श्रीमद्भागवत षष्ठ स्कन्ध अध्याय 12
श्रीमद्भागवत षष्ठ स्कन्ध अध्याय 12 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 6.12.1
एवं जिहासुर्नृप देहमाजौ मृत्युं वरं विजयान् मन्यमानः । शूलं प्रगृह्याभ्यपतत् सुरेन्द्रं यथा महापुरुषं कैटभो ऽप्सु ॥ 1 ॥
श्लोक 6.12.2
ततो युगान्ताग्निकठोरजिह्वम् आविध्य शूलं तरसासुरेन्द्रः । क्षिप्त्वा महेन्द्राय विनद्य वीरो हतो ऽसि पापेति रुषा जगाद ॥ 2 ॥
श्लोक 6.12.3
ख आपतत् तद्विचलद्ग्रहोल्कवन् निरीक्ष्य दुष्प्रेक्ष्यमजातविक्लवः । वज्रेण वज्री शतपर्वणाच्छिनद् भुजं च तस्योरगराजभोगम् ॥ 3 ॥
श्लोक 6.12.4
छिन्नैकबाहुः परिघेण वृत्रः संरब्ध आसाद्य गृहीतवज्रम् । हनौ तताडेन्द्रमथामरेभं वज्रं च हस्तान् न्यपतन् मघोनः ॥ 4 ॥
श्लोक 6.12.5
वृत्रस्य कर्मातिमहाद्भुतं तत् सुरासुराश्चारणसिद्धसङ्घाः । अपूजयंस्तत् पुरुहूतसङ्कटं निरीक्ष्य हा हेति विचुक्रुशुर्भृशम् ॥ 5 ॥
श्लोक 6.12.6
इन्द्रो न वज्रं जगृहे विलज्जितश् च्युतं स्वहस्तादरिसन्निधौ पुनः । तमाह वृत्रो हर आत्तवज्रो जहि स्वशत्रुं न विषादकालः ॥ 6 ॥
श्लोक 6.12.7
युयुत्सतां कुत्रचिदाततायिनां जयः सदैकत्र न वै परात्मनाम् । विनैकमुत्पत्तिलयस्थितीश्वरं सर्वज्ञमाद्यं पुरुषं सनातनम् ॥ 7 ॥
श्लोक 6.12.8
लोकाः सपाला यस्येमे श्वसन्ति विवशा वशे । द्विजा इव शिचा बद्धाः स काल इह कारणम् ॥ 8 ॥
श्लोक 6.12.9
ओजः सहो बलं प्राणममृतं मृत्युमेव च । तमज्ञाय जनो हेतुमात्मानं मन्यते जडम् ॥ 9 ॥
श्लोक 6.12.10
यथा दारुमयी नारी यथा पत्रमयो मृगः । एवं भूतानि मघवन्नीशतन्त्राणि विद्धि भोः ॥ 10 ॥
श्लोक 6.12.11
पुरुषः प्रकृतिर्व्यक्तमात्मा भूतेन्द्रियाशयाः । शक्नुवन्त्य् अस्य सर्गादौ न विना यदनुग्रहात् ॥ 11 ॥
श्लोक 6.12.12
अविद्वान् एवमात्मानं मन्यते ऽनीशमीश्वरम् । भूतैः सृजति भूतानि ग्रसते तानि तैः स्वयम् ॥ 12 ॥
श्लोक 6.12.13
आयुः श्रीः कीर्तिरैश्वर्यमाशिषः पुरुषस्य याः । भवन्त्य् एव हि तत्काले यथानिच्छोर्विपर्ययाः ॥ 13 ॥
श्लोक 6.12.14
तस्मादकीर्तियशसोर्जयापजययोरपि । समः स्यात् सुखदुःखाभ्यां मृत्युजीवितयोस्तथा ॥ 14 ॥
श्लोक 6.12.15
सत्त्वं रजस्तम इति प्रकृतेर्नात्मनो गुणाः । तत्र साक्षिणमात्मानं यो वेद स न बध्यते ॥ 15 ॥
श्लोक 6.12.16
पश्य मां निर्जितं शत्रु वृक्णायुधभुजं मृधे । घटमानं यथाशक्ति तव प्राणजिहीर्षया ॥ 16 ॥
श्लोक 6.12.17
