्षणाह्लादविक्लवाः । दण्डवत् पतिता राजञ् छनैरुत्थाय तुष्टुवुः ॥ 30 ॥

श्लोक 6.9.31

नमस्ते यज्ञवीर्याय वयसे उत ते नमः । नमस्ते ह्य् अस्तचक्राय नमः सुपुरुहूतये ॥ 31 ॥

श्लोक 6.9.32

यत् ते गतीनां तिसृणामीशितुः परमं पदम् । नार्वाचीनो विसर्गस्य धातर्वेदितुमर्हति ॥ 32 ॥

श्लोक 6.9.33

ॐ नमस्ते ऽस्तु भगवन् नारायण वासुदेवादिपुरुष महापुरुष महानुभाव परममङ्गल परमकल्याण परमकारुणिक केवल जगदाधार लोकैकनाथ सर्वेश्वर लक्ष्मीनाथ परमहंसपरिव्राजकैः परमेणात्मयोगसमाधिना परिभावितपरिस्फुटपारमहंस्यधर्मेणोद्घाटिततमःकपाटद्वारे चित्ते ऽपावृत आत्मलोके स्वयमुपलब्धनिजसुखानुभवो भवान् ॥ 33 ॥

श्लोक 6.9.34

दुरवबोध इव तवायं विहारयोगो यदशरणो ऽशरीर इदमनवेक्षितास्मत्समवाय आत्मनैवाविक्रियमाणेन सगुणमगुणः सृजसि पासि हरसि ॥ 34 ॥

श्लोक 6.9.35

अथ तत्र भवान् किं देवदत्तवदिह गुणविसर्गपतितः पारतन्त्र्येण स्वकृतकुशलाकुशलं फलमुपाददात्य् आहोस्विदात्माराम उपशमशीलः समञ्जसदर्शन उदास्त इति ह वाव न विदामः ॥ 35 ॥

श्लोक 6.9.36

न हि विरोध उभयं भगवत्य् अपरिमितगुणगण ईश्वरे ऽनवगाह्यमाहात्म्ये ऽर्वाचीनविकल्पवितर्कविचारप्रमाणाभासकुतर्कशास्त्रकलिलान्तःकरणाश्रयदुरवग्रहवादिनां विवादानवसर उपरतसमस्तमायामये केवल एवात्ममायामन्तर्धाय को न्वर्थो दुर्घट इव भवति स्वरूपद्वयाभावात् ॥ 36 ॥

श्लोक 6.9.37

समविषममतीनां मतमनुसरसि यथा रज्जुखण्डः सर्पादिधियाम् ॥ 37 ॥

श्लोक 6.9.38

स एव हि पुनः सर्ववस्तुनि वस्तुस्वरूपः सर्वेश्वरः सकलजगत्कारणकारणभूतः सर्वप्रत्यगात्मत्वात् सर्वगुणाभासोपलक्षित एक एव पर्यवशेषितः ॥ 38 ॥

श्लोक 6.9.39

अथ ह वाव तव महिमामृतरससमुद्रविप्रुषा सकृदवलीढया स्वमनसि निष्यन्दमानानवरतसुखेन विस्मारितदृष्टश्रुतविषयसुखलेशाभासाः परमभागवता एकान्तिनो भगवति सर्वभूतप्रियसुहृदि सर्वात्मनि नितरां निरन्तरं निर्वृतमनसः कथमु ह वा एते मधुमथन पुनः स्वार्थकुशला ह्य् आत्मप्रियसुहृदः साधवस्त्वच्चरणाम्बुजानुसेवां विसृजन्ति न यत्र पुनरयं संसारपर्यावर्तः ॥ 39 ॥

श्लोक 6.9.40

त्रिभुवनात्मभवन त्रिविक्रम त्रिनयन त्रिलोकमनोहरानुभाव तवैव विभूतयो दितिजदनुजादयश्चापि तेषामुपक्रमसमयो ऽयमिति स्वात्ममायया सुरनरमृगमिश्रितजलचराकृतिभिर्यथापराधं दण्डं दण्डधर दधर्थ एवमेनमपि भगवन् जहि त्वाष्ट्रमुत यदि मन्यसे ॥ 40 ॥

