श्रीमद्भागवत षष्ठ स्कन्ध अध्याय 13
श्रीमद्भागवत षष्ठ स्कन्ध अध्याय 13 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 6.13.1
वृत्रे हते त्रयो लोका विना शक्रेण भूरिद । सपाला ह्य् अभवन् सद्यो विज्वरा निर्वृतेन्द्रियाः ॥ 1 ॥
श्लोक 6.13.2
देवर्षिपितृभूतानि दैत्या देवानुगाः स्वयम् । प्रतिजग्मुः स्वधिष्ण्यानि ब्रह्मेशेन्द्रादयस्ततः ॥ 2 ॥
श्लोक 6.13.3
इन्द्रस्यानिर्वृतेर्हेतुं श्रोतुमिच्छामि भो मुने । येनासन् सुखिनो देवा हरेर्दुःखं कुतो ऽभवत् ॥ 3 ॥
श्लोक 6.13.4
वृत्रविक्रमसंविग्नाः सर्वे देवाः सहर्षिभिः । तद्वधायार्थयन्निन्द्रं नैच्छद्भीतो बृहद्वधात् ॥ 4 ॥
श्लोक 6.13.5
स्त्रीभूद्रुमजलैरेनो विश्वरूपवधोद्भवम् । विभक्तमनुगृह्णद्भिर्वृत्रहत्यां क्व मार्ज्म्य् अहम् ॥ 5 ॥
श्लोक 6.13.6
ऋषयस्तदुपाकर्ण्य महेन्द्रमिदमब्रुवन् । याजयिष्याम भद्रं ते हयमेधेन मा स्म भैः ॥ 6 ॥
श्लोक 6.13.7
हयमेधेन पुरुषं परमात्मानमीश्वरम् । इष्ट्वा नारायणं देवं मोक्ष्यसे ऽपि जगद्वधात् ॥ 7 ॥
श्लोक 6.13.8
ब्रह्महा पितृहा गोघ्नो मातृहाचार्यहाघवान् । श्वादः पुल्कसको वापि शुद्ध्येरन् यस्य कीर्तनात् ॥ 8 ॥
श्लोक 6.13.9
तमश्वमेधेन महामखेन श्रद्धान्वितो ऽस्माभिरनुष्ठितेन । हत्वापि सब्रह्मचराचरं त्वं न लिप्यसे किं खलनिग्रहेण ॥ 9 ॥
श्लोक 6.13.10
एवं सञ्चोदितो विप्रैर्मरुत्वान् अहनद्रिपुम् । ब्रह्महत्या हते तस्मिन्नाससाद वृषाकपिम् ॥ 10 ॥
श्लोक 6.13.11
तयेन्द्रः स्मासहत् तापं निर्वृतिर्नामुमाविशत् । ह्रीमन्तं वाच्यतां प्राप्तं सुखयन्त्य् अपि नो गुणाः ॥ 11 ॥
श्लोक 6.13.12
तां ददर्शानुधावन्तीं चाण्डालीमिव रूपिणीम् । जरया वेपमानाङ्गीं यक्ष्मग्रस्तामसृक्पटाम् ॥ 12 ॥
श्लोक 6.13.13
विकीर्य पलितान् केशांस्तिष्ठ तिष्ठेति भाषिणीम् । मीनगन्ध्यसुगन्धेन कुर्वतीं मार्गदूषणम् ॥ 13 ॥
श्लोक 6.13.14
नभो गतो दिशः सर्वाः सहस्राक्षो विशाम्पते । प्रागुदीचीं दिशं तूर्णं प्रविष्टो नृप मानसम् ॥ 14 ॥
श्लोक 6.13.15
स आवसत् पुष्करनालतन्तून् अलब्धभोगो यदिहाग्निदूतः । वर्षाणि साहस्रमलक्षितो ऽन्तः सञ्चिन्तयन् ब्रह्मवधाद्विमोक्षम् ॥ 15 ॥
श्लोक 6.13.16
तावत् त्रिणाकं नहुषः शशास विद्यातपोयोगबलानुभावः । स सम्पदैश्वर्यमदान्धबुद्धिर् नीतस्तिरश्चां गतिमिन्द्रपत्न्या ॥ 16 ॥
श्लोक 6.13.17
ततो गतो ब्रह्मगिरोपहूत ऋतम्भरध्याननिवारिताघः । पापस्तु दिग्देवतया हतौजास् तं नाभ्यभूदवितं विष्णुपत्न्या ॥ 17 ॥
श्लोक 6.13.18
तं च ब्रह्मर्षयो ऽभ्येत्य हयमेधेन भारत । यथावद्दीक्षयां चक्रुः पुरुषाराधनेन ह ॥ 18 ॥
श्लोक 6.13.19
अथेज्यमाने पुरुषे सर्वदेवमयात्मनि । अश्वमेधे महेन्द्रेण वितते ब्रह्मवादिभिः ॥ 19 ॥
श्लोक 6.13.20
स वै त्वाष्ट्रवधो भूयान् अपि पापचयो नृप । नीतस्तेनैव शून्याय नीहार इव भानुना ॥ 20 ॥
श्लोक 6.13.21
स वाजिमेधेन यथोदितेन वितायमानेन मरीचिमिश्रैः । इष्ट्वाधियज्ञं पुरुषं पुराणम् इन्द्रो महान् आस विधूतपापः ॥ 21 ॥
श्लोक 6.13.22
इदं महाख्यानमशेषपाप्मनां प्रक्षालनं तीर्थपदानुकीर्तनम् । भक्त्युच्छ्रयं भक्तजनानुवर्णनं महेन्द्रमोक्षं विजयं मरुत्वतः ॥ 22 ॥
श्लोक 6.13.23
पठेयुराख्यानमिदं सदा बुधाः शृण्वन्त्य् अथो पर्वणि पर्वणीन्द्रियम् । धन्यं यशस्यं निखिलाघमोचनं रिपुञ्जयं स्वस्त्ययनं तथायुषम् ॥ 23 ॥