प्राणग्लहो ऽयं समर इष्वक्षो वाहनासनः । अत्र न ज्ञायते ऽमुष्य जयो ऽमुष्य पराजयः ॥ 17 ॥
श्लोक 6.12.18
इन्द्रो वृत्रवचः श्रुत्वा गतालीकमपूजयत् । गृहीतवज्रः प्रहसंस्तमाह गतविस्मयः ॥ 18 ॥
श्लोक 6.12.19
अहो दानव सिद्धो ऽसि यस्य ते मतिरीदृशी । भक्तः सर्वात्मनात्मानं सुहृदं जगदीश्वरम् ॥ 19 ॥
श्लोक 6.12.20
भवान् अतार्षीन् मायां वै वैष्णवीं जनमोहिनीम् । यद्विहायासुरं भावं महापुरुषतां गतः ॥ 20 ॥
श्लोक 6.12.21
खल्विदं महदाश्चर्यं यद्रजःप्रकृतेस्तव । वासुदेवे भगवति सत्त्वात्मनि दृढा मतिः ॥ 21 ॥
श्लोक 6.12.22
यस्य भक्तिर्भगवति हरौ निःश्रेयसेश्वरे । विक्रीडतो ऽमृताम्भोधौ किं क्षुद्रैः खातकोदकैः ॥ 22 ॥
श्लोक 6.12.23
इति ब्रुवाणावन्योन्यं धर्मजिज्ञासया नृप । युयुधाते महावीर्याविन्द्रवृत्रौ युधाम्पती ॥ 23 ॥
श्लोक 6.12.24
आविध्य परिघं वृत्रः कार्ष्णायसमरिन्दमः । इन्द्राय प्राहिणोद्घोरं वामहस्तेन मारिष ॥ 24 ॥
श्लोक 6.12.25
स तु वृत्रस्य परिघं करं च करभोपमम् । चिच्छेद युगपद्देवो वज्रेण शतपर्वणा ॥ 25 ॥
श्लोक 6.12.26
दोर्भ्यामुत्कृत्तमूलाभ्यां बभौ रक्तस्रवो ऽसुरः । छिन्नपक्षो यथा गोत्रः खाद्भ्रष्टो वज्रिणा हतः ॥ 26 ॥
श्लोक 6.12.27
महाप्राणो महावीर्यो महासर्प इव द्विपम् । कृत्वाधरां हनुं भूमौ दैत्यो दिव्य् उत्तरां हनुम् ॥ 27 ॥
श्लोक 6.12.28
नभोगम्भीरवक्त्रेण लेलिहोल्बणजिह्वया । दंष्ट्राभिः कालकल्पाभिर्ग्रसन्निव जगत्त्रयम् ॥ 28 ॥
श्लोक 6.12.29
अतिमात्रमहाकाय आक्षिपंस्तरसा गिरीन् । गिरिराट् पादचारीव पद्भ्यां निर्जरयन् महीम् ॥ 29 ॥
श्लोक 6.12.30
जग्रास स समासाद्य वज्रिणं सहवाहनम् । वृत्रग्रस्तं तमालोक्य सप्रजापतयः सुराः । हा कष्टमिति निर्विण्णाश्चुक्रुशुः समहर्षयः ॥ 30 ॥
श्लोक 6.12.31
निगीर्णो ऽप्य् असुरेन्द्रेण न ममारोदरं गतः । महापुरुषसन्नद्धो योगमायाबलेन च ॥ 31 ॥
श्लोक 6.12.32
भित्त्वा वज्रेण तत्कुक्षिं निष्क्रम्य बलभिद्विभुः । उच्चकर्त शिरः शत्रोर्गिरिशृङ्गमिवौजसा ॥ 32 ॥
श्लोक 6.12.33
वज्रस्तु तत्कन्धरमाशुवेगः कृन्तन् समन्तात् परिवर्तमानः । न्यपातयत् तावदहर्गणेन यो ज्योतिषामयने वार्त्रहत्ये ॥ 33 ॥
श्लोक 6.12.34
तदा च खे दुन्दुभयो विनेदुर् गन्धर्वसिद्धाः समहर्षिसङ्घाः । वार्त्रघ्नलिङ्गैस्तमभिष्टुवाना मन्त्रैर्मुदा कुसुमैरभ्यवर्षन् ॥ 34 ॥
श्लोक 6.12.35
वृत्रस्य देहान् निष्क्रान्तमात्मज्योतिररिन्दम । पश्यतां सर्वदेवानामलोकं समपद्यत ॥ 35 ॥