श्लोक 6.9.41

अस्माकं तावकानां तततत नतानां हरे तव चरणनलिनयुगलध्यानानुबद्धहृदयनिगडानां स्वलिङ्गविवरणेनात्मसात्कृतानामनुकम्पानुरञ्जितविशदरुचिरशिशिरस्मितावलोकेन विगलितमधुरमुखरसामृतकलया चान्तस्तापमनघार्हसि शमयितुम् ॥ 41 ॥

श्लोक 6.9.42

अथ भगवंस्तवास्माभिरखिलजगदुत्पत्तिस्थितिलयनिमित्तायमानदिव्यमायाविनोदस्य सकलजीवनिकायानामन्तर्हृदयेषु बहिरपि च ब्रह्मप्रत्यगात्मस्वरूपेण प्रधानरूपेण च यथादेशकालदेहावस्थानविशेषं तदुपादानोपलम्भकतयानुभवतः सर्वप्रत्ययसाक्षिण आकाशशरीरस्य साक्षात् परब्रह्मणः परमात्मनः कियान् इह वार्थविशेषो विज्ञापनीयः स्याद्विस्फुलिङ्गादिभिरिव हिरण्यरेतसः ॥ 42 ॥

श्लोक 6.9.43

अत एव स्वयं तदुपकल्पयास्माकं भगवतः परमगुरोस्तव चरणशतपलाशच्छायां विविधवृजिनसंसारपरिश्रमोपशमनीमुपसृतानां वयं यत्कामेनोपसादिताः ॥ 43 ॥

श्लोक 6.9.44

अथो ईश जहि त्वाष्ट्रं ग्रसन्तं भुवनत्रयम् । ग्रस्तानि येन नः कृष्ण तेजांस्य् अस्त्रायुधानि च ॥ 44 ॥

श्लोक 6.9.45

हंसाय दह्रनिलयाय निरीक्षकाय कृष्णाय मृष्टयशसे निरुपक्रमाय । सत्सङ्ग्रहाय भवपान्थनिजाश्रमाप्ताव् अन्ते परीष्टगतये हरये नमस्ते ॥ 45 ॥

श्लोक 6.9.46

अथैवमीडितो राजन् सादरं त्रिदशैर्हरिः । स्वमुपस्थानमाकर्ण्य प्राह तान् अभिनन्दितः ॥ 46 ॥

श्लोक 6.9.47

प्रीतो ऽहं वः सुरश्रेष्ठा मदुपस्थानविद्यया । आत्मैश्वर्यस्मृतिः पुंसां भक्तिश्चैव यया मयि ॥ 47 ॥

श्लोक 6.9.48

किं दुरापं मयि प्रीते तथापि विबुधर्षभाः । मय्य् एकान्तमतिर्नान्यन् मत्तो वाञ्छति तत्त्ववित् ॥ 48 ॥

श्लोक 6.9.49

न वेद कृपणः श्रेय आत्मनो गुणवस्तुदृक् । तस्य तान् इच्छतो यच्छेद्यदि सो ऽपि तथाविधः ॥ 49 ॥

श्लोक 6.9.50

स्वयं निःश्रेयसं विद्वान् न वक्त्य् अज्ञाय कर्म हि । न राति रोगिणो ऽपथ्यं वाञ्छतो ऽपि भिषक्तमः ॥ 50 ॥

श्लोक 6.9.51

मघवन् यात भद्रं वो दध्यञ्चमृषिसत्तमम् । विद्याव्रततपःसारं गात्रं याचत मा चिरम् ॥ 51 ॥

श्लोक 6.9.52

स वा अधिगतो दध्यङ्ङ् अश्विभ्यां ब्रह्म निष्कलम् । यद्वा अश्वशिरो नाम तयोरमरतां व्यधात् ॥ 52 ॥

श्लोक 6.9.53

दध्यङ्ङ् आथर्वणस्त्वष्ट्रे वर्माभेद्यं मदात्मकम् । विश्वरूपाय यत् प्रादात् त्वष्टा यत् त्वमधास्ततः ॥ 53 ॥

श्लोक 6.9.54

युष्मभ्यं याचितो ऽश्विभ्यां धर्मज्ञो ऽङ्गानि दास्यति । ततस्तैरायुधश्रेष्ठो विश्वकर्मविनिर्मितः । येन वृत्रशिरो हर्ता मत्तेजौपबृंहितः ॥ 54 ॥

श्लोक 6.9.55

तस्मिन् विनिहते यूयं तेजो ऽस्त्रायुधसम्पदः । भूयः प्राप्स्यथ भद्रं वो न हिंसन्ति च मत्परान् ॥ 55 